🪷 Mahābhārata · Śānti-Parva · Chapter 306
The Book of Peace · the great dharma-śāstra · Parva 12 · 108 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 108 Shlokas
MBh 12.306.1
याज्ञवल्क्य उवाच
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप
MBh 12.306.2
यथार्षेणेह विधिना चरतावमतेन ह
मयादित्यादवाप्तानि यजूंषि मिथिलाधिप
MBh 12.306.3
महता तपसा देवस्तपिष्ठः सेवितो मया
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ
MBh 12.306.4
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम्
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः
MBh 12.306.5
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्
MBh 12.306.6
ततो मां भगवानाह वितरिष्यामि ते द्विज
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति
MBh 12.306.7
ततो मामाह भगवानास्यं स्वं विवृतं कुरु
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती
MBh 12.306.8
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः
MBh 12.306.9
ततो विदह्यमानं मामुवाच भगवान्रविः
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि
MBh 12.306.10
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज
MBh 12.306.11
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ
तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति
MBh 12.306.12
प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम्
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत
MBh 12.306.13
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम्
MBh 12.306.14
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता
ओंकारमादितः कृत्वा मम देवी सरस्वती
MBh 12.306.15
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम्
तपतां च वरिष्ठाय निषण्णस्तत्परायणः
MBh 12.306.16
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम्
चक्रे सपरिशेषं च हर्षेण परमेण ह
MBh 12.306.17
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम्
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः
MBh 12.306.18
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः
MBh 12.306.19
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम्
स्ववेददक्षिणायाथ विमर्दे मातुलेन ह
MBh 12.306.20
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः
MBh 12.306.21
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ
तथैव लोमहर्षाच्च पुराणमवधारितम्
MBh 12.306.22
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम्
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप
MBh 12.306.23
कर्तुं शतपथं वेदमपूर्वं कारितं च मे
यथाभिलषितं मार्गं तथा तच्चोपपादितम्
MBh 12.306.24
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम्
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः
MBh 12.306.25
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम्
MBh 12.306.26
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम्
चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत
MBh 12.306.27
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा
MBh 12.306.28
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च
ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च
MBh 12.306.29
वेद्यावेद्यं तथा राजन्नचलं चलमेव च
अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम्
MBh 12.306.30
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत्
MBh 12.306.31
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये
बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः
MBh 12.306.32
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम्
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम्
MBh 12.306.33
तत्रोपनिषदं चैव परिशेषं च पार्थिव
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम्
MBh 12.306.34
चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी
उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता
MBh 12.306.35
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा
श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह
MBh 12.306.36
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम्
MBh 12.306.37
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते
MBh 12.306.38
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम्
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा
MBh 12.306.39
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते
MBh 12.306.40
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः
MBh 12.306.41
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु
MBh 12.306.42
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः
अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः
MBh 12.306.43
अजावुभावप्रजौ च अक्षयौ चाप्युभावपि
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः
MBh 12.306.44
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम्
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते
MBh 12.306.45
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी
MBh 12.306.46
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः
MBh 12.306.47
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम
MBh 12.306.48
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते
वेदवेद्यं न जानीते वेदभारवहो हि सः
MBh 12.306.49
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम्
MBh 12.306.50
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः
MBh 12.306.51
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना
यथास्य जन्मनिधने न भवेतां पुनः पुनः
MBh 12.306.52
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम्
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः
MBh 12.306.53
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप
तदा स केवलीभूतः षड्विंशमनुपश्यति
MBh 12.306.54
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः
तस्य द्वावनुपश्येत तमेकमिति साधवः
MBh 12.306.55
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम्
जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः
MBh 12.306.56
विश्वावसुरुवाच
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति
MBh 12.306.57
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम्
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः
MBh 12.306.58
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः
MBh 12.306.59
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः
MBh 12.306.60
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम्
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः
MBh 12.306.61
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत
MBh 12.306.62
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान्
MBh 12.306.63
न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः
कथ्यते देवलोके च पितृलोके च ब्राह्मण
MBh 12.306.64
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः
पतिश्च तपतां शश्वदादित्यस्तव भाषते
MBh 12.306.65
सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः
MBh 12.306.66
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम्
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा
MBh 12.306.67
याज्ञवल्क्य उवाच
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम
जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम्
MBh 12.306.68
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः
न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम्
MBh 12.306.69
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम्
सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात्
MBh 12.306.70
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ
षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति
MBh 12.306.71
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः
MBh 12.306.72
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात्
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते
सस्नेहः सहवासाच्च साभिमानश्च नित्यशः
MBh 12.306.73
स निमज्जति कालस्य यदैकत्वं न बुध्यते
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः
MBh 12.306.74
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः
तदा स केवलीभूतः षड्विंशमनुपश्यति
MBh 12.306.75
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः
MBh 12.306.76
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम्
जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप
षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः
MBh 12.306.77
यदा स केवलीभूतः षड्विंशमनुपश्यति
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति
MBh 12.306.78
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ
बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात्
MBh 12.306.79
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत्
MBh 12.306.80
विश्वावसुरुवाच
तथ्यं शुभं चैतदुक्तं त्वया भोः; सम्यक्क्षेम्यं देवताद्यं यथावत्
स्वस्त्यक्षयं भवतश्चास्तु नित्यं; बुद्ध्या सदा बुद्धियुक्तं नमस्ते
MBh 12.306.81
याज्ञवल्क्य उवाच
एवमुक्त्वा संप्रयातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन
तुष्टश्च तुष्ट्या परयाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा
MBh 12.306.82
ब्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र
तत्रैव तद्दर्शनं दर्शयन्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै
MBh 12.306.83
सांख्याः सर्वे सांख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च
ये चाप्यन्ये मोक्षकामा मनुष्या;स्तेषामेतद्दर्शनं ज्ञानदृष्टम्
MBh 12.306.84
ज्ञानान्मोक्षो जायते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षयेज्जन्ममृत्योः
MBh 12.306.85
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम्
श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम्
MBh 12.306.86
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च ब्रह्म
तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि; सर्वं विश्वं ब्रह्म चैतत्समस्तम्
MBh 12.306.87
ब्रह्मास्यतो ब्राह्मणाः संप्रसूता; बाहुभ्यां वै क्षत्रियाः संप्रसूताः
नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः
MBh 12.306.88
अज्ञानतः कर्मयोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम्
तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम्
MBh 12.306.89
तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मया ते
तस्थौ ब्रह्मा तस्थिवांश्चापरो य;स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः
MBh 12.306.90
यत्ते पृष्टं तन्मया चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व
राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम्
MBh 12.306.91
भीष्म उवाच
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा
MBh 12.306.92
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित्
MBh 12.306.93
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च
रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा
MBh 12.306.94
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः
MBh 12.306.95
सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन्
MBh 12.306.96
अनन्तमिति कृत्वा स नित्यं केवलमेव च
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च
MBh 12.306.97
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत्
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप
MBh 12.306.98
पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः
इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम्
नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव
MBh 12.306.99
दीयते यच्च लभते दत्तं यच्चानुमन्यते
ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह
ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै
MBh 12.306.100
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत्
एवं मन्यस्व सततमन्यथा मा विचिन्तय
MBh 12.306.101
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः
तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता
MBh 12.306.102
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन
लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते
MBh 12.306.103
तथैव महतः स्थानमाहंकारिकमेव च
अहंकारात्परं चापि स्थानानि समवाप्नुयात्
MBh 12.306.104
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः
जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत्
MBh 12.306.105
एतन्मयाप्तं जनकात्पुरस्ता;त्तेनापि चाप्तं नृप याज्ञवल्क्यात्
ज्ञानं विशिष्टं न तथा हि यज्ञा; ज्ञानेन दुर्गं तरते न यज्ञैः
MBh 12.306.106
दुर्गं जन्म निधनं चापि राज;न्न भूतिकं ज्ञानविदो वदन्ति
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च; दिवं समासाद्य पतन्ति भूमौ
MBh 12.306.107
तस्मादुपासस्व परं महच्छुचि; शिवं विमोक्षं विमलं पवित्रम्
क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ;मुपास्य वै तत्त्वमृषिर्भविष्यसि
MBh 12.306.108
उपनिषदमुपाकरोत्तदा वै; जनकनृपस्य पुरा हि याज्ञवल्क्यः
यदुपगणितशाश्वताव्ययं त;च्छुभममृतत्वमशोकमृच्छतीति
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 305
- Next chapter · Śānti-Parva Ch 307 →
Sources and Connected Readings
Continue from these 108 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.306local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷