🪷 Mahābhārata · Śānti-Parva · Chapter 128
The Book of Peace · the great dharma-śāstra · Parva 12 · 49 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 49 Shlokas
MBh 12.128.1
युधिष्ठिर उवाच
मित्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः
राज्ञः संक्षीणकोशस्य बलहीनस्य भारत
MBh 12.128.2
दुष्टामात्यसहायस्य स्रुतमन्त्रस्य सर्वतः
राज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः
MBh 12.128.3
परचक्राभियातस्य दुर्बलस्य बलीयसा
असंविहितराष्ट्रस्य देशकालावजानतः
MBh 12.128.4
अप्राप्यं च भवेत्सान्त्वं भेदो वाप्यतिपीडनात्
जीवितं चार्थहेतोर्वा तत्र किं सुकृतं भवेत्
MBh 12.128.5
भीष्म उवाच
गुह्यं मा धर्ममप्राक्षीरतीव भरतर्षभ
अपृष्टो नोत्सहे वक्तुं धर्ममेनं युधिष्ठिर
MBh 12.128.6
धर्मो ह्यणीयान्वचनाद्बुद्धेश्च भरतर्षभ
श्रुत्वोपास्य सदाचारैः साधुर्भवति स क्वचित्
MBh 12.128.7
कर्मणा बुद्धिपूर्वेण भवत्याढ्यो न वा पुनः
तादृशोऽयमनुप्रश्नः स व्यवस्यस्त्वया धिया
MBh 12.128.8
उपायं धर्मबहुलं यात्रार्थं शृणु भारत
नाहमेतादृशं धर्मं बुभूषे धर्मकारणात्
दुःखादान इहाढ्येषु स्यात्तु पश्चात्क्षमो मतः
MBh 12.128.9
अनुगम्य गतीनां च सर्वासामेव निश्चयम्
यथा यथा हि पुरुषो नित्यं शास्त्रमवेक्षते
तथा तथा विजानाति विज्ञानं चास्य रोचते
MBh 12.128.10
अविज्ञानादयोगश्च पुरुषस्योपजायते
अविज्ञानादयोगो हि योगो भूतिकरः पुनः
MBh 12.128.11
अशङ्कमानो वचनमनसूयुरिदं शृणु
राज्ञः कोशक्षयादेव जायते बलसंक्षयः
MBh 12.128.12
कोशं संजनयेद्राजा निर्जलेभ्यो यथा जलम्
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम्
MBh 12.128.13
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः
अन्यो धर्मः समर्थानामापत्स्वन्यश्च भारत
MBh 12.128.14
प्राक्कोशः प्रोच्यते धर्मो बुद्धिर्धर्माद्गरीयसी
धर्मं प्राप्य न्यायवृत्तिमबलीयान्न विन्दति
MBh 12.128.15
यस्माद्धनस्योपपत्तिरेकान्तेन न विद्यते
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः
MBh 12.128.16
अधर्मो जायते यस्मिन्निति वै कवयो विदुः
अनन्तरः क्षत्रियस्य इति वै विचिकित्ससे
MBh 12.128.17
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्
MBh 12.128.18
सन्नात्मा नैव धर्मस्य न परस्य न चात्मनः
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः
MBh 12.128.19
तत्र धर्मविदां तात निश्चयो धर्मनैपुणे
उद्यमो जीवनं क्षत्रे बाहुवीर्यादिति श्रुतिः
MBh 12.128.20
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति
अन्यत्र तापसस्वाच्च ब्राह्मणस्वाच्च भारत
MBh 12.128.21
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्
अभोज्यान्नानि चाश्नीयात्तथेदं नात्र संशयः
MBh 12.128.22
पीडितस्य किमद्वारमुत्पथो निधृतस्य वा
अद्वारतः प्रद्रवति यदा भवति पीडितः
MBh 12.128.23
तस्य कोशबलज्यान्या सर्वलोकपराभवः
भैक्षचर्या न विहिता न च विट्शूद्रजीविका
MBh 12.128.24
स्वधर्मानन्तरा वृत्तिर्यान्याननुपजीवतः
वहतः प्रथमं कल्पमनुकल्पेन जीवनम्
MBh 12.128.25
आपद्गतेन धर्माणामन्यायेनोपजीवनम्
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये
MBh 12.128.26
क्षत्रिये संशयः कः स्यादित्येतन्निश्चितं सदा
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन
MBh 12.128.27
हन्तारं रक्षितारं च प्रजानां क्षत्रियं विदुः
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना
MBh 12.128.28
अन्यत्र राजन्हिंसाया वृत्तिर्नेहास्ति कस्यचित्
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः
MBh 12.128.29
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता
MBh 12.128.30
परस्पराभिसंरक्षा राज्ञा राष्ट्रेण चापदि
नित्यमेवेह कर्तव्या एष धर्मः सनातनः
MBh 12.128.31
राजा राष्ट्रं यथापत्सु द्रव्यौघैः परिरक्षति
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत्
MBh 12.128.32
कोशं दण्डं बलं मित्रं यदन्यदपि संचितम्
न कुर्वीतान्तरं राष्ट्रे राजा परिगते क्षुधा
MBh 12.128.33
बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम्
MBh 12.128.34
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति
अवृत्त्यान्त्यमनुष्योऽपि यो वै वेद शिबेर्वचः
MBh 12.128.35
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः
MBh 12.128.36
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्
तदर्थं पीडयित्वा च दोषं न प्राप्तुमर्हति
MBh 12.128.37
अकार्यमपि यज्ञार्थं क्रियते यज्ञकर्मसु
एतस्मात्कारणाद्राजा न दोषं प्राप्तुमर्हति
MBh 12.128.38
अर्थार्थमन्यद्भवति विपरीतमथापरम्
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थलक्षणम्
एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम्
MBh 12.128.39
यज्ञार्थमन्यद्भवति यज्ञे नार्थस्तथापरः
यज्ञस्यार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधनम्
MBh 12.128.40
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिनः
MBh 12.128.41
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि
ते चापि निपतन्तोऽन्यान्निघ्नन्ति च वनस्पतीन्
MBh 12.128.42
एवं कोशस्य महतो ये नराः परिपन्थिनः
तानहत्वा न पश्यामि सिद्धिमत्र परंतप
MBh 12.128.43
धनेन जयते लोकावुभौ परमिमं तथा
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा
MBh 12.128.44
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत
MBh 12.128.45
नैतौ संभवतो राजन्कथंचिदपि भारत
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित्
MBh 12.128.46
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन
ममेदं स्यान्ममेदं स्यादित्ययं काङ्क्षते जनः
MBh 12.128.47
न च राज्यसमो धर्मः कश्चिदस्ति परंतप
धर्मं शंसन्ति ते राज्ञामापदर्थमितोऽन्यथा
MBh 12.128.48
दानेन कर्मणा चान्ये तपसान्ये तपस्विनः
बुद्ध्या दाक्ष्येण चाप्यन्ये चिन्वन्ति धनसंचयान्
MBh 12.128.49
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्
सर्वं धनवतः प्राप्यं सर्वं तरति कोशवान्
कोशाद्धर्मश्च कामश्च परो लोकस्तथाप्ययम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śānti-Parva chapter-index (353 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śānti-Parva Ch 127
- Next chapter · Śānti-Parva Ch 129 →
Sources and Connected Readings
Continue from these 49 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 12.128local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷