🪷 Mahābhārata · Śānti-Parva · Chapter 221
The Book of Peace · the great dharma-śāstra · Parva 12 · 94 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 94 Shlokas
MBh 12.221.1
युधिष्ठिर उवाच
पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह
MBh 12.221.2
भीष्म उवाच
मन एव मनुष्यस्य पूर्वरूपाणि शंसति
भविष्यतश्च भद्रं ते तथैव नभविष्यतः
MBh 12.221.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर
MBh 12.221.4
महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः
MBh 12.221.5
ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः
विचचार यथाकामं त्रिषु लोकेषु नारदः
MBh 12.221.6
कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि
ध्रुवद्वारभवां गङ्गां जगामावततार च
MBh 12.221.7
सहस्रनयनश्चापि वज्री शम्बरपाकहा
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह
MBh 12.221.8
तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्
MBh 12.221.9
पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ
MBh 12.221.10
अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः
MBh 12.221.11
अभितस्तूदयन्तं तमर्कमर्कमिवापरम्
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम्
MBh 12.221.12
तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम्
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्
MBh 12.221.13
दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्
MBh 12.221.14
नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम्
श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम्
MBh 12.221.15
सावरुह्य विमानाग्रादङ्गनानामनुत्तमा
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम्
MBh 12.221.16
नारदानुगतः साक्षान्मघवांस्तामुपागमत्
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना
MBh 12.221.17
चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह
MBh 12.221.18
का त्वं केन च कार्येण संप्राप्ता चारुहासिनि
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे
MBh 12.221.19
श्रीरुवाच
पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
ममात्मभावमिच्छन्तो यतन्ते परमात्मना
MBh 12.221.20
साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी
MBh 12.221.21
अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः
MBh 12.221.22
अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः
MBh 12.221.23
राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
निवासे धर्मशीलानां विषयेषु पुरेषु च
MBh 12.221.24
जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि
निवसामि मनुष्येन्द्रे सदैव बलसूदन
MBh 12.221.25
धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
प्रश्रिते दानशीले च सदैव निवसाम्यहम्
MBh 12.221.26
असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्
MBh 12.221.27
शक्र उवाच
कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्
MBh 12.221.28
श्रीरुवाच
स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्
MBh 12.221.29
दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम्
विप्राणामतिथीनां च तेषां नित्यमवर्तत
MBh 12.221.30
सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः
MBh 12.221.31
श्रद्दधाना जितक्रोधा दानशीलानसूयकाः
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः
MBh 12.221.32
अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
MBh 12.221.33
दातारः संगृहीतार आर्याः करुणवेदिनः
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः
MBh 12.221.34
संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः
MBh 12.221.35
नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः
MBh 12.221.36
नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्
MBh 12.221.37
काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः
मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन्
MBh 12.221.38
सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम्
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा
MBh 12.221.39
कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
दायं च संविभागं च नित्यमेवानुमोदताम्
MBh 12.221.40
विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम्
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते
MBh 12.221.41
धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम्
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः
MBh 12.221.42
पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन्
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः
MBh 12.221.43
नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम्
सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति
MBh 12.221.44
नैवाकाशे न पशुषु नायोनौ न च पर्वसु
इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन
MBh 12.221.45
नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा
उत्साहश्चानहंकारः परमं सौहृदं क्षमा
MBh 12.221.46
सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो
MBh 12.221.47
निद्रा तन्द्रीरसंप्रीतिरसूया चानवेक्षिता
अरतिश्च विषादश्च न स्पृहा चाविशन्त तान्
MBh 12.221.48
साहमेवंगुणेष्वेव दानवेष्ववसं पुरा
प्रजासर्गमुपादाय नैकं युगविपर्ययम्
MBh 12.221.49
ततः कालविपर्यासे तेषां गुणविपर्ययात्
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम्
MBh 12.221.50
सभासदां ते वृद्धानां सत्याः कथयतां कथाः
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः
MBh 12.221.51
यूनः सहसमासीनान्वृद्धानभिगतान्सतः
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्
MBh 12.221.52
वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः
अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः
MBh 12.221.53
तथा धर्मादपेतेन कर्मणा गर्हितेन ये
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा
MBh 12.221.54
उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत्
पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन्
MBh 12.221.55
मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन्
MBh 12.221.56
भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून्
MBh 12.221.57
न शौचमनुरुध्यन्त तेषां सूदजनास्तथा
मनसा कर्मणा वाचा भक्तमासीदनावृतम्
MBh 12.221.58
विप्रकीर्णानि धान्यानि काकमूषकभोजनम्
अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम्
MBh 12.221.59
कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम्
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी
MBh 12.221.60
प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च
MBh 12.221.61
बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन्
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः
MBh 12.221.62
पायसं कृसरं मांसमपूपानथ शष्कुलीः
अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन्
MBh 12.221.63
उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे
MBh 12.221.64
अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह
आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम्
संकराश्चाप्यवर्तन्त न च शौचमवर्तत
MBh 12.221.65
ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये
निरन्तरविशेषास्ते बहुमानावमानयोः
MBh 12.221.66
हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम्
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्
MBh 12.221.67
स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्
MBh 12.221.68
प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः संभवेष्वपि
MBh 12.221.69
मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित्
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु
MBh 12.221.70
परस्वादानरुचयो विपण्यव्यवहारिणः
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः
MBh 12.221.71
अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः
MBh 12.221.72
पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्
MBh 12.221.73
तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत
MBh 12.221.74
प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह
MBh 12.221.75
श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत
अन्वशासच्च भर्तारं समाहूयाभिजल्पती
MBh 12.221.76
प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता
व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन्
MBh 12.221.77
अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि
MBh 12.221.78
कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः
MBh 12.221.79
तेष्वेवमादीनाचारानाचरत्सु विपर्यये
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः
MBh 12.221.80
तां मां स्वयमनुप्राप्तामभिनन्द शचीपते
त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः
MBh 12.221.81
यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः
सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा
MBh 12.221.82
आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन
MBh 12.221.83
ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु
MBh 12.221.84
भीष्म उवाच
इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः
नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः
MBh 12.221.85
ततोऽनलसखो वायुः प्रववौ देववेश्मसु
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः
MBh 12.221.86
शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः
MBh 12.221.87
ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा
रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ
MBh 12.221.88
अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन्
श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत्
MBh 12.221.89
ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः
अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे
MBh 12.221.90
यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन
अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये
MBh 12.221.91
क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः
नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः
MBh 12.221.92
न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि
रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित्
MBh 12.221.93
इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः
पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते
MBh 12.221.94
त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम्
तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 220
- Next chapter · Śānti-Parva Ch 222 →
Sources and Connected Readings
Continue from these 94 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.221local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷