🪷 Mahābhārata · Śānti-Parva · Chapter 177
The Book of Peace · the great dharma-śāstra · Parva 12 · 39 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 39 Shlokas
MBh 12.177.1
भरद्वाज उवाच
एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा
आवृता यैरिमे लोका महाभूताभिसंज्ञितैः
MBh 12.177.2
यदासृजत्सहस्राणि भूतानां स महामतिः
पञ्चानामेव भूतत्वं कथं समुपपद्यते
MBh 12.177.3
भृगुरुवाच
अमितानां महाशब्दो यान्ति भूतानि संभवम्
ततस्तेषां महाभूतशब्दोऽयमुपपद्यते
MBh 12.177.4
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः
पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम्
MBh 12.177.5
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम्
श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः
MBh 12.177.6
भरद्वाज उवाच
पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः
स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः
MBh 12.177.7
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः
MBh 12.177.8
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः
MBh 12.177.9
अद्रवत्वादनग्नित्वादभौमत्वादवायुतः
आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम्
MBh 12.177.10
भृगुरुवाच
घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः
तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते
MBh 12.177.11
ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च
म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते
MBh 12.177.12
वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते
श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः
MBh 12.177.13
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः
MBh 12.177.14
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि
अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः
MBh 12.177.15
पादैः सलिलपानं च व्याधीनामपि दर्शनम्
व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे
MBh 12.177.16
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत्
तथा पवनसंयुक्तः पादैः पिबति पादपः
MBh 12.177.17
ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात्
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते
MBh 12.177.18
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते
MBh 12.177.19
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः
प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते
MBh 12.177.20
त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम्
इत्येतदिह संख्यातं शरीरे पृथिवीमयम्
MBh 12.177.21
तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च
अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः
MBh 12.177.22
श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च
आकाशात्प्राणिनामेते शरीरे पञ्च धातवः
MBh 12.177.23
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च
इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा
MBh 12.177.24
प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा
गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः
MBh 12.177.25
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते
इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम्
MBh 12.177.26
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान्
ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना
MBh 12.177.27
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान्
इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च
MBh 12.177.28
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च
एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः
MBh 12.177.29
शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः
रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु
MBh 12.177.30
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः
मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा
एष षड्विधविस्तारो रसो वारिमयः स्मृतः
MBh 12.177.31
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते
ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम्
MBh 12.177.32
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान्
शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा
एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः
MBh 12.177.33
शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते
वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः
MBh 12.177.34
कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः
उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च
एवं द्वादशविस्तारो वायव्यो गुण उच्यते
MBh 12.177.35
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम्
तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम्
MBh 12.177.36
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा
धैवतश्चापि विज्ञेयस्तथा चापि निषादकः
MBh 12.177.37
एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः
त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु
MBh 12.177.38
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह
अव्याहतैश्चेतयते न वेत्ति विषमागतैः
MBh 12.177.39
आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः
आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 176
- Next chapter · Śānti-Parva Ch 178 →
Sources and Connected Readings
Continue from these 39 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.177local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷