🪷 Mahābhārata · Śānti-Parva · Chapter 25

The Book of Peace · the great dharma-śāstra · Parva 12 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 33 Shlokas

MBh 12.25.1
वैशंपायन उवाच पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽब्रवीत् अजातशत्रुं कौन्तेयमिदं वचनमर्थवत्
MBh 12.25.2
अरण्ये वसतां तात भ्रातॄणां ते तपस्विनाम् मनोरथा महाराज ये तत्रासन्युधिष्ठिर
MBh 12.25.3
तानिमे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः
MBh 12.25.4
अरण्ये दुःखवसतिरनुभूता तपस्विभिः दुःखस्यान्ते नरव्याघ्राः सुखं त्वनुभवन्त्विमे
MBh 12.25.5
धर्ममर्थं च कामं च भ्रातृभिः सह भारत अनुभूय ततः पश्चात्प्रस्थातासि विशां पते
MBh 12.25.6
अतिथीनां च पितॄणां देवतानां च भारत आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि
MBh 12.25.7
सर्वमेधाश्वमेधाभ्यां यजस्व कुरुनन्दन ततः पश्चान्महाराज गमिष्यसि परां गतिम्
MBh 12.25.8
भ्रातॄंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः संप्राप्तः कीर्तिमतुलां पाण्डवेय भविष्यसि
MBh 12.25.9
विद्म ते पुरुषव्याघ्र वचनं कुरुनन्दन शृणु मच्च यथा कुर्वन्धर्मान्न च्यवते नृपः
MBh 12.25.10
आददानस्य च धनं निग्रहं च युधिष्ठिर समानं धर्मकुशलाः स्थापयन्ति नरेश्वर
MBh 12.25.11
देशकालप्रतीक्षे यो दस्योर्दर्शयते नृपः शास्त्रजां बुद्धिमास्थाय नैनसा स हि युज्यते
MBh 12.25.12
आदाय बलिषड्भागं यो राष्ट्रं नाभिरक्षति प्रतिगृह्णाति तत्पापं चतुर्थांशेन पार्थिवः
MBh 12.25.13
निबोध च यथातिष्ठन्धर्मान्न च्यवते नृपः निग्रहाद्धर्मशास्त्राणामनुरुध्यन्नपेतभीः कामक्रोधावनादृत्य पितेव समदर्शनः
MBh 12.25.14
दैवेनोपहते राजा कर्मकाले महाद्युते प्रमादयति तत्कर्म न तत्राहुरतिक्रमम्
MBh 12.25.15
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः पापैः सह न संदध्याद्राष्ट्रं पण्यं न कारयेत्
MBh 12.25.16
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर गोमतो धनिनश्चैव परिपाल्या विशेषतः
MBh 12.25.17
व्यवहारेषु धर्म्येषु नियोज्याश्च बहुश्रुताः गुणयुक्तेऽपि नैकस्मिन्विश्वस्याच्च विचक्षणः
MBh 12.25.18
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः एनसा युज्यते राजा दुर्दान्त इति चोच्यते
MBh 12.25.19
येऽरक्ष्यमाणा हीयन्ते दैवेनोपहते नृपे तस्करैश्चापि हन्यन्ते सर्वं तद्राजकिल्बिषम्
MBh 12.25.20
सुमन्त्रिते सुनीते च विधिवच्चोपपादिते पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर
MBh 12.25.21
विपद्यन्ते समारम्भाः सिध्यन्त्यपि च दैवतः कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्
MBh 12.25.22
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम् यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पार्थिव
MBh 12.25.23
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः असहायस्य धीरस्य निर्जितस्य युधिष्ठिर
MBh 12.25.24
यत्कर्म वै निग्रहे शात्रवाणां; योगश्चाग्र्यः पालने मानवानाम् कृत्वा कर्म प्राप्य कीर्तिं सुयुद्धे; वाजिग्रीवो मोदते देवलोके
MBh 12.25.25
संत्यक्तात्मा समरेष्वाततायी; शस्त्रैश्छिन्नो दस्युभिरर्द्यमानः अश्वग्रीवः कर्मशीलो महात्मा; संसिद्धात्मा मोदते देवलोके
MBh 12.25.26
धनुर्यूपो रशना ज्या शरः स्रु;क्स्रुवः खड्गो रुधिरं यत्र चाज्यम् रथो वेदी कामगो युद्धमग्नि;श्चातुर्होत्रं चतुरो वाजिमुख्याः
MBh 12.25.27
हुत्वा तस्मिन्यज्ञवह्नावथारी;न्पापान्मुक्तो राजसिंहस्तरस्वी प्राणान्हुत्वा चावभृथे रणे स; वाजिग्रीवो मोदते देवलोके
MBh 12.25.28
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन; संत्यक्तात्मा यज्ञशीलो महात्मा सर्वाँल्लोकान्व्याप्य कीर्त्या मनस्वी; वाजिग्रीवो मोदते देवलोके
MBh 12.25.29
दैवीं सिद्धिं मानुषीं दण्डनीतिं; योगन्यायैः पालयित्वा महीं च तस्माद्राजा धर्मशीलो महात्मा; हयग्रीवो मोदते स्वर्गलोके
MBh 12.25.30
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ;स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा मेधाविनां विदुषां संमतानां; तनुत्यजां लोकमाक्रम्य राजा
MBh 12.25.31
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य; सम्यग्राष्ट्रं पालयित्वा महात्मा चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे; वाजिग्रीवो मोदते देवलोके
MBh 12.25.32
जित्वा संग्रामान्पालयित्वा प्रजाश्च; सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान् युक्त्या दण्डं धारयित्वा प्रजानां; युद्धे क्षीणो मोदते देवलोके
MBh 12.25.33
वृत्तं यस्य श्लाघनीयं मनुष्याः; सन्तो विद्वांसश्चार्हयन्त्यर्हणीयाः स्वर्गं जित्वा वीरलोकांश्च गत्वा; सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 33 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.25local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷