🪷 Mahābhārata · Śānti-Parva · Chapter 138

The Book of Peace · the great dharma-śāstra · Parva 12 · 70 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 70 Shlokas

MBh 12.138.1
युधिष्ठिर उवाच युगक्षयात्परिक्षीणे धर्मे लोके च भारत दस्युभिः पीड्यमाने च कथं स्थेयं पितामह
MBh 12.138.2
भीष्म उवाच हन्त ते कथयिष्यामि नीतिमापत्सु भारत उत्सृज्यापि घृणां काले यथा वर्तेत भूमिपः
MBh 12.138.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् भरद्वाजस्य संवादं राज्ञः शत्रुंतपस्य च
MBh 12.138.4
राजा शत्रुंतपो नाम सौवीराणां महारथः कणिङ्कमुपसंगम्य पप्रच्छार्थविनिश्चयम्
MBh 12.138.5
अलब्धस्य कथं लिप्सा लब्धं केन विवर्धते वर्धितं पालयेत्केन पालितं प्रणयेत्कथम्
MBh 12.138.6
तस्मै विनिश्चयार्थं स परिपृष्टार्थनिश्चयः उवाच ब्राह्मणो वाक्यमिदं हेतुमदुत्तरम्
MBh 12.138.7
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः अच्छिद्रश्छिद्रदर्शी च परेषां विवरानुगः
MBh 12.138.8
नित्यमुद्यतदण्डस्य भृशमुद्विजते जनः तस्मात्सर्वाणि भूतानि दण्डेनैव प्ररोधयेत्
MBh 12.138.9
एवमेव प्रशंसन्ति पण्डितास्तत्त्वदर्शिनः तस्माच्चतुष्टये तस्मिन्प्रधानो दण्ड उच्यते
MBh 12.138.10
छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः कथं हि शाखास्तिष्ठेयुश्छिन्नमूले वनस्पतौ
MBh 12.138.11
मूलमेवादितश्छिन्द्यात्परपक्षस्य पण्डितः ततः सहायान्पक्षं च सर्वमेवानुसारयेत्
MBh 12.138.12
सुमन्त्रितं सुविक्रान्तं सुयुद्धं सुपलायितम् आपदां पदकालेषु कुर्वीत न विचारयेत्
MBh 12.138.13
वाङ्मात्रेण विनीतः स्याद्धृदयेन यथा क्षुरः श्लक्ष्णपूर्वाभिभाषी च कामक्रोधौ विवर्जयेत्
MBh 12.138.14
सपत्नसहिते कार्ये कृत्वा संधिं न विश्वसेत् अपक्रामेत्ततः क्षिप्रं कृतकार्यो विचक्षणः
MBh 12.138.15
शत्रुं च मित्ररूपेण सान्त्वेनैवाभिसान्त्वयेत् नित्यशश्चोद्विजेत्तस्मात्सर्पाद्वेश्मगतादिव
MBh 12.138.16
यस्य बुद्धिं परिभवेत्तमतीतेन सान्त्वयेत् अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम्
MBh 12.138.17
अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता
MBh 12.138.18
वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः अथैनमागते काले भिन्द्याद्घटमिवाश्मनि
MBh 12.138.19
मुहूर्तमपि राजेन्द्र तिन्दुकालातवज्ज्वलेत् न तुषाग्निरिवानर्चिर्धूमायेत नरश्चिरम्
MBh 12.138.20
नानर्थकेनार्थवत्त्वं कृतघ्नेन समाचरेत् अर्थे तु शक्यते भोक्तुं कृतकार्योऽवमन्यते तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत्
MBh 12.138.21
कोकिलस्य वराहस्य मेरोः शून्यस्य वेश्मनः व्याडस्य भक्तिचित्रस्य यच्छ्रेष्ठं तत्समाचरेत्
MBh 12.138.22
उत्थायोत्थाय गच्छेच्च नित्ययुक्तो रिपोर्गृहान् कुशलं चापि पृच्छेत यद्यप्यकुशलं भवेत्
MBh 12.138.23
नालसाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः न च लोकरवाद्भीता न च शश्वत्प्रतीक्षिणः
MBh 12.138.24
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः
MBh 12.138.25
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमेत् वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत्
MBh 12.138.26
पानमक्षास्तथा नार्यो मृगया गीतवादितम् एतानि युक्त्या सेवेत प्रसङ्गो ह्यत्र दोषवान्
MBh 12.138.27
कुर्यात्तृणमयं चापं शयीत मृगशायिकाम् अन्धः स्यादन्धवेलायां बाधिर्यमपि संश्रयेत्
MBh 12.138.28
देशं कालं समासाद्य विक्रमेत विचक्षणः देशकालाभ्यतीतो हि विक्रमो निष्फलो भवेत्
MBh 12.138.29
कालाकालौ संप्रधार्य बलाबलमथात्मनः परस्परबलं ज्ञात्वा तथात्मानं नियोजयेत्
MBh 12.138.30
दण्डेनोपनतं शत्रुं यो राजा न नियच्छति स मृत्युमुपगूह्यास्ते गर्भमश्वतरी यथा
MBh 12.138.31
सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः आमः स्यात्पक्वसंकाशो न च शीर्येत कस्यचित्
MBh 12.138.32
आशां कालवतीं कुर्यात्तां च विघ्नेन योजयेत् विघ्नं निमित्ततो ब्रूयान्निमित्तं चापि हेतुतः
MBh 12.138.33
भीतवत्संविधातव्यं यावद्भयमनागतम् आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्
MBh 12.138.34
न संशयमनारुह्य नरो भद्राणि पश्यति संशयं पुनरारुह्य यदि जीवति पश्यति
MBh 12.138.35
अनागतं विजानीयाद्यच्छेद्भयमुपस्थितम् पुनर्वृद्धिक्षयात्किंचिदभिवृत्तं निशामयेत्
MBh 12.138.36
प्रत्युपस्थितकालस्य सुखस्य परिवर्जनम् अनागतसुखाशा च नैष बुद्धिमतां नयः
MBh 12.138.37
योऽरिणा सह संधाय सुखं स्वपिति विश्वसन् स वृक्षाग्रप्रसुप्तो वा पतितः प्रतिबुध्यते
MBh 12.138.38
कर्मणा येन तेनेह मृदुना दारुणेन वा उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्
MBh 12.138.39
ये सपत्नाः सपत्नानां सर्वांस्तानपवत्सयेत् आत्मनश्चापि बोद्धव्याश्चाराः प्रणिहिताः परैः
MBh 12.138.40
चारः सुविहितः कार्य आत्मनोऽथ परस्य च पाषण्डांस्तापसादींश्च परराष्ट्रं प्रवेशयेत्
MBh 12.138.41
उद्यानेषु विहारेषु प्रपास्वावसथेषु च पानागारेषु वेशेषु तीर्थेषु च सभासु च
MBh 12.138.42
धर्माभिचारिणः पापाश्चारा लोकस्य कण्टकाः समागच्छन्ति तान्बुद्ध्वा नियच्छेच्छमयेदपि
MBh 12.138.43
न विश्वसेदविश्वस्ते विश्वस्ते नापि विश्वसेत् विश्वस्तं भयमन्वेति नापरीक्ष्य च विश्वसेत्
MBh 12.138.44
विश्वासयित्वा तु परं तत्त्वभूतेन हेतुना अथास्य प्रहरेत्काले किंचिद्विचलिते पदे
MBh 12.138.45
अशङ्क्यमपि शङ्केत नित्यं शङ्केत शङ्कितात् भयं हि शङ्किताज्जातं समूलमपि कृन्तति
MBh 12.138.46
अवधानेन मौनेन काषायेण जटाजिनैः विश्वासयित्वा द्वेष्टारमवलुम्पेद्यथा वृकः
MBh 12.138.47
पुत्रो वा यदि वा भ्राता पिता वा यदि वा सुहृत् अर्थस्य विघ्नं कुर्वाणा हन्तव्या भूतिवर्धनाः
MBh 12.138.48
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः उत्पथप्रतिपन्नस्य दण्डो भवति शासनम्
MBh 12.138.49
प्रत्युत्थानाभिवादाभ्यां संप्रदानेन कस्यचित् प्रतिपुष्कलघाती स्यात्तीक्ष्णतुण्ड इव द्विजः
MBh 12.138.50
नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम् नाहत्वा मत्स्यघातीव प्राप्नोति परमां श्रियम्
MBh 12.138.51
नास्ति जात्या रिपुर्नाम मित्रं नाम न विद्यते सामर्थ्ययोगाज्जायन्ते मित्राणि रिपवस्तथा
MBh 12.138.52
अमित्रं नैव मुञ्चेत ब्रुवन्तं करुणान्यपि दुःखं तत्र न कुर्वीत हन्यात्पूर्वापकारिणम्
MBh 12.138.53
संग्रहानुग्रहे यत्नः सदा कार्योऽनसूयता निग्रहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता
MBh 12.138.54
प्रहरिष्यन्प्रियं ब्रूयात्प्रहृत्यापि प्रियोत्तरम् अपि चास्य शिरश्छित्त्वा रुद्याच्छोचेदथापि वा
MBh 12.138.55
निमन्त्रयेत सान्त्वेन संमानेन तितिक्षया आशाकारणमित्येतत्कर्तव्यं भूतिमिच्छता
MBh 12.138.56
न शुष्कवैरं कुर्वीत न बाहुभ्यां नदीं तरेत् अपार्थकमनायुष्यं गोविषाणस्य भक्षणम् दन्ताश्च परिघृष्यन्ते रसश्चापि न लभ्यते
MBh 12.138.57
त्रिवर्गे त्रिविधा पीडानुबन्धास्त्रय एव च अनुबन्धवधौ ज्ञात्वा पीडां हि परिवर्जयेत्
MBh 12.138.58
ऋणशेषोऽग्निशेषश्च शत्रुशेषस्तथैव च पुनः पुनर्विवर्धेत स्वल्पोऽप्यनिवारितः
MBh 12.138.59
वर्धमानमृणं तिष्ठत्परिभूताश्च शत्रवः आवहन्त्यनयं तीव्रं व्याधयश्चाप्युपेक्षिताः
MBh 12.138.60
नासम्यक्कृतकारी स्यादप्रमत्तः सदा भवेत् कण्टकोऽपि हि दुश्छिन्नो विकारं कुरुते चिरम्
MBh 12.138.61
वधेन च मनुष्याणां मार्गाणां दूषणेन च आकराणां विनाशैश्च परराष्ट्रं विनाशयेत्
MBh 12.138.62
गृध्रदृष्टिर्बकालीनः श्वचेष्टः सिंहविक्रमः अनुद्विग्नः काकशङ्की भुजंगचरितं चरेत्
MBh 12.138.63
श्रेणिमुख्योपजापेषु वल्लभानुनयेषु च अमात्यान्परिरक्षेत भेदसंघातयोरपि
MBh 12.138.64
मृदुरित्यवमन्यन्ते तीक्ष्ण इत्युद्विजन्ति च तीक्ष्णकाले च तीक्ष्णः स्यान्मृदुकाले मृदुर्भवेत्
MBh 12.138.65
मृदुना सुमृदुं हन्ति मृदुना हन्ति दारुणम् नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरं मृदु
MBh 12.138.66
काले मृदुर्यो भवति काले भवति दारुणः स साधयति कृत्यानि शत्रूंश्चैवाधितिष्ठति
MBh 12.138.67
पण्डितेन विरुद्धः सन्दूरेऽस्मीति न विश्वसेत् दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः
MBh 12.138.68
न तत्तरेद्यस्य न पारमुत्तरे;न्न तद्धरेद्यत्पुनराहरेत्परः न तत्खनेद्यस्य न मूलमुत्खने;न्न तं हन्याद्यस्य शिरो न पातयेत्
MBh 12.138.69
इतीदमुक्तं वृजिनाभिसंहितं; न चैतदेवं पुरुषः समाचरेत् परप्रयुक्तं तु कथं निशामये;दतो मयोक्तं भवतो हितार्थिना
MBh 12.138.70
यथावदुक्तं वचनं हितं तदा; निशम्य विप्रेण सुवीरराष्ट्रियः तथाकरोद्वाक्यमदीनचेतनः; श्रियं च दीप्तां बुभुजे सबान्धवः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 70 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.138local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷