🪷 Mahābhārata · Śānti-Parva · Chapter 27

The Book of Peace · the great dharma-śāstra · Parva 12 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 32 Shlokas

MBh 12.27.1
युधिष्ठिर उवाच अभिमन्यौ हते बाले द्रौपद्यास्तनयेषु च धृष्टद्युम्ने विराटे च द्रुपदे च महीपतौ
MBh 12.27.2
वसुषेणे च धर्मज्ञे धृष्टकेतौ च पार्थिवे तथान्येषु नरेन्द्रेषु नानादेश्येषु संयुगे
MBh 12.27.3
न विमुञ्चति मां शोको ज्ञातिघातिनमातुरम् राज्यकामुकमत्युग्रं स्ववंशोच्छेदकारकम्
MBh 12.27.4
यस्याङ्के क्रीडमानेन मया वै परिवर्तितम् स मया राज्यलुब्धेन गाङ्गेयो विनिपातितः
MBh 12.27.5
यदा ह्येनं विघूर्णन्तमपश्यं पार्थसायकैः कम्पमानं यथा वज्रैः प्रेक्षमाणं शिखण्डिनम्
MBh 12.27.6
जीर्णं सिंहमिव प्रांशुं नरसिंहं पितामहम् कीर्यमाणं शरैस्तीक्ष्णैर्दृष्ट्वा मे व्यथितं मनः
MBh 12.27.7
प्राङ्मुखं सीदमानं च रथादपच्युतं शरैः घूर्णमानं यथा शैलं तदा मे कश्मलोऽभवत्
MBh 12.27.8
यः स बाणधनुष्पाणिर्योधयामास भार्गवम् बहून्यहानि कौरव्यः कुरुक्षेत्रे महामृधे
MBh 12.27.9
समेतं पार्थिवं क्षत्रं वाराणस्यां नदीसुतः कन्यार्थमाह्वयद्वीरो रथेनैकेन संयुगे
MBh 12.27.10
येन चोग्रायुधो राजा चक्रवर्ती दुरासदः दग्धः शस्त्रप्रतापेन स मया युधि घातितः
MBh 12.27.11
स्वयं मृत्युं रक्षमाणः पाञ्चाल्यं यः शिखण्डिनम् न बाणैः पातयामास सोऽर्जुनेन निपातितः
MBh 12.27.12
यदैनं पतितं भूमावपश्यं रुधिरोक्षितम् तदैवाविशदत्युग्रो ज्वरो मे मुनिसत्तम येन संवर्धिता बाला येन स्म परिरक्षिताः
MBh 12.27.13
स मया राज्यलुब्धेन पापेन गुरुघातिना अल्पकालस्य राज्यस्य कृते मूढेन घातितः
MBh 12.27.14
आचार्यश्च महेष्वासः सर्वपार्थिवपूजितः अभिगम्य रणे मिथ्या पापेनोक्तः सुतं प्रति
MBh 12.27.15
तन्मे दहति गात्राणि यन्मां गुरुरभाषत सत्यवाक्यो हि राजंस्त्वं यदि जीवति मे सुतः सत्यं मा मर्शयन्विप्रो मयि तत्परिपृष्टवान्
MBh 12.27.16
कुञ्जरं चान्तरं कृत्वा मिथ्योपचरितं मया सुभृशं राज्यलुब्धेन पापेन गुरुघातिना
MBh 12.27.17
सत्यकञ्चुकमास्थाय मयोक्तो गुरुराहवे अश्वत्थामा हत इति कुञ्जरे विनिपातिते कान्नु लोकान्गमिष्यामि कृत्वा तत्कर्म दारुणम्
MBh 12.27.18
अघातयं च यत्कर्णं समरेष्वपलायिनम् ज्येष्ठं भ्रातरमत्युग्रं को मत्तः पापकृत्तमः
MBh 12.27.19
अभिमन्युं च यद्बालं जातं सिंहमिवाद्रिषु प्रावेशयमहं लुब्धो वाहिनीं द्रोणपालिताम्
MBh 12.27.20
तदाप्रभृति बीभत्सुं न शक्नोमि निरीक्षितुम् कृष्णं च पुण्डरीकाक्षं किल्बिषी भ्रूणहा यथा
MBh 12.27.21
द्रौपदीं चाप्यदुःखार्हां पञ्चपुत्रविनाकृताम् शोचामि पृथिवीं हीनां पञ्चभिः पर्वतैरिव
MBh 12.27.22
सोऽहमागस्करः पापः पृथिवीनाशकारकः आसीन एवमेवेदं शोषयिष्ये कलेवरम्
MBh 12.27.23
प्रायोपविष्टं जानीध्वमद्य मां गुरुघातिनम् जातिष्वन्यास्वपि यथा न भवेयं कुलान्तकृत्
MBh 12.27.24
न भोक्ष्ये न च पानीयमुपयोक्ष्ये कथंचन शोषयिष्ये प्रियान्प्राणानिहस्थोऽहं तपोधन
MBh 12.27.25
यथेष्टं गम्यतां काममनुजाने प्रसाद्य वः सर्वे मामनुजानीत त्यक्ष्यामीदं कलेवरम्
MBh 12.27.26
वैशंपायन उवाच तमेवंवादिनं पार्थं बन्धुशोकेन विह्वलम् मैवमित्यब्रवीद्व्यासो निगृह्य मुनिसत्तमः
MBh 12.27.27
अतिवेलं महाराज न शोकं कर्तुमर्हसि पुनरुक्तं प्रवक्ष्यामि दिष्टमेतदिति प्रभो
MBh 12.27.28
संयोगा विप्रयोगाश्च जातानां प्राणिनां ध्रुवम् बुद्बुदा इव तोयेषु भवन्ति न भवन्ति च
MBh 12.27.29
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्
MBh 12.27.30
सुखं दुःखान्तमालस्यं दाक्ष्यं दुःखं सुखोदयम् भूतिः श्रीर्ह्रीर्धृतिः सिद्धिर्नादक्षे निवसन्त्युत
MBh 12.27.31
नालं सुखाय सुहृदो नालं दुःखाय दुर्हृदः न च प्रज्ञालमर्थेभ्यो न सुखेभ्योऽप्यलं धनम्
MBh 12.27.32
यथा सृष्टोऽसि कौन्तेय धात्रा कर्मसु तत्कुरु अत एव हि सिद्धिस्ते नेशस्त्वमात्मना नृप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 32 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.27local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷