🪷 Mahābhārata · Śānti-Parva · Chapter 290

The Book of Peace · the great dharma-śāstra · Parva 12 · 110 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 110 Shlokas

MBh 12.290.1
युधिष्ठिर उवाच सम्यक्त्वयायं नृपते वर्णितः शिष्टसंमतः योगमार्गो यथान्यायं शिष्यायेह हितैषिणा
MBh 12.290.2
सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते
MBh 12.290.3
भीष्म उवाच शृणु मे त्वमिदं शुद्धं सांख्यानां विदितात्मनाम् विहितं यतिभिर्बुद्धैः कपिलादिभिरीश्वरैः
MBh 12.290.4
यस्मिन्न विभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला
MBh 12.290.5
ज्ञानेन परिसंख्याय सदोषान्विषयान्नृप मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा
MBh 12.290.6
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा
MBh 12.290.7
पितॄणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा
MBh 12.290.8
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च
MBh 12.290.9
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् विषयांश्च प्रजेशानां ब्रह्मणो विषयांस्तथा
MBh 12.290.10
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः सुखस्य च परं तत्त्वं विज्ञाय वदतां वर
MBh 12.290.11
प्राप्ते काले च यद्दुःखं पततां विषयैषिणाम् तिर्यक्च पततां दुःखं पततां नरके च यत्
MBh 12.290.12
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत वेदवादे च ये दोषा गुणा ये चापि वैदिकाः
MBh 12.290.13
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप
MBh 12.290.14
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा
MBh 12.290.15
षड्गुणं च नभो ज्ञात्वा मनः पञ्चगुणं तथा बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं महत्
MBh 12.290.16
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणं तथा
MBh 12.290.17
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभैः प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम्
MBh 12.290.18
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च शब्दे सक्तं तथा श्रोत्रं जिह्वां रसगुणेषु च
MBh 12.290.19
तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् मोहं तमसि संसक्तं लोभमर्थेषु संश्रितम्
MBh 12.290.20
विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम् अप्सु देवीं तथा सक्तामपस्तेजसि चाश्रिताः
MBh 12.290.21
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम् नभो महति संयुक्तं महद्बुद्धौ च संश्रितम्
MBh 12.290.22
बुद्धिं तमसि संसक्तां तमो रजसि चाश्रितम् रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि
MBh 12.290.23
सक्तमात्मानमीशे च देवे नारायणे तथा देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्
MBh 12.290.24
ज्ञात्वा सत्त्वयुतं देहं वृतं षोडशभिर्गुणैः स्वभावं चेतनां चैव ज्ञात्वा वै देहमाश्रिते
MBh 12.290.25
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम्
MBh 12.290.26
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः
MBh 12.290.27
अवाक्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः सप्त वातांस्तथा शेषान्सप्तधा विधिवत्पुनः
MBh 12.290.28
प्रजापतीनृषींश्चैव मार्गांश्च सुबहून्वरान् सप्तर्षींश्च बहूञ्ज्ञात्वा राजर्षींश्च परंतप
MBh 12.290.29
सुरर्षीन्महतश्चान्यान्महर्षीन्सूर्यसंनिभान् ऐश्वर्याच्च्याविताञ्ज्ञात्वा कालेन महता नृप
MBh 12.290.30
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मणाम्
MBh 12.290.31
वैतरण्यां च यद्दुःखं पतितानां यमक्षये योनीषु च विचित्रासु संसारानशुभांस्तथा
MBh 12.290.32
जठरे चाशुभे वासं शोणितोदकभाजने श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते
MBh 12.290.33
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ
MBh 12.290.34
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप तामसानां च जन्तूनां रमणीयावृतात्मनाम्
MBh 12.290.35
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ गर्हितं महतामर्थे सांख्यानां विदितात्मनाम्
MBh 12.290.36
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्
MBh 12.290.37
द्वंद्वानां विप्रयोगं च विज्ञाय कृपणं नृप अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्
MBh 12.290.38
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् रागे मोहे च संप्राप्ते क्वचित्सत्त्वं समाश्रितम्
MBh 12.290.39
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्
MBh 12.290.40
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
MBh 12.290.41
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाशुभान् वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
MBh 12.290.42
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम्
MBh 12.290.43
जननीषु च वर्तन्ते ये न सम्यग्युधिष्ठिर सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः
MBh 12.290.44
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक्
MBh 12.290.45
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा क्षयं संवत्सराणां च मासानां प्रक्षयं तथा
MBh 12.290.46
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा
MBh 12.290.47
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः क्षयं धनानां च तथा पुनर्वृद्धिं तथैव च
MBh 12.290.48
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा
MBh 12.290.49
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह
MBh 12.290.50
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः देहविक्लवतां चैव सम्यग्विज्ञाय भारत
MBh 12.290.51
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् स्वदेहादुत्थितान्गन्धांस्तथा विज्ञाय चाशुभान्
MBh 12.290.52
युधिष्ठिर उवाच कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः
MBh 12.290.53
भीष्म उवाच पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन
MBh 12.290.54
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम्
MBh 12.290.55
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् सत्त्वसंशीलनान्निद्रामप्रमादाद्भयं तथा छिन्दन्ति पञ्चमं श्वासं लघ्वाहारतया नृप
MBh 12.290.56
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः
MBh 12.290.57
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम् चित्तभित्तिप्रतीकाशं नलसारमनर्थकम्
MBh 12.290.58
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् रजस्तमसि संमग्नं पङ्के द्विपमिवावशम्
MBh 12.290.59
सांख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतम् ज्ञानज्ञेयेन सांख्येन व्यापिना महता नृप
MBh 12.290.60
राजसानशुभान्गन्धांस्तामसांश्च तथाविधान् पुण्यांश्च सात्त्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् छित्त्वाशु ज्ञानशस्त्रेण तपोदण्डेन भारत
MBh 12.290.61
ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम् व्याधिमृत्युमहाग्राहं महाभयमहोरगम्
MBh 12.290.62
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत स्नेहपङ्कं जरादुर्गं स्पर्शद्वीपमरिंदम
MBh 12.290.63
कर्मागाधं सत्यतीरं स्थितव्रतमिदं नृप हिंसाशीघ्रमहावेगं नानारसमहाकरम्
MBh 12.290.64
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम्
MBh 12.290.65
अस्थिसंघातसंघाटं श्लेष्मफेनमरिंदम दानमुक्ताकरं भीमं शोणितह्रदविद्रुमम्
MBh 12.290.66
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम्
MBh 12.290.67
पुनराजन्मलोकौघं पुत्रबान्धवपत्तनम् अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम्
MBh 12.290.68
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् मोक्षदुष्प्रापविषयं वडवामुखसागरम्
MBh 12.290.69
तरन्ति मुनयः सिद्धा ज्ञानयोगेन भारत तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः
MBh 12.290.70
ततस्तान्सुकृतीन्सांख्यान्सूर्यो वहति रश्मिभिः पद्मतन्तुवदाविश्य प्रवहन्विषयान्नृप
MBh 12.290.71
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान्
MBh 12.290.72
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् स तान्वहति कौन्तेय नभसः परमां गतिम्
MBh 12.290.73
नभो वहति लोकेश रजसः परमां गतिम् रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम्
MBh 12.290.74
सत्त्वं वहति शुद्धात्मन्परं नारायणं प्रभुम् प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना
MBh 12.290.75
परमात्मानमासाद्य तद्भूतायतनामलाः अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभो परमा सा गतिः पार्थ निर्द्वंद्वानां महात्मनाम्
MBh 12.290.76
युधिष्ठिर उवाच स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः आजन्ममरणं वा ते स्मरन्त्युत न वानघ
MBh 12.290.77
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि त्वदृते मानवं नान्यं प्रष्टुमर्हामि कौरव
MBh 12.290.78
मोक्षदोषो महानेष प्राप्य सिद्धिं गतानृषीन् यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
MBh 12.290.79
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्
MBh 12.290.80
भीष्म उवाच यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः बुद्धानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ अत्रापि तत्त्वं परमं शृणु सम्यङ्मयेरितम्
MBh 12.290.81
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् इन्द्रियाण्यपि बुध्यन्ते स्वदेहं देहिनो नृप कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः
MBh 12.290.82
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु विनश्यन्ति न संदेहः फेना इव महार्णवे
MBh 12.290.83
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः
MBh 12.290.84
स पश्यति यथान्यायं स्पर्शान्स्पृशति चाभिभो बुध्यमानो यथापूर्वमखिलेनेह भारत
MBh 12.290.85
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव
MBh 12.290.86
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः
MBh 12.290.87
सत्त्वस्य च गुणान्कृत्स्नान्रजसश्च गुणान्पुनः गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत
MBh 12.290.88
गुणांश्च मनसस्तद्वन्नभसश्च गुणांस्तथा गुणान्वायोश्च धर्मात्मंस्तेजसश्च गुणान्पुनः
MBh 12.290.89
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि सर्वात्मना गुणैर्व्याप्य क्षेत्रज्ञः स युधिष्ठिर
MBh 12.290.90
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे शिष्या इव महात्मानमिन्द्रियाणि च तं विभो
MBh 12.290.91
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् परं नारायणात्मानं निर्द्वंद्वं प्रकृतेः परम्
MBh 12.290.92
विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् परमात्मानमगुणं न निवर्तति भारत
MBh 12.290.93
शिष्टं त्वत्र मनस्तात इन्द्रियाणि च भारत आगच्छन्ति यथाकालं गुरोः संदेशकारिणः
MBh 12.290.94
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना एवं युक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा
MBh 12.290.95
सांख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते
MBh 12.290.96
अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् अक्षरं ध्रुवमव्यक्तं पूर्वं ब्रह्म सनातनम्
MBh 12.290.97
अनादिमध्यनिधनं निर्द्वंद्वं कर्तृ शाश्वतम् कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः
MBh 12.290.98
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः
MBh 12.290.99
सर्वे विप्राश्च देवाश्च तथागमविदो जनाः ब्रह्मण्यं परमं देवमनन्तं परतोऽच्युतम्
MBh 12.290.100
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः
MBh 12.290.101
अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ
MBh 12.290.102
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते
MBh 12.290.103
ज्ञानं महद्यद्धि महत्सु राज;न्वेदेषु सांख्येषु तथैव योगे यच्चापि दृष्टं विविधं पुराणं; सांख्यागतं तन्निखिलं नरेन्द्र
MBh 12.290.104
यच्चेतिहासेषु महत्सु दृष्टं; यच्चार्थशास्त्रे नृप शिष्टजुष्टे ज्ञानं च लोके यदिहास्ति किंचि;त्सांख्यागतं तच्च महन्महात्मन्
MBh 12.290.105
शमश्च दृष्टः परमं बलं च; ज्ञानं च सूक्ष्मं च यथावदुक्तम् तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद्विहितानि राजन्
MBh 12.290.106
विपर्यये तस्य हि पार्थ देवा;न्गच्छन्ति सांख्याः सततं सुखेन तांश्चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः
MBh 12.290.107
हित्वा च देहं प्रविशन्ति मोक्षं; दिवौकसो द्यामिव पार्थ सांख्याः ततोऽधिकं तेऽभिरता महार्हे; सांख्ये द्विजाः पार्थिव शिष्टजुष्टे
MBh 12.290.108
तेषां न तिर्यग्गमनं हि दृष्टं; नावाग्गतिः पापकृतां निवासः न चाबुधानामपि ते द्विजातयो; ये ज्ञानमेतन्नृपतेऽनुरक्ताः
MBh 12.290.109
सांख्यं विशालं परमं पुराणं; महार्णवं विमलमुदारकान्तम् कृत्स्नं च सांख्यं नृपते महात्मा; नारायणो धारयतेऽप्रमेयम्
MBh 12.290.110
एतन्मयोक्तं नरदेव तत्त्वं; नारायणो विश्वमिदं पुराणम् स सर्गकाले च करोति सर्गं; संहारकाले च तदत्ति भूयः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 110 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.290local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷