🪷 Mahābhārata · Śānti-Parva · Chapter 2

The Book of Peace · the great dharma-śāstra · Parva 12 · 29 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 29 Shlokas

MBh 12.2.1
वैशंपायन उवाच स एवमुक्तस्तु मुनिर्नारदो वदतां वरः कथयामास तत्सर्वं यथा शप्तः स सूतजः
MBh 12.2.2
एवमेतन्महाबाहो यथा वदसि भारत न कर्णार्जुनयोः किंचिदविषह्यं भवेद्रणे
MBh 12.2.3
गुह्यमेतत्तु देवानां कथयिष्यामि ते नृप तन्निबोध महाराज यथा वृत्तमिदं पुरा
MBh 12.2.4
क्षत्रं स्वर्गं कथं गच्छेच्छस्त्रपूतमिति प्रभो संघर्षजननस्तस्मात्कन्यागर्भो विनिर्मितः
MBh 12.2.5
स बालस्तेजसा युक्तः सूतपुत्रत्वमागतः चकाराङ्गिरसां श्रेष्ठे धनुर्वेदं गुरौ तव
MBh 12.2.6
स बलं भीमसेनस्य फल्गुनस्य च लाघवम् बुद्धिं च तव राजेन्द्र यमयोर्विनयं तथा
MBh 12.2.7
सख्यं च वासुदेवेन बाल्ये गाण्डीवधन्वनः प्रजानामनुरागं च चिन्तयानो व्यदह्यत
MBh 12.2.8
स सख्यमगमद्बाल्ये राज्ञा दुर्योधनेन वै युष्माभिर्नित्यसंद्विष्टो दैवाच्चापि स्वभावतः
MBh 12.2.9
विद्याधिकमथालक्ष्य धनुर्वेदे धनंजयम् द्रोणं रहस्युपागम्य कर्णो वचनमब्रवीत्
MBh 12.2.10
ब्रह्मास्त्रं वेत्तुमिच्छामि सरहस्यनिवर्तनम् अर्जुनेन समो युद्धे भवेयमिति मे मतिः
MBh 12.2.11
समः पुत्रेषु च स्नेहः शिष्येषु च तव ध्रुवम् त्वत्प्रसादान्न मां ब्रूयुरकृतास्त्रं विचक्षणाः
MBh 12.2.12
द्रोणस्तथोक्तः कर्णेन सापेक्षः फल्गुनं प्रति दौरात्म्यं चापि कर्णस्य विदित्वा तमुवाच ह
MBh 12.2.13
ब्रह्मास्त्रं ब्राह्मणो विद्याद्यथावच्चरितव्रतः क्षत्रियो वा तपस्वी यो नान्यो विद्यात्कथंचन
MBh 12.2.14
इत्युक्तोऽङ्गिरसां श्रेष्ठमामन्त्र्य प्रतिपूज्य च जगाम सहसा रामं महेन्द्रं पर्वतं प्रति
MBh 12.2.15
स तु राममुपागम्य शिरसाभिप्रणम्य च ब्राह्मणो भार्गवोऽस्मीति गौरवेणाभ्यगच्छत
MBh 12.2.16
रामस्तं प्रतिजग्राह पृष्ट्वा गोत्रादि सर्वशः उष्यतां स्वागतं चेति प्रीतिमांश्चाभवद्भृशम्
MBh 12.2.17
तत्र कर्णस्य वसतो महेन्द्रे पर्वतोत्तमे गन्धर्वै राक्षसैर्यक्षैर्देवैश्चासीत्समागमः
MBh 12.2.18
स तत्रेष्वस्त्रमकरोद्भृगुश्रेष्ठाद्यथाविधि प्रियश्चाभवदत्यर्थं देवगन्धर्वरक्षसाम्
MBh 12.2.19
स कदाचित्समुद्रान्ते विचरन्नाश्रमान्तिके एकः खड्गधनुष्पाणिः परिचक्राम सूतजः
MBh 12.2.20
सोऽग्निहोत्रप्रसक्तस्य कस्यचिद्ब्रह्मवादिनः जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया
MBh 12.2.21
तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् कर्णः प्रसादयंश्चैनमिदमित्यब्रवीद्वचः
MBh 12.2.22
अबुद्धिपूर्वं भगवन्धेनुरेषा हता तव मया तत्र प्रसादं मे कुरुष्वेति पुनः पुनः
MBh 12.2.23
तं स विप्रोऽब्रवीत्क्रुद्धो वाचा निर्भर्त्सयन्निव दुराचार वधार्हस्त्वं फलं प्राप्नुहि दुर्मते
MBh 12.2.24
येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम् युध्यतस्तेन ते पाप भूमिश्चक्रं ग्रसिष्यति
MBh 12.2.25
ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेतसः पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम
MBh 12.2.26
यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम प्रमत्तस्यैवमेवान्यः शिरस्ते पातयिष्यति
MBh 12.2.27
ततः प्रसादयामास पुनस्तं द्विजसत्तमम् गोभिर्धनैश्च रत्नैश्च स चैनं पुनरब्रवीत्
MBh 12.2.28
नेदं मद्व्याहृतं कुर्यात्सर्वलोकोऽपि वै मृषा गच्छ वा तिष्ठ वा यद्वा कार्यं ते तत्समाचर
MBh 12.2.29
इत्युक्तो ब्राह्मणेनाथ कर्णो दैन्यादधोमुखः राममभ्यागमद्भीतस्तदेव मनसा स्मरन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 29 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.2local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷