🪷 Mahābhārata · Śānti-Parva · Chapter 292
The Book of Peace · the great dharma-śāstra · Parva 12 · 48 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 48 Shlokas
MBh 12.292.1
वसिष्ठ उवाच
एवमप्रतिबुद्धत्वादबुद्धमनुवर्तते
देहाद्देहसहस्राणि तथा समभिपद्यते
MBh 12.292.2
तिर्यग्योनिसहस्रेषु कदाचिद्देवतास्वपि
उपपद्यति संयोगाद्गुणैः सह गुणक्षयात्
MBh 12.292.3
मानुषत्वाद्दिवं याति दिवो मानुष्यमेव च
मानुष्यान्निरयस्थानमानन्त्यं प्रतिपद्यते
MBh 12.292.4
कोशकारो यथात्मानं कीटः समनुरुन्धति
सूत्रतन्तुगुणैर्नित्यं तथायमगुणो गुणैः
MBh 12.292.5
द्वंद्वमेति च निर्द्वंद्वस्तासु तास्विह योनिषु
शीर्षरोगेऽक्षिरोगे च दन्तशूले गलग्रहे
MBh 12.292.6
जलोदरेऽर्शसां रोगे ज्वरगण्डविषूचिके
श्वित्रे कुष्ठेऽग्निदाहे च सिध्मापस्मारयोरपि
MBh 12.292.7
यानि चान्यानि द्वंद्वानि प्राकृतानि शरीरिषु
उत्पद्यन्ते विचित्राणि तान्येषोऽप्यभिमन्यते
अभिमन्यत्यभीमानात्तथैव सुकृतान्यपि
MBh 12.292.8
एकवासाश्च दुर्वासाः शायी नित्यमधस्तथा
मण्डूकशायी च तथा वीरासनगतस्तथा
MBh 12.292.9
चीरधारणमाकाशे शयनं स्थानमेव च
इष्टकाप्रस्तरे चैव कण्टकप्रस्तरे तथा
MBh 12.292.10
भस्मप्रस्तरशायी च भूमिशय्यानुलेपनः
वीरस्थानाम्बुपङ्के च शयनं फलकेषु च
MBh 12.292.11
विविधासु च शय्यासु फलगृद्ध्यान्वितोऽफलः
मुञ्जमेखलनग्नत्वं क्षौमकृष्णाजिनानि च
MBh 12.292.12
शाणीवालपरीधानो व्याघ्रचर्मपरिच्छदः
सिंहचर्मपरीधानः पट्टवासास्तथैव च
MBh 12.292.13
कीटकावसनश्चैव चीरवासास्तथैव च
वस्त्राणि चान्यानि बहून्यभिमन्यत्यबुद्धिमान्
MBh 12.292.14
भोजनानि विचित्राणि रत्नानि विविधानि च
एकवस्त्रान्तराशित्वमेककालिकभोजनम्
MBh 12.292.15
चतुर्थाष्टमकालश्च षष्ठकालिक एव च
षड्रात्रभोजनश्चैव तथैवाष्टाहभोजनः
MBh 12.292.16
सप्तरात्रदशाहारो द्वादशाहार एव च
मासोपवासी मूलाशी फलाहारस्तथैव च
MBh 12.292.17
वायुभक्षोऽम्बुपिण्याकगोमयादन एव च
गोमूत्रभोजनश्चैव शाकपुष्पाद एव च
MBh 12.292.18
शैवालभोजनश्चैव तथाचामेन वर्तयन्
वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः
MBh 12.292.19
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया
चान्द्रायणानि विधिवल्लिङ्गानि विविधानि च
MBh 12.292.20
चातुराश्रम्यपन्थानमाश्रयत्याश्रमानपि
उपासीनश्च पाषण्डान्गुहाः शैलांस्तथैव च
MBh 12.292.21
विविक्ताश्च शिलाछायास्तथा प्रस्रवणानि च
विविधानि च जप्यानि विविधानि व्रतानि च
MBh 12.292.22
नियमान्सुविचित्रांश्च विविधानि तपांसि च
यज्ञांश्च विविधाकारान्विधींश्च विविधांस्तथा
MBh 12.292.23
वणिक्पथं द्विजक्षत्रं वैश्यशूद्रं तथैव च
दानं च विविधाकारं दीनान्धकृपणेष्वपि
MBh 12.292.24
अभिमन्यत्यसंबोधात्तथैव त्रिविधान्गुणान्
सत्त्वं रजस्तमश्चैव धर्मार्थौ काम एव च
प्रकृत्यात्मानमेवात्मा एवं प्रविभजत्युत
MBh 12.292.25
स्वधाकारवषट्कारौ स्वाहाकारनमस्क्रियाः
याजनाध्यापनं दानं तथैवाहुः प्रतिग्रहम्
यजनाध्ययने चैव यच्चान्यदपि किंचन
MBh 12.292.26
जन्ममृत्युविवादे च तथा विशसनेऽपि च
शुभाशुभमयं सर्वमेतदाहुः क्रियापथम्
MBh 12.292.27
प्रकृतिः कुरुते देवी महाप्रलयमेव च
दिवसान्ते गुणानेतानभ्येत्यैकोऽवतिष्ठति
MBh 12.292.28
रश्मिजालमिवादित्यस्तत्कालेन नियच्छति
एवमेषोऽसकृत्सर्वं क्रीडार्थमभिमन्यते
MBh 12.292.29
आत्मरूपगुणानेतान्विविधान्हृदयप्रियान्
एवमेव विकुर्वाणः सर्गप्रलयकर्मणी
MBh 12.292.30
क्रियाक्रियापथे रक्तस्त्रिगुणस्त्रिगुणातिगः
क्रियाक्रियापथोपेतस्तथा तदिति मन्यते
MBh 12.292.31
एवं द्वंद्वान्यथैतानि वर्तन्ते मम नित्यशः
ममैवैतानि जायन्ते बाधन्ते तानि मामिति
MBh 12.292.32
निस्तर्तव्यान्यथैतानि सर्वाणीति नराधिप
मन्यतेऽयं ह्यबुद्धित्वात्तथैव सुकृतान्यपि
MBh 12.292.33
भोक्तव्यानि मयैतानि देवलोकगतेन वै
इहैव चैनं भोक्ष्यामि शुभाशुभफलोदयम्
MBh 12.292.34
सुखमेव च कर्तव्यं सकृत्कृत्वा सुखं मम
यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति
MBh 12.292.35
भविष्यति च मे दुःखं कृतेनेहाप्यनन्तकम्
महद्दुःखं हि मानुष्यं निरये चापि मज्जनम्
MBh 12.292.36
निरयाच्चापि मानुष्यं कालेनैष्याम्यहं पुनः
मनुष्यत्वाच्च देवत्वं देवत्वात्पौरुषं पुनः
मनुष्यत्वाच्च निरयं पर्यायेणोपगच्छति
MBh 12.292.37
य एवं वेत्ति वै नित्यं निरात्मात्मगुणैर्वृतः
तेन देवमनुष्येषु निरये चोपपद्यते
MBh 12.292.38
ममत्वेनावृतो नित्यं तत्रैव परिवर्तते
सर्गकोटिसहस्राणि मरणान्तासु मूर्तिषु
MBh 12.292.39
य एवं कुरुते कर्म शुभाशुभफलात्मकम्
स एव फलमश्नाति त्रिषु लोकेषु मूर्तिमान्
MBh 12.292.40
प्रकृतिः कुरुते कर्म शुभाशुभफलात्मकम्
प्रकृतिश्च तदश्नाति त्रिषु लोकेषु कामगा
MBh 12.292.41
तिर्यग्योनौ मनुष्यत्वे देवलोके तथैव च
त्रीणि स्थानानि चैतानि जानीयात्प्राकृतानि ह
MBh 12.292.42
अलिङ्गां प्रकृतिं त्वाहुर्लिङ्गैरनुमिमीमहे
तथैव पौरुषं लिङ्गमनुमानाद्धि पश्यति
MBh 12.292.43
स लिङ्गान्तरमासाद्य प्राकृतं लिङ्गमव्रणम्
व्रणद्वाराण्यधिष्ठाय कर्माण्यात्मनि मन्यते
MBh 12.292.44
श्रोत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च
वागादीनि प्रवर्तन्ते गुणेष्वेव गुणैः सह
अहमेतानि वै कुर्वन्ममैतानीन्द्रियाणि च
MBh 12.292.45
निरिन्द्रियोऽभिमन्येत व्रणवानस्मि निर्व्रणः
अलिङ्गो लिङ्गमात्मानमकालः कालमात्मनः
MBh 12.292.46
असत्त्वं सत्त्वमात्मानमतत्त्वं तत्त्वमात्मनः
अमृत्युर्मृत्युमात्मानमचरश्चरमात्मनः
MBh 12.292.47
अक्षेत्रः क्षेत्रमात्मानमसर्गः सर्गमात्मनः
अतपास्तप आत्मानमगतिर्गतिमात्मनः
MBh 12.292.48
अभवो भवमात्मानमभयो भयमात्मनः
अक्षरः क्षरमात्मानमबुद्धिस्त्वभिमन्यते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 291
- Next chapter · Śānti-Parva Ch 293 →
Sources and Connected Readings
Continue from these 48 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.292local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷