🪷 Mahābhārata · Śānti-Parva · Chapter 152
The Book of Peace · the great dharma-śāstra · Parva 12 · 32 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 32 Shlokas
MBh 12.152.1
युधिष्ठिर उवाच
पापस्य यदधिष्ठानं यतः पापं प्रवर्तते
एतदिच्छाम्यहं ज्ञातुं तत्त्वेन भरतर्षभ
MBh 12.152.2
भीष्म उवाच
पापस्य यदधिष्ठानं तच्छृणुष्व नराधिप
एको लोभो महाग्राहो लोभात्पापं प्रवर्तते
MBh 12.152.3
अतः पापमधर्मश्च तथा दुःखमनुत्तमम्
निकृत्या मूलमेतद्धि येन पापकृतो जनाः
MBh 12.152.4
लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते
लोभान्मोहश्च माया च मानस्तम्भः परासुता
MBh 12.152.5
अक्षमा ह्रीपरित्यागः श्रीनाशो धर्मसंक्षयः
अभिध्याप्रज्ञता चैव सर्वं लोभात्प्रवर्तते
MBh 12.152.6
अन्यायश्चावितर्कश्च विकर्मसु च याः क्रियाः
कूटविद्यादयश्चैव रूपैश्वर्यमदस्तथा
MBh 12.152.7
सर्वभूतेष्वविश्वासः सर्वभूतेष्वनार्जवम्
सर्वभूतेष्वभिद्रोहः सर्वभूतेष्वयुक्तता
हरणं परवित्तानां परदाराभिमर्शनम्
MBh 12.152.8
वाग्वेगो मानसो वेगो निन्दावेगस्तथैव च
उपस्थोदरयोर्वेगो मृत्युवेगश्च दारुणः
MBh 12.152.9
ईर्ष्यावेगश्च बलवान्मिथ्यावेगश्च दुस्त्यजः
रसवेगश्च दुर्वारः श्रोत्रवेगश्च दुःसहः
MBh 12.152.10
कुत्सा विकत्था मात्सर्यं पापं दुष्करकारिता
साहसानां च सर्वेषामकार्याणां क्रियास्तथा
MBh 12.152.11
जातौ बाल्येऽथ कौमारे यौवने चापि मानवः
न संत्यजत्यात्मकर्म यन्न जीर्यति जीर्यतः
MBh 12.152.12
यो न पूरयितुं शक्यो लोभः प्राप्त्या कुरूद्वह
नित्यं गम्भीरतोयाभिरापगाभिरिवोदधिः
न प्रहृष्यति लाभैर्यो यश्च कामैर्न तृप्यति
MBh 12.152.13
यो न देवैर्न गन्धर्वैर्नासुरैर्न महोरगैः
ज्ञायते नृप तत्त्वेन सर्वैर्भूतगणैस्तथा
स लोभः सह मोहेन विजेतव्यो जितात्मना
MBh 12.152.14
दम्भो द्रोहश्च निन्दा च पैशुन्यं मत्सरस्तथा
भवन्त्येतानि कौरव्य लुब्धानामकृतात्मनाम्
MBh 12.152.15
सुमहान्त्यपि शास्त्राणि धारयन्ति बहुश्रुताः
छेत्तारः संशयानां च क्लिश्यन्तीहाल्पबुद्धयः
MBh 12.152.16
द्वेषक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः
अन्तःक्षुरा वाङ्मधुराः कूपाश्छन्नास्तृणैरिव
धर्मवैतंसिकाः क्षुद्रा मुष्णन्ति ध्वजिनो जगत्
MBh 12.152.17
कुर्वते च बहून्मार्गांस्तांस्तान्हेतुबलाश्रिताः
सर्वं मार्गं विलुम्पन्ति लोभाज्ञानेषु निष्ठिताः
MBh 12.152.18
धर्मस्याह्रियमाणस्य लोभग्रस्तैर्दुरात्मभिः
या या विक्रियते संस्था ततः साभिप्रपद्यते
MBh 12.152.19
दर्पः क्रोधो मदः स्वप्नो हर्षः शोकोऽतिमानिता
तत एव हि कौरव्य दृश्यन्ते लुब्धबुद्धिषु
एतानशिष्टान्बुध्यस्व नित्यं लोभसमन्वितान्
MBh 12.152.20
शिष्टांस्तु परिपृच्छेथा यान्वक्ष्यामि शुचिव्रतान्
येषु वृत्तिभयं नास्ति परलोकभयं न च
MBh 12.152.21
नामिषेषु प्रसङ्गोऽस्ति न प्रियेष्वप्रियेषु च
शिष्टाचारः प्रियो येषु दमो येषु प्रतिष्ठितः
MBh 12.152.22
सुखं दुःखं परं येषां सत्यं येषां परायणम्
दातारो न गृहीतारो दयावन्तस्तथैव च
MBh 12.152.23
पितृदेवातिथेयाश्च नित्योद्युक्तास्तथैव च
सर्वोपकारिणो धीराः सर्वधर्मानुपालकाः
MBh 12.152.24
सर्वभूतहिताश्चैव सर्वदेयाश्च भारत
न ते चालयितुं शक्या धर्मव्यापारपारगाः
MBh 12.152.25
न तेषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम्
न त्रासिनो न चपला न रौद्राः सत्पथे स्थिताः
MBh 12.152.26
ते सेव्याः साधुभिर्नित्यं येष्वहिंसा प्रतिष्ठिता
कामक्रोधव्यपेता ये निर्ममा निरहंकृताः
सुव्रताः स्थिरमर्यादास्तानुपास्स्व च पृच्छ च
MBh 12.152.27
न गवार्थं यशोर्थं वा धर्मस्तेषां युधिष्ठिर
अवश्यकार्य इत्येव शरीरस्य क्रियास्तथा
MBh 12.152.28
न भयं क्रोधचापल्यं न शोकस्तेषु विद्यते
न धर्मध्वजिनश्चैव न गुह्यं किंचिदास्थिताः
MBh 12.152.29
येष्वलोभस्तथामोहो ये च सत्यार्जवे रताः
तेषु कौन्तेय रज्येथा येष्वतन्द्रीकृतं मनः
MBh 12.152.30
ये न हृष्यन्ति लाभेषु नालाभेषु व्यथन्ति च
निर्ममा निरहंकाराः सत्त्वस्थाः समदर्शिनः
MBh 12.152.31
लाभालाभौ सुखदुःखे च तात; प्रियाप्रिये मरणं जीवितं च
समानि येषां स्थिरविक्रमाणां; बुद्धात्मनां सत्त्वमवस्थितानाम्
MBh 12.152.32
सुखप्रियैस्तान्सुमहाप्रतापा;न्यत्तोऽप्रमत्तश्च समर्थयेथाः
दैवात्सर्वे गुणवन्तो भवन्ति; शुभाशुभा वाक्प्रलापा यथैव
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 151
- Next chapter · Śānti-Parva Ch 153 →
Sources and Connected Readings
Continue from these 32 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.152local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷