🪷 Mahābhārata · Śānti-Parva · Chapter 266

The Book of Peace · the great dharma-śāstra · Parva 12 · 19 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 19 Shlokas

MBh 12.266.1
युधिष्ठिर उवाच मोक्षः पितामहेनोक्त उपायान्नानुपायतः तमुपायं यथान्यायं श्रोतुमिच्छामि भारत
MBh 12.266.2
भीष्म उवाच त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ
MBh 12.266.3
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम्
MBh 12.266.4
पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम् एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु
MBh 12.266.5
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति
MBh 12.266.6
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
MBh 12.266.7
भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत् निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्
MBh 12.266.8
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्
MBh 12.266.9
अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्
MBh 12.266.10
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः कारुण्येनात्मनो मानं तृष्णां च परितोषतः
MBh 12.266.11
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् मौनेन बहुभाष्यं च शौर्येण च भयं जयेत्
MBh 12.266.12
यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः
MBh 12.266.13
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः
MBh 12.266.14
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् परित्यज्य निषेवेत तथेमान्योगसाधनान्
MBh 12.266.15
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः
MBh 12.266.16
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते
MBh 12.266.17
धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
MBh 12.266.18
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः
MBh 12.266.19
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः तथा वाक्कायमनसां नियमः कामतोऽन्यथा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 19 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.266local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷