🪷 Mahābhārata · Śānti-Parva · Chapter 236

The Book of Peace · the great dharma-śāstra · Parva 12 · 30 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 30 Shlokas

MBh 12.236.1
भीष्म उवाच प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम् तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर
MBh 12.236.2
क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम् संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम्
MBh 12.236.3
श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम् प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम्
MBh 12.236.4
व्यास उवाच गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्
MBh 12.236.5
तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः
MBh 12.236.6
नियतो नियताहारः षष्ठभक्तोऽप्रमादवान् तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः
MBh 12.236.7
अकृष्टं वै व्रीहियवं नीवारं विघसानि च हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु
MBh 12.236.8
वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः सद्यःप्रक्षालकाः केचित्केचिन्मासिकसंचयाः
MBh 12.236.9
वार्षिकं संचयं केचित्केचिद्द्वादशवार्षिकम् कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये
MBh 12.236.10
अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः
MBh 12.236.11
भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते
MBh 12.236.12
दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्
MBh 12.236.13
कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम् मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः
MBh 12.236.14
वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्
MBh 12.236.15
चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः वानप्रस्थो गृहस्थश्च ततोऽन्यः संप्रवर्तते
MBh 12.236.16
अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः
MBh 12.236.17
सांकृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः
MBh 12.236.18
शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः एवंधर्मसु विद्वांसस्ततः स्वर्गमुपागमन्
MBh 12.236.19
तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम्
MBh 12.236.20
अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः वैखानसा वालखिल्याः सिकताश्च तथापरे
MBh 12.236.21
कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः
MBh 12.236.22
जरया च परिद्यूनो व्याधिना च प्रपीडितः चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम्
MBh 12.236.23
आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्
MBh 12.236.24
सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा सदैव याजिनां यज्ञादात्मनीज्या निवर्तते
MBh 12.236.25
त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात् प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन्
MBh 12.236.26
केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः
MBh 12.236.27
अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते
MBh 12.236.28
सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते अरोषमोहो गतसंधिविग्रहो; भवेदुदासीनवदात्मविन्नरः
MBh 12.236.29
यमेषु चैवात्मगतेषु न व्यथे;त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः भवेद्यथेष्टा गतिरात्मयाजिनो; न संशयो धर्मपरे जितेन्द्रिये
MBh 12.236.30
ततः परं श्रेष्ठमतीव सद्गुणै;रधिष्ठितं त्रीनधिवृत्तमुत्तमम् चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 30 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.236local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷