🪷 Mahābhārata · Śānti-Parva · Chapter 303

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.303.1
याज्ञवल्क्य उवाच न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे
MBh 12.303.2
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः
MBh 12.303.3
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः
MBh 12.303.4
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः न मत्तः परमस्तीति नित्यमेवाभिमन्यते
MBh 12.303.5
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा
MBh 12.303.6
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः यदात्मानं न जानीते तदाव्यक्तमिहोच्यते
MBh 12.303.7
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते
MBh 12.303.8
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता कर्तृत्वाच्चापि बीजानां बीजधर्मी तथोच्यते
MBh 12.303.9
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् कर्तृत्वात्प्रलयानां च तथा प्रलयधर्मिता
MBh 12.303.10
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम्
MBh 12.303.11
मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम
MBh 12.303.12
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः
MBh 12.303.13
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते
MBh 12.303.14
अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा न चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते
MBh 12.303.15
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः
MBh 12.303.16
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै
MBh 12.303.17
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम्
MBh 12.303.18
एतेषां सह संवासं विवासं चैव नित्यशः यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः
MBh 12.303.19
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः
MBh 12.303.20
सांख्यदर्शनमेतत्ते परिसंख्यातमुत्तमम् एवं हि परिसंख्याय सांख्याः केवलतां गताः
MBh 12.303.21
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् अतः परं प्रवक्ष्यामि योगानामपि दर्शनम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.303local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷