🪷 Mahābhārata · Śānti-Parva · Chapter 263
The Book of Peace · the great dharma-śāstra · Parva 12 · 55 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 55 Shlokas
MBh 12.263.1
युधिष्ठिर उवाच
धर्ममर्थं च कामं च वेदाः शंसन्ति भारत
कस्य लाभो विशिष्टोऽत्र तन्मे ब्रूहि पितामह
MBh 12.263.2
भीष्म उवाच
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
कुण्डधारेण यत्प्रीत्या भक्तायोपकृतं पुरा
MBh 12.263.3
अधनो ब्राह्मणः कश्चित्कामाद्धर्ममवैक्षत
यज्ञार्थं स ततोऽर्थार्थी तपोऽतप्यत दारुणम्
MBh 12.263.4
स निश्चयमथो कृत्वा पूजयामास देवताः
भक्त्या न चैवाध्यगच्छद्धनं संपूज्य देवताः
MBh 12.263.5
ततश्चिन्तां पुनः प्राप्तः कतमद्दैवतं नु तत्
यन्मे द्रुतं प्रसीदेत मानुषैरजडीकृतम्
MBh 12.263.6
अथ सौम्येन वपुषा देवानुचरमन्तिके
प्रत्यपश्यज्जलधरं कुण्डधारमवस्थितम्
MBh 12.263.7
दृष्ट्वैव तं महात्मानं तस्य भक्तिरजायत
अयं मे धास्यति श्रेयो वपुरेतद्धि तादृशम्
MBh 12.263.8
संनिकृष्टश्च देवस्य न चान्यैर्मानुषैर्वृतः
एष मे दास्यति धनं प्रभूतं शीघ्रमेव च
MBh 12.263.9
ततो धूपैश्च गन्धैश्च माल्यैरुच्चावचैरपि
बलिभिर्विविधैश्चापि पूजयामास तं द्विजः
MBh 12.263.10
ततः स्वल्पेन कालेन तुष्टो जलधरस्तदा
तस्योपकारे नियतामिमां वाचमुवाच ह
MBh 12.263.11
ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
MBh 12.263.12
आशायास्तनयोऽधर्मः क्रोधोऽसूयासुतः स्मृतः
पुत्रो लोभो निकृत्यास्तु कृतघ्नो नार्हति प्रजाम्
MBh 12.263.13
ततः स ब्राह्मणः स्वप्ने कुण्डधारस्य तेजसा
अपश्यत्सर्वभूतानि कुशेषु शयितस्तदा
MBh 12.263.14
शमेन तपसा चैव भक्त्या च निरुपस्कृतः
शुद्धात्मा ब्राह्मणो रात्रौ निदर्शनमपश्यत
MBh 12.263.15
मणिभद्रं स तत्रस्थं देवतानां महाद्युतिम्
अपश्यत महात्मानं व्यादिशन्तं युधिष्ठिर
MBh 12.263.16
तत्र देवाः प्रयच्छन्ति राज्यानि च धनानि च
शुभैः कर्मभिरारब्धाः प्रच्छिदन्त्यशुभेषु च
MBh 12.263.17
पश्यतामथ यक्षाणां कुण्डधारो महाद्युतिः
निष्पत्य पतितो भूमौ देवानां भरतर्षभ
MBh 12.263.18
ततस्तु देववचनान्मणिभद्रो महायशाः
उवाच पतितं भूमौ कुण्डधार किमिष्यते
MBh 12.263.19
कुण्डधार उवाच
यदि प्रसन्ना देवा मे भक्तोऽयं ब्राह्मणो मम
अस्यानुग्रहमिच्छामि कृतं किंचित्सुखोदयम्
MBh 12.263.20
भीष्म उवाच
ततस्तं मणिभद्रस्तु पुनर्वचनमब्रवीत्
देवानामेव वचनात्कुण्डधारं महाद्युतिम्
MBh 12.263.21
उत्तिष्ठोत्तिष्ठ भद्रं ते कृतकार्यः सुखी भव
यावद्धनं प्रार्थयते ब्राह्मणोऽयं सखा तव
देवानां शासनात्तावदसंख्येयं ददाम्यहम्
MBh 12.263.22
विचार्य कुण्डधारस्तु मानुष्यं चलमध्रुवम्
तपसे मतिमाधत्त ब्राह्मणस्य यशस्विनः
MBh 12.263.23
कुण्डधार उवाच
नाहं धनानि याचामि ब्राह्मणाय धनप्रद
अन्यमेवाहमिच्छामि भक्तायानुग्रहं कृतम्
MBh 12.263.24
पृथिवीं रत्नपूर्णां वा महद्वा धनसंचयम्
भक्ताय नाहमिच्छामि भवेदेष तु धार्मिकः
MBh 12.263.25
धर्मेऽस्य रमतां बुद्धिर्धर्मं चैवोपजीवतु
धर्मप्रधानो भवतु ममैषोऽनुग्रहो मतः
MBh 12.263.26
मणिभद्र उवाच
यदा धर्मफलं राज्यं सुखानि विविधानि च
फलान्येवायमश्नातु कायक्लेशविवर्जितः
MBh 12.263.27
भीष्म उवाच
ततस्तदेव बहुशः कुण्डधारो महायशाः
अभ्यासमकरोद्धर्मे ततस्तुष्टास्य देवताः
MBh 12.263.28
मणिभद्र उवाच
प्रीतास्ते देवताः सर्वा द्विजस्यास्य तथैव च
भविष्यत्येष धर्मात्मा धर्मे चाधास्यते मतिः
MBh 12.263.29
भीष्म उवाच
ततः प्रीतो जलधरः कृतकार्यो युधिष्ठिर
ईप्सितं मनसो लब्ध्वा वरमन्यैः सुदुर्लभम्
MBh 12.263.30
ततोऽपश्यत चीराणि सूक्ष्माणि द्विजसत्तमः
पार्श्वतोऽभ्यागतो न्यस्तान्यथ निर्वेदमागतः
MBh 12.263.31
ब्राह्मण उवाच
अयं न सुकृतं वेत्ति को न्वन्यो वेत्स्यते कृतम्
गच्छामि वनमेवाहं वरं धर्मेण जीवितुम्
MBh 12.263.32
भीष्म उवाच
निर्वेदाद्देवतानां च प्रसादात्स द्विजोत्तमः
वनं प्रविश्य सुमहत्तप आरब्धवांस्तदा
MBh 12.263.33
देवतातिथिशेषेण फलमूलाशनो द्विजः
धर्मे चापि महाराज रतिरस्याभ्यजायत
MBh 12.263.34
त्यक्त्वा मूलफलं सर्वं पर्णाहारोऽभवद्द्विजः
पर्णं त्यक्त्वा जलाहारस्तदासीद्द्विजसत्तमः
MBh 12.263.35
वायुभक्षस्ततः पश्चाद्बहून्वर्षगणानभूत्
न चास्य क्षीयते प्राणस्तदद्भुतमिवाभवत्
MBh 12.263.36
धर्मे च श्रद्दधानस्य तपस्युग्रे च वर्ततः
कालेन महता तस्य दिव्या दृष्टिरजायत
MBh 12.263.37
तस्य बुद्धिः प्रादुरासीद्यदि दद्यां महद्धनम्
तुष्टः कस्मैचिदेवाहं न मिथ्या वाग्भवेन्मम
MBh 12.263.38
ततः प्रहृष्टवदनो भूय आरब्धवांस्तपः
भूयश्चाचिन्तयत्सिद्धो यत्परं सोऽभ्यपद्यत
MBh 12.263.39
यदि दद्यामहं राज्यं तुष्टो वै यस्य कस्यचित्
स भवेदचिराद्राजा न मिथ्या वाग्भवेन्मम
MBh 12.263.40
तस्य साक्षात्कुण्डधारो दर्शयामास भारत
ब्राह्मणस्य तपोयोगात्सौहृदेनाभिचोदितः
MBh 12.263.41
समागम्य स तेनाथ पूजां चक्रे यथाविधि
ब्राह्मणः कुण्डधारस्य विस्मितश्चाभवन्नृप
MBh 12.263.42
ततोऽब्रवीत्कुण्डधारो दिव्यं ते चक्षुरुत्तमम्
पश्य राज्ञां गतिं विप्र लोकांश्चावेक्ष चक्षुषा
MBh 12.263.43
ततो राज्ञां सहस्राणि मग्नानि निरये तदा
दूरादपश्यद्विप्रः स दिव्ययुक्तेन चक्षुषा
MBh 12.263.44
कुण्डधार उवाच
मां पूजयित्वा भावेन यदि त्वं दुःखमाप्नुयाः
कृतं मया भवेत्किं ते कश्च तेऽनुग्रहो भवेत्
MBh 12.263.45
पश्य पश्य च भूयस्त्वं कामानिच्छेत्कथं नरः
स्वर्गद्वारं हि संरुद्धं मानुषेषु विशेषतः
MBh 12.263.46
भीष्म उवाच
ततोऽपश्यत्स कामं च क्रोधं लोभं भयं मदम्
निद्रां तन्द्रीं तथालस्यमावृत्य पुरुषान्स्थितान्
MBh 12.263.47
कुण्डधार उवाच
एतैर्लोकाः सुसंरुद्धा देवानां मानुषाद्भयम्
तथैव देववचनाद्विघ्नं कुर्वन्ति सर्वशः
MBh 12.263.48
न देवैरननुज्ञातः कश्चिद्भवति धार्मिकः
एष शक्तोऽसि तपसा राज्यं दातुं धनानि च
MBh 12.263.49
भीष्म उवाच
ततः पपात शिरसा ब्राह्मणस्तोयधारिणे
उवाच चैनं धर्मात्मा महान्मेऽनुग्रहः कृतः
MBh 12.263.50
कामलोभानुबन्धेन पुरा ते यदसूयितम्
मया स्नेहमविज्ञाय तत्र मे क्षन्तुमर्हसि
MBh 12.263.51
क्षान्तमेव मयेत्युक्त्वा कुण्डधारो द्विजर्षभम्
संपरिष्वज्य बाहुभ्यां तत्रैवान्तरधीयत
MBh 12.263.52
ततः सर्वानिमाँल्लोकान्ब्राह्मणोऽनुचचार ह
कुण्डधारप्रसादेन तपसा योजितः पुरा
MBh 12.263.53
विहायसा च गमनं तथा संकल्पितार्थता
धर्माच्छक्त्या तथा योगाद्या चैव परमा गतिः
MBh 12.263.54
देवता ब्राह्मणाः सन्तो यक्षा मानुषचारणाः
धार्मिकान्पूजयन्तीह न धनाढ्यान्न कामिनः
MBh 12.263.55
सुप्रसन्ना हि ते देवा यत्ते धर्मे रता मतिः
धने सुखकला काचिद्धर्मे तु परमं सुखम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 262
- Next chapter · Śānti-Parva Ch 264 →
Sources and Connected Readings
Continue from these 55 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.263local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷