🪷 Mahābhārata · Śānti-Parva · Chapter 157

The Book of Peace · the great dharma-śāstra · Parva 12 · 18 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 18 Shlokas

MBh 12.157.1
युधिष्ठिर उवाच यतः प्रभवति क्रोधः कामश्च भरतर्षभ शोकमोहौ विवित्सा च परासुत्वं तथा मदः
MBh 12.157.2
लोभो मात्सर्यमीर्ष्या च कुत्सासूया कृपा तथा एतत्सर्वं महाप्राज्ञ याथातथ्येन मे वद
MBh 12.157.3
भीष्म उवाच त्रयोदशैतेऽतिबलाः शत्रवः प्राणिनां स्मृताः उपासते महाराज समस्ताः पुरुषानिह
MBh 12.157.4
एते प्रमत्तं पुरुषमप्रमत्ता नुदन्ति हि वृका इव विलुम्पन्ति दृष्ट्वैव पुरुषेतरान्
MBh 12.157.5
एभ्यः प्रवर्तते दुःखमेभ्यः पापं प्रवर्तते इति मर्त्यो विजानीयात्सततं भरतर्षभ
MBh 12.157.6
एतेषामुदयं स्थानं क्षयं च पुरुषोत्तम हन्त ते वर्तयिष्यामि तन्मे निगदतः शृणु
MBh 12.157.7
लोभात्क्रोधः प्रभवति परदोषैरुदीर्यते क्षमया तिष्ठते राजञ्श्रीमांश्च विनिवर्तते
MBh 12.157.8
संकल्पाज्जायते कामः सेव्यमानो विवर्धते अवद्यदर्शनाद्व्येति तत्त्वज्ञानाच्च धीमताम्
MBh 12.157.9
विरुद्धानि हि शास्त्राणि पश्यन्तीहाल्पबुद्धयः विवित्सा जायते तत्र तत्त्वज्ञानान्निवर्तते
MBh 12.157.10
प्रीतेः शोकः प्रभवति वियोगात्तस्य देहिनः यदा निरर्थकं वेत्ति तदा सद्यः प्रणश्यति
MBh 12.157.11
परासुता क्रोधलोभादभ्यासाच्च प्रवर्तते दयया सर्वभूतानां निर्वेदात्सा निवर्तते
MBh 12.157.12
सत्त्वत्यागात्तु मात्सर्यमहितानि च सेवते एतत्तु क्षीयते तात साधूनामुपसेवनात्
MBh 12.157.13
कुलाज्ज्ञानात्तथैश्वर्यान्मदो भवति देहिनाम् एभिरेव तु विज्ञातैर्मदः सद्यः प्रणश्यति
MBh 12.157.14
ईर्ष्या कामात्प्रभवति संघर्षाच्चैव भारत इतरेषां तु मर्त्यानां प्रज्ञया सा प्रणश्यति
MBh 12.157.15
विभ्रमाल्लोकबाह्यानां द्वेष्यैर्वाक्यैरसंगतैः कुत्सा संजायते राजन्नुपेक्षाभिः प्रशाम्यति
MBh 12.157.16
प्रतिकर्तुमशक्याय बलस्थायापकारिणे असूया जायते तीव्रा कारुण्याद्विनिवर्तते
MBh 12.157.17
कृपणान्सततं दृष्ट्वा ततः संजायते कृपा धर्मनिष्ठां यदा वेत्ति तदा शाम्यति सा कृपा
MBh 12.157.18
एतान्येव जितान्याहुः प्रशमाच्च त्रयोदश एते हि धार्तराष्ट्राणां सर्वे दोषास्त्रयोदश त्वया सर्वात्मना नित्यं विजिता जेष्यसे च तान्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 18 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.157local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷