🪷 Mahābhārata · Śānti-Parva · Chapter 205
The Book of Peace · the great dharma-śāstra · Parva 12 · 33 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 33 Shlokas
MBh 12.205.1
गुरुरुवाच
प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते
तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते
MBh 12.205.2
दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः
प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम्
MBh 12.205.3
सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्
इयं सा बुद्धिरन्येयं यया याति परां गतिम्
MBh 12.205.4
शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान्
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः
MBh 12.205.5
नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्
कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान्
MBh 12.205.6
लोहयुक्तं यथा हेम विपक्वं न विराजते
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते
MBh 12.205.7
यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन्
धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति
MBh 12.205.8
शब्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत्
क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम्
MBh 12.205.9
पञ्चभूतात्मके देहे सत्त्वराजसतामसे
कमभिष्टुवते चायं कं वा क्रोशति किं वदेत्
MBh 12.205.10
स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः
नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम्
MBh 12.205.11
मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते
पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते
MBh 12.205.12
मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा
MBh 12.205.13
यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्
श्रमादाहारमादद्यादस्वाद्वपि हि यापनम्
MBh 12.205.14
तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा
MBh 12.205.15
सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च
MBh 12.205.16
भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम्
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च
MBh 12.205.17
सत्त्वेन रजसा चैव तमसा चैव मोहिताः
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्
MBh 12.205.18
तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान्
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत्
MBh 12.205.19
महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्
MBh 12.205.20
यथेह नियतं कालो दर्शयत्यार्तवान्गुणान्
तद्वद्भूतेष्वहंकारं विद्याद्भूतप्रवर्तकम्
MBh 12.205.21
संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम्
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्
MBh 12.205.22
प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान्
MBh 12.205.23
कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः
विषादशोकावरतिर्मानदर्पावनार्यता
MBh 12.205.24
दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम्
विमृशेदात्मसंस्थानामेकैकमनुसंततम्
MBh 12.205.25
शिष्य उवाच
के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
के पुनः पुनरायान्ति के मोहादफला इव
MBh 12.205.26
केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः
एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो
MBh 12.205.27
गुरुरुवाच
दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते
विनाशयति संभूतमयस्मयमयो यथा
तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः
MBh 12.205.28
राजसं तामसं चैव शुद्धात्माकर्मसंभवम्
तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम्
MBh 12.205.29
तस्मादात्मवता वर्ज्यं रजश्च तम एव च
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्
MBh 12.205.30
अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम्
हेतुः स एवानादाने शुद्धधर्मानुपालने
MBh 12.205.31
रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात्
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते
MBh 12.205.32
तमसा लोभयुक्तानि क्रोधजानि च सेवते
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः
MBh 12.205.33
सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः
स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 204
- Next chapter · Śānti-Parva Ch 206 →
Sources and Connected Readings
Continue from these 33 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.205local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷