🪷 Mahābhārata · Śānti-Parva · Chapter 133

The Book of Peace · the great dharma-śāstra · Parva 12 · 26 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 26 Shlokas

MBh 12.133.1
भीष्म उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् यथा दस्युः समर्यादः प्रेत्यभावे न नश्यति
MBh 12.133.2
प्रहर्ता मतिमाञ्शूरः श्रुतवाननृशंसवान् रक्षन्नक्षयिणं धर्मं ब्रह्मण्यो गुरुपूजकः
MBh 12.133.3
निषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः कापव्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्
MBh 12.133.4
अरण्ये सायपूर्वाह्णे मृगयूथप्रकोपिता विधिज्ञो मृगजातीनां निपानानां च कोविदः
MBh 12.133.5
सर्वकाननदेशज्ञः पारियात्रचरः सदा धर्मज्ञः सर्वभूतानाममोघेषुर्दृढायुधः
MBh 12.133.6
अप्यनेकशताः सेना एक एव जिगाय सः स वृद्धावन्धपितरौ महारण्येऽभ्यपूजयत्
MBh 12.133.7
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि सत्कृत्य भोजयामास सम्यक्परिचचार च
MBh 12.133.8
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन् अपि तेभ्यो मृगान्हत्वा निनाय च महावने
MBh 12.133.9
ये स्म न प्रतिगृह्णन्ति दस्युभोजनशङ्कया तेषामासज्य गेहेषु काल्य एव स गच्छति
MBh 12.133.10
तं बहूनि सहस्राणि ग्रामणित्वेऽभिवव्रिरे निर्मर्यादानि दस्यूनां निरनुक्रोशकारिणाम्
MBh 12.133.11
दस्यव ऊचुः मुहूर्तदेशकालज्ञ प्राज्ञ शीलदृढायुध ग्रामणीर्भव नो मुख्यः सर्वेषामेव संमतः
MBh 12.133.12
यथा यथा वक्ष्यसि नः करिष्यामस्तथा तथा पालयास्मान्यथान्यायं यथा माता यथा पिता
MBh 12.133.13
कापव्य उवाच मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम् नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः
MBh 12.133.14
सर्वथा स्त्री न हन्तव्या सर्वसत्त्वेषु युध्यता नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः
MBh 12.133.15
सस्यं च नापहन्तव्यं सीरविघ्नं च मा कृथाः पूज्यन्ते यत्र देवाश्च पितरोऽतिथयस्तथा
MBh 12.133.16
सर्वभूतेष्वपि च वै ब्राह्मणो मोक्षमर्हति कार्या चापचितिस्तेषां सर्वस्वेनापि या भवेत्
MBh 12.133.17
यस्य ह्येते संप्ररुष्टा मन्त्रयन्ति पराभवम् न तस्य त्रिषु लोकेषु त्राता भवति कश्चन
MBh 12.133.18
यो ब्राह्मणान्परिभवेद्विनाशं वापि रोचयेत् सूर्योदय इवावश्यं ध्रुवं तस्य पराभवः
MBh 12.133.19
इहैव फलमासीनः प्रत्याकाङ्क्षति शक्तितः ये ये नो न प्रदास्यन्ति तांस्तान्सेनाभियास्यति
MBh 12.133.20
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विनिश्चयः ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः
MBh 12.133.21
ये हि राष्ट्रोपरोधेन वृत्तिं कुर्वन्ति केचन तदेव तेऽनु मीयन्ते कुणपं कृमयो यथा
MBh 12.133.22
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः
MBh 12.133.23
भीष्म उवाच तत्सर्वमुपचक्रुस्ते कापव्यस्यानुशासनम् वृत्तिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्
MBh 12.133.24
कापव्यः कर्मणा तेन महतीं सिद्धिमाप्तवान् साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्
MBh 12.133.25
इदं कापव्यचरितं यो नित्यमनुकीर्तयेत् नारण्येभ्यः स भूतेभ्यो भयमार्छेत्कदाचन
MBh 12.133.26
भयं तस्य न मर्त्येभ्यो नामर्त्येभ्यः कथंचन न सतो नासतो राजन्स ह्यरण्येषु गोपतिः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 26 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.133local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷