🪷 Mahābhārata · Śānti-Parva · Chapter 290
The Book of Peace · the great dharma-śāstra · Parva 12 · 110 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 12.290local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 110 Shlokas
MBh 12.290.1
[य]
सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः
यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा
MBh 12.290.2
सांख्ये तवेदानीं कार्त्स्न्येन विधिं परब्रूहि पृच्छते
तरिषु लॊकेषु यज जञानं सर्वं तद वितिदं हि ते
MBh 12.290.3
[भी]
शृणु मे तवम इदं शुद्धं सांख्यानां विदितात्मनाम
विहितं यतिभिर बुद्धैः कपिलादिभिर ईश्वरैः
MBh 12.290.4
यस्मिन न विभ्रमाः के चिद दृश्यन्ते मनुजर्षभ
गुणाश च यस्मिन बहवॊ दॊषहानिश च केवला
MBh 12.290.5
जञानेन परिसंख्याय सदॊषान विषयान नृप
मानुषान दुर्जयान कृत्स्नान पैशाचान विषयांस तथा
MBh 12.290.6
राक्षसान विषयाञ जञात्वा यक्षाणां विषयांस तथा
विषयान औरगाञ जञात्वा गान्धर्वविषयांस तथा
MBh 12.290.7
पितॄणां विषयाञ जञात्वा तिर्यक्षु चरतां नृप
सुपर्णविषयाञ जञात्वा मरुतां विषयांस तथा
MBh 12.290.8
राजर्षिविषयाञ जञात्वा बरह्मर्षिविषयांस तथा
आसुरान विषयाञ जञात्वा वैश्वदेवांस तथैव च
MBh 12.290.9
देवर्षिविषयाञ जञात्वा यॊगानान अपि चेश्वरान
विषयांश च परजेशानां बरह्मणॊ विषयांस तथा
MBh 12.290.10
आयुषश च परं कालं लॊके विज्ञाय तत्त्वतः
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर
MBh 12.290.11
पराप्ते काले च यद दुःखं पततां विषयैषिणाम
तिर्यक च पततां दुःख्म पततां नरके च यत
MBh 12.290.12
सवर्गस्य च गुणान कृत्स्नान दॊषान सर्वांश च भारत
वेदवादे च ये दॊषा गुणा ये चापि वैदिकाः
MBh 12.290.13
जञानयॊगे च ये दॊषा गुणा यॊगे च ये नृप
सांख्यज्ञाने च ये दॊषास तथैव च गुणा नृप
MBh 12.290.14
सत्त्वं दशगुणं जञात्वा रजॊ नव गुणं तथा
तमश चास्त गुणं जञात्वा बुद्धिं सप्त गुणां तथा
MBh 12.290.15
सॊ गुणं च नभॊ जञात्वा मनः पञ्च गुणं तथा
बुद्धिं चतुर्गुणां जञात्वा तमश च तरिगुणं महत
MBh 12.290.16
दविगुणं च रजॊ जञात्वा सत्त्वम एकगुणं पुनः
मार्गं विज्ञाय तत्त्वेन परलये परेक्षणं तथा
MBh 12.290.17
जञानविज्ञानसंपन्नाः कारणैर भाविताः शुभैः
पराप्नुवन्ति शुभं मॊक्षं सूक्ष्मा इह नभः परम
MBh 12.290.18
रूपेण दृष्टिं संयुक्तां घराणं गन्धगुणेन च
शब्दे सक्तं तथा शरॊत्रं जिह्वां रसगुणेषु च
MBh 12.290.19
तनुं सपर्शे तथा सक्तां वायुं नभसि चाश्रितम
मॊहं तमसि संसक्तं लॊभम अर्थेषु संश्रितम
MBh 12.290.20
विष्णुं करान्ते बले शक्रं कॊष्ठे सक्तं तथानलम
अप्सु देवीं तथा सक्ताम अपस तेजसि चाश्रिताः
MBh 12.290.21
तेजॊ वायौ तु संसक्तं वायुं नभसि चाश्रितम
नभॊ महति संयुक्तं महद बुद्धौ च संश्रितम
MBh 12.290.22
बुद्धिं तमसि संसक्तां तमॊ रजसि चाश्रितम
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथात्मनि
MBh 12.290.23
सक्तम आत्मानम ईशे च देवे नारायणे तथा
देवं मॊक्षे च संसक्तं मॊक्षं सक्तं तु न कव चित
MBh 12.290.24
जञात्वा सत्त्वयुतं देहं वृतं सॊदशभिर गुणैः
सवभावं चेतनां चैव जञात्वा वै देहम आश्रिते
MBh 12.290.25
मध्यस्थम एकम आत्मानं पापं यस्मिन न विद्यते
दवितीयं कर्म विज्ञाय नृपतौ विषयैषिणाम
MBh 12.290.26
इन्द्रियाणीन्द्रियार्थाश च सर्वान आत्मनि संशृतान
पराणापानौ समानं च वयानॊदानौ च तत्त्वतः
MBh 12.290.27
अवाक्चैवानिलं जञात्वा परवहं चानिलं पुनः
सप्त वातांस तथा शेषान सप्तधा विधिवत पुनः
MBh 12.290.28
परजापतीन ऋषींश चैव मार्गांश च सुबहून वरान
सप्तर्षींश च बहूञ जञात्वा राजर्षींश च परंतप
MBh 12.290.29
सुरर्षीन महतश चान्यान महर्षीन सूर्यसंनिभान
ऐश्वर्याच चयाविताञ जञात्वा कालेन महता नृप
MBh 12.290.30
महतां भूतसंघानां शरुत्वा नाशं च पार्थिव
गतिं चाप्य अशुभां जञात्वा नृपते पापकर्मणाम
MBh 12.290.31
वैतरण्यां च यद दुःखं पतितानां यमक्षये
यॊनीषु च विचित्रासु संसारान अशुभांस तथा
MBh 12.290.32
जथरे चाशुभे वासं शॊनितॊदक भाजने
शलेष्म मूत्र पुरीषे च तीव्रगन्धसमन्विते
MBh 12.290.33
शुक्रशॊनित संघाते मज्जास्नायुपरिग्रहे
सिरा शतसमाकीर्णे नवद्वारे पुरे ऽशुचौ
MBh 12.290.34
विज्ञायाहितम आत्मानं यॊगांश च विविधान नृप
तामसानां च जन्तूनां रमणीयावृतात्मनाम
MBh 12.290.35
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ
गर्हितं महताम अर्थे सांख्यानां विदितात्मनाम
MBh 12.290.36
उपप्लवांस तथा घॊराञ शशिनस तेजसस तथा
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम
MBh 12.290.37
दवन्द्वानां विप्रयॊगं च विज्ञाय कृपणं नृप
अन्यॊन्यभक्षणं दृष्ट्वा भूतानाम अपि चाशुभम
MBh 12.290.38
बाल्ये मॊहं च विज्ञाय कषयं देहस्य चाशुभम
रागे मॊहे च संप्राप्ते कव चित सत्त्वं समाश्रितम
MBh 12.290.39
सहस्रेषु नरः कश चिन मॊक्षबुद्धिं समाश्रितः
दुर्लभत्वं च मॊक्षस्य विज्ञाय शरुतिपूर्वकम
MBh 12.290.40
बहुमानम अलब्धेषु लब्धे मध्यस्थतां पुनः
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः
MBh 12.290.41
गतासूनां च कौन्तेय देहान दृष्ट्वा तथाशुभान
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत
MBh 12.290.42
बरह्मघ्नानां गतिं जञात्वा पतितानां सुदारुणाम
सुरा पाने च सक्तानां बराह्मणानां दुरात्मनाम
गुरु दारप्रसक्तानां गतिं विज्ञाय चाशुभाम
MBh 12.290.43
जननीषु च वर्तन्ते ये न सम्यग युधिष्ठिर
सदेवकेषु लॊकेषु ये न वर्तन्ति मानवाः
MBh 12.290.44
तेन जञानेन विज्ञाय गतिं चाशुभ कर्मणाम
तिर्यग्यॊनिगतानां च विज्ञाय गतयः पृथक
MBh 12.290.45
वेदवादांस तथा चित्रान ऋतूनां पर्ययांस तथा
कषयं संवत्सराणां च मासानां परक्षयं तथा
MBh 12.290.46
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम
कषयं वृद्धिं च चन्द्रस्य दृष्ट्वा परत्यक्षतस तथा
MBh 12.290.47
वृद्धिं दृष्ट्वा समुद्राणां कषयं तेषां तथा पुनः
कषयं धनानां च तथा पुनर वृद्धिं तथैव च
MBh 12.290.48
समॊगानां कषयं दृष्ट्वा युगानां च विशेषतः
कषयं च दृष्ट्वा शैलानां कषयं च सरितां तथा
MBh 12.290.49
वर्णानां च कषयं दृष्ट्वा कषयान्तं च पुनः पुनः
जरामृत्युं तथा जन्म दृष्ट्वा दुःखानि चैव ह
MBh 12.290.50
देहदॊषांस तथा जञात्वा तेषां दुःखं च तत्त्वतः
देव विक्लवतां चैव सम्यग विज्ञाय भारत
MBh 12.290.51
आत्मदॊषांश च विज्ञाय सर्वान आत्मनि संश्रितान
सवदेहाद उत्थितान गन्धांस तथा विज्ञाय चाशुभम
MBh 12.290.52
[य]
कान सवगात्रॊद्भवान दॊषान पश्यस्य अमितविक्रम
एतन मे संशयं कृत्स्नं वक्तुम अर्हसि तत्त्वतः
MBh 12.290.53
[भी]
पञ्च दॊषान परभॊ देहे परवदन्ति मनीषिणः
मार्गज्ञाः कापिलाः सांख्याः शृणु तान अरिसूदन
MBh 12.290.54
कामक्रॊधौ भयं निद्रा पञ्चमः शवास उच्यते
एते दॊषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम
MBh 12.290.55
छिन्दन्ति कषमया करॊधं कामं संकल्पवर्जनात
सत्त्वसंशीलनान निद्राम अप्रमादाद भयं तथा
छिन्दन्ति पञ्चमं शवासं लघ्व आहारतया नृप
MBh 12.290.56
गुणान गुणशतैर जञात्वा दॊषान दॊषशतैर अपि
हेतून हेतुशतैश चित्रैश चित्रान विज्ञाय तत्त्वतः
MBh 12.290.57
अपां फेनॊपमं लॊकं विष्णॊर माया शतैर वृतम
चित्तभित्ति परतीकाशं नल सारम अनर्थकम
MBh 12.290.58
तमः शवभ्र निभं दृष्ट्वा वर्षबुद्बुद संनिभम
नाश परायं सुखाद धीनं नाशॊत्तरम अभावगम
रजस तमसि संमग्नं पङ्के दविपम इवावशम
MBh 12.290.59
सांख्या राजन महाप्राज्ञास तयक्त्वा देहं परजा कृतम
जञानज्ञेयेन सांख्येन वयापिना महता नृप
MBh 12.290.60
राजसान अशुभान गन्धांस तामसांश च तथाविधान
पुण्यांश च सात्त्विकान गन्धान सपर्शजान देहसंश्रितान
छित्त्वाशु जञानशस्त्रेण तपॊ दन्देन भारत
MBh 12.290.61
ततॊ दुःखॊदकं घॊरं चिन्ताशॊकमहाह्रदम
वयाधिमृत्युमहाग्राहं महाभयमहॊरगम
MBh 12.290.62
तमः कूर्मं रजॊ मीनं परज्ञया संतरन्त्य उत
सनेहपङ्कं जरा दुर्गं सपर्शद्वीपम अरिंदम
MBh 12.290.63
कर्मागाधं सत्यतीरं सथितव्रतम इदं नृप
हिंसा शीघ्रमहावेगं नाना रसमहाकरम
MBh 12.290.64
नाना परीतिमहारत्नं दुःखज्वर समीरणम
शॊकतृष्णा महावर्तं तीस्क्न वयाधिमहागजम
MBh 12.290.65
अस्थि संघातसंघातं शलेष्म फेनम अरिंदम
दानम उक्ताकरं भीमं शॊनित हरद विद्रुतम
MBh 12.290.66
हसितॊत्क्रुष्ट निर्घॊषं नाना जञानसुदुस्तरम
रॊदनाश्रु मलक्षारं सङ्गत्यागपरायनम
MBh 12.290.67
पुनर आ जन्म लॊकौघं पुत्र बान्धवपत्तनम
अहिंसा सत्यमर्यादं पराण तयागमहॊर्मिणम
MBh 12.290.68
वेदान्तगमन दवीपं सर्वभूतदयॊदधिम
मॊक्षदुष्प्राप विषयं वदवा मुखसागरम
MBh 12.290.69
तरन्ति मुनयः सिद्धा जञानयॊगेन भारत
तीर्त्वा च दुस्तरं जन्म विशन्ति विमलं नभः
MBh 12.290.70
ततस तान सुकृतीन सांख्यान सूर्यॊ वहति रश्मिभिः
पद्मतन्तुवद आविश्य परवहन विषयान नृप
MBh 12.290.71
तत्र तान परवहॊ वायुः परतिगृह्णाति भारत
वीतरागान यतीन सिद्धान वीर्ययुक्तांस तपॊधनान
MBh 12.290.72
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश च भारत
सप्तानां मरुतां शरेष्ठॊ लॊकान गच्छति यः शुभान
स तान वहति कौन्तेय नभसः परमां गतिम
MBh 12.290.73
नभॊ वहति लॊकेश रजसः परमां गतिम
रजॊ वहति राजेन्द्र सत्त्वस्य परमां गतिम
MBh 12.290.74
सत्त्वं वहति शुद्धात्मन परं नारायणं परभुम
परभुर वहति शुद्धात्मा परमात्मानम आत्मना
MBh 12.290.75
परमात्मानम आसाद्य तद भूतायतनामलाः
अमृतत्वाय कल्पन्ते न निवर्तन्ति चाभिभॊ
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम
MBh 12.290.76
[य]
सथानम उत्तमम आसाद्य भगवन्तं सथिरव्रताः
आजन्म मरणं वा ते समरन्त्य उप न वानघ
MBh 12.290.77
यद अत्र तथ्यं तन मे तवं यथावद वक्तुम अर्हसि
तवदृते मानवं नान्यं परस्तुम अर्हामि कौरव
MBh 12.290.78
मॊक्षदॊषॊ महान एष पराप्य सिद्धिं गतान ऋषीन
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे
MBh 12.290.79
परवृत्ति लक्षणं धर्मं पश्यामि परमं नृप
मग्नस्य हि परे जञाने किं नु दुःखतरं भवेत
MBh 12.290.80
[भी]
यथान्यायं तवया तात परश्नः पृष्टः सुसंकटः
बुद्धानाम अपि संमॊहः परश्ने ऽसमिन भरतर्षभ
अत्रापि तत्त्वं परमं शृणु सम्यग भयेरितम
MBh 12.290.81
बुद्धिश च परमा यत्र कापिलानां महात्मनाम
इन्द्रियाण्य अपि बुध्यन्ते सवदेहं देहिनॊ नृप
कारणाय आत्मनस तानि सूक्ष्मः पश्यति तैस तु सः
MBh 12.290.82
आत्मना विप्रहीनानि काष्ठ कुन्द्य समानि तु
विनश्यन्ति न संदेहः फेना इव महार्णवे
MBh 12.290.83
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन
सूक्ष्मश चरति सर्वत्र नभसीव समीरणः
MBh 12.290.84
स पश्यति यथान्यायं सपर्शान सपृशति चाभिभॊ
बुध्यमानॊ यथापूर्वम अखिलेनेह भारत
MBh 12.290.85
इन्द्रियाणीह सर्वाणि सवे सवे सथाने यथाविधि
अनीशत्वात परलीयन्ते सर्पा हतविषा इव
MBh 12.290.86
इन्द्रियाणां तु सर्वेषां सवस्थानेष्व एव सर्वशः
आक्रम्य गतयः सूक्ष्माश चरत्य आत्मा न संशयः
MBh 12.290.87
सत्त्वस्य च गुणान कृत्स्नान रजसश च गुणान पुनः
गुणांश च तमसः सर्वान गुणान बुद्धेश च भारत
MBh 12.290.88
गुणांश च मनसस तद्वन नभसश च गुणांस तथा
गुणान वायॊश च धर्मात्मंस तेजसश च गुणान पुनः
MBh 12.290.89
अपां गुणांस तथा पार्थ पार्थिवांश च गुणान अपि
सर्वात्मना गुणैर वयाप्य कषेत्रज्ञः स युधिष्ठिर
MBh 12.290.90
आत्मा च याति कषेत्रज्ञं कर्मणी च शुभाशुभे
शिष्या इव महात्मानम इन्द्रियाणि च तं विभॊ
MBh 12.290.91
परकृतिं चाप्य अतिक्रम्य गच्छत्य आत्मानम अव्ययम
परं नारायणात्मानं निर्द्वन्द्वं परकृतेः परम
MBh 12.290.92
विमुक्तः पुण्यपापेभ्यः परविष्टस तम अनामयम
परमात्मानम अगुणं न निवर्तति भारत
MBh 12.290.93
शिष्टं तव अत्र मनस तात इन्द्रियाणि च भारत
आगच्छन्ति यथाकालं गुरॊः संदेशकारिणः
MBh 12.290.94
शक्यं चाल्पेन कालेन शान्तिं पराप्तुं गुणार्थिना
एवं युक्तेन कौन्तेय युक्तज्ञानेन मॊक्षिणा
MBh 12.290.95
सांख्या राजन महाप्राज्ञा गच्छन्ति परमां गतिम
जञानेनानेन कौन्तेय तुल्यं जञानं न विद्यते
MBh 12.290.96
अत्र ते संशयॊ मा भूज जञानं सांख्यं परं मतम
अक्षरं धरुवम अव्यक्तं पूर्वं बरह्म सनातनम
MBh 12.290.97
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम
कूतस्थं चैव नित्यं च यद वदन्ति शमात्मकाः
MBh 12.290.98
यतः सर्वाः परवर्तन्ते सर्ग परलय विक्रियाः
यच च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः
MBh 12.290.99
सर्वे विप्राश च देवाश च तथागमविदॊ जनाः
बरह्मण्यं परमं देवम अनन्तं परतॊ ऽचयुतम
MBh 12.290.100
परार्थयन्तश च तं विप्रा वदन्ति गुणबुद्दयः
सम्यग युक्तास तथा यॊगाः सांख्याश चामितदर्शनाः
MBh 12.290.101
अमूर्तेस तस्य कौन्तेय सांख्यं मूर्तिर इति शरुतिः
अभिज्ञानानि तस्याहुर मतं हि भरतर्षभ
MBh 12.290.102
दविविधानीह भूतानि पृथिव्यां पृथिवीपते
जङ्गमागम संज्ञानि जङ्गमं तु विशिष्यते
MBh 12.290.103
जञानं महद यद धि महत्सु राजन; वेदेषु सांख्येषु तथैव यॊगे
यच चापि दृष्टं विविधं पुराणं; सांख्यागतं तन निखिलं नरेन्द्र
MBh 12.290.104
यच चेतिहासेषु महत्सु दृष्टं; यच चार्थशास्त्रे नृप शिष्टजुष्टे
जञानं च लॊके यद इहास्ति किं चित; सांख्यागतं तच च महन महात्मन
MBh 12.290.105
शमश च दृष्टः परमं बलं च; जञानं च सूक्ष्मं च यथावद उक्तम
तपांसि सूक्ष्माणि सुखानि चैव; सांख्ये यथावद विहितानि राजन
MBh 12.290.106
विपर्यये तस्य हि पार्थ देवान; गच्छन्ति सांख्याः सततं सुखेन
तांश चानुसंचार्य ततः कृतार्थाः; पतन्ति विप्रेषु यतेषु भूयः
MBh 12.290.107
हित्वा च देहं परविशन्ति मॊक्षं; दिवौकसॊ दयाम इव पार्थ सांख्याः
ततॊ ऽधिकं ते ऽभिरता महार्हे; सांख्ये दविजाः पार्थिव शिष्टजुष्टे
MBh 12.290.108
तेषां न तिर्यग गमनं हि दृष्टं; नावाग गतिः पापकृतां निवासः
न चाबुधानाम अपि ते दविजातयॊ; ये जञानम एतन नृपते ऽनुरक्ताः
MBh 12.290.109
सांक्यं विशालं परमं पुराणं; महार्णवं विमलम उदारकान्तम
कृत्स्नं च सांख्यं नृपते महात्मा; नारायणॊ धारयते ऽपरमेयम
MBh 12.290.110
एतन मयॊक्तं नरदेव तत्त्वं; नारायणॊ विश्वम इदं पुराणम
स सर्ग काले च करॊति सर्गं; संहार काले च तद अत्ति भूयः
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 289
- Next chapter · Śānti-Parva Ch 291 →
🪷 जय व्यास भगवान् 🪷