🪷 Mahābhārata · Śānti-Parva · Chapter 239

The Book of Peace · the great dharma-śāstra · Parva 12 · 25 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 25 Shlokas

MBh 12.239.1
शुक उवाच अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम
MBh 12.239.2
व्यास उवाच अध्यात्मं यदिदं तात पुरुषस्येह विद्यते तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु
MBh 12.239.3
भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च महाभूतानि भूतानां सागरस्योर्मयो यथा
MBh 12.239.4
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते
MBh 12.239.5
इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम् सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा
MBh 12.239.6
महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत् अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति
MBh 12.239.7
शुक उवाच अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत् इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्
MBh 12.239.8
व्यास उवाच एतत्ते वर्तयिष्यामि यथावदिह दर्शनम् शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत्
MBh 12.239.9
शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम् प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः
MBh 12.239.10
रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम्
MBh 12.239.11
घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः
MBh 12.239.12
वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः
MBh 12.239.13
मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः
MBh 12.239.14
इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्
MBh 12.239.15
चक्षुरालोचनायैव संशयं कुरुते मनः बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते
MBh 12.239.16
रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्
MBh 12.239.17
यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति
MBh 12.239.18
यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा
MBh 12.239.19
गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः
MBh 12.239.20
तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत् प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्
MBh 12.239.21
यत्तु संतापसंयुक्तं काये मनसि वा भवेत् रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्
MBh 12.239.22
यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत् अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्
MBh 12.239.23
प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः
MBh 12.239.24
अभिमानो मृषावादो लोभो मोहस्तथाक्षमा लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः
MBh 12.239.25
तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 25 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.239local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷