🪷 Mahābhārata · Śānti-Parva · Chapter 154

The Book of Peace · the great dharma-śāstra · Parva 12 · 38 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 38 Shlokas

MBh 12.154.1
युधिष्ठिर उवाच स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते
MBh 12.154.2
बहुधादर्शने लोके श्रेयो यदिह मन्यसे अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह
MBh 12.154.3
महानयं धर्मपथो बहुशाखश्च भारत किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम्
MBh 12.154.4
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः
MBh 12.154.5
भीष्म उवाच हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि
MBh 12.154.6
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम्
MBh 12.154.7
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः
MBh 12.154.8
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते दमो दानं तथा यज्ञानधीतं चातिवर्तते
MBh 12.154.9
दमस्तेजो वर्धयति पवित्रं च दमः परम् विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत्
MBh 12.154.10
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम्
MBh 12.154.11
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् दमेन हि समायुक्तो महान्तं धर्ममश्नुते
MBh 12.154.12
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति
MBh 12.154.13
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान्
MBh 12.154.14
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः
MBh 12.154.15
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम्
MBh 12.154.16
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता अविवित्सानसूया चाप्येषां समुदयो दमः
MBh 12.154.17
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम्
MBh 12.154.18
कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते
MBh 12.154.19
अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः समुद्रकल्पः स नरो न कदाचन पूर्यते
MBh 12.154.20
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् पूर्वसंबन्धिसंयोगान्नैतद्दान्तो निषेवते
MBh 12.154.21
सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते
MBh 12.154.22
मैत्रोऽथ शीलसंपन्नः सुसहायपरश्च यः मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम्
MBh 12.154.23
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते
MBh 12.154.24
कर्म यच्छुभमेवेह सद्भिराचरितं च यत् तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते
MBh 12.154.25
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते
MBh 12.154.26
अभयं यस्य भूतेभ्यो भूतानामभयं यतः तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन
MBh 12.154.27
अवाचिनोति कर्माणि न च संप्रचिनोति ह समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत्
MBh 12.154.28
शकुनीनामिवाकाशे जले वारिचरस्य वा यथा गतिर्न दृश्येत तथा तस्य न संशयः
MBh 12.154.29
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः
MBh 12.154.30
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह
MBh 12.154.31
कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते
MBh 12.154.32
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते
MBh 12.154.33
ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः नावृत्तिभयमस्तीह परलोके भयं कुतः
MBh 12.154.34
एक एव दमे दोषो द्वितीयो नोपपद्यते यदेनं क्षमया युक्तमशक्तं मन्यते जनः
MBh 12.154.35
एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना
MBh 12.154.36
दान्तस्य किमरण्येन तथादान्तस्य भारत यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः
MBh 12.154.37
वैशंपायन उवाच एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत
MBh 12.154.38
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 38 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.154local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷