🪷 Mahābhārata · Śānti-Parva · Chapter 270

The Book of Peace · the great dharma-śāstra · Parva 12 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 34 Shlokas

MBh 12.270.1
युधिष्ठिर उवाच धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह
MBh 12.270.2
लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम प्राप्य जातिं मनुष्येषु देवैरपि पितामह
MBh 12.270.3
कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम् दुःखमेतच्छरीराणां धारणं कुरुसत्तम
MBh 12.270.4
विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह
MBh 12.270.5
न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः कदा वयं भविष्यामो राज्यं हित्वा परंतप
MBh 12.270.6
भीष्म उवाच नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम् पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम्
MBh 12.270.7
न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ
MBh 12.270.8
ईशोऽयं सततं देही नृपते पुण्यपापयोः तत एव समुत्थेन तमसा रुध्यतेऽपि च
MBh 12.270.9
यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः
MBh 12.270.10
तथा कर्मफलैर्देही रञ्जितस्तमसावृतः विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते
MBh 12.270.11
ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्
MBh 12.270.12
अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसंघाः
MBh 12.270.13
अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्
MBh 12.270.14
निर्जितेनासहायेन हृतराज्येन भारत अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्
MBh 12.270.15
भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव
MBh 12.270.16
वृत्र उवाच सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम् न शोचामि न हृष्यामि भूतानामागतिं गतिम्
MBh 12.270.17
कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः
MBh 12.270.18
क्षपयित्वा तु तं कालं गणितं कालचोदिताः सावशेषेण कालेन संभवन्ति पुनः पुनः
MBh 12.270.19
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः
MBh 12.270.20
एवं संसरमाणानि जीवान्यहमदृष्टवान् यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्
MBh 12.270.21
तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च
MBh 12.270.22
कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा
MBh 12.270.23
भीष्म उवाच कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम् तं भाषमाणं भगवानुशना प्रत्यभाषत भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे
MBh 12.270.24
वृत्र उवाच प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम् मया यज्जयलुब्धेन पुरा तप्तं महत्तपः
MBh 12.270.25
गन्धानादाय भूतानां रसांश्च विविधानपि अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा
MBh 12.270.26
ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा अजेयः सर्वभूतानामासं नित्यमपेतभीः
MBh 12.270.27
ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्
MBh 12.270.28
युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः
MBh 12.270.29
वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः
MBh 12.270.30
नूनं तु तस्य तपसः सावशेषं ममास्ति वै यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्
MBh 12.270.31
ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्
MBh 12.270.32
कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः
MBh 12.270.33
केन वा कर्मणा शक्यमथ ज्ञानेन केन वा ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि
MBh 12.270.34
इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह मयोच्यमानं पुरुषर्षभ त्व;मनन्यचित्तः सह सोदरीयैः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 34 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.270local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷