🪷 Mahābhārata · Śānti-Parva · Chapter 12

The Book of Peace · the great dharma-śāstra · Parva 12 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 12.12.1
वैशंपायन उवाच अर्जुनस्य वचः श्रुत्वा नकुलो वाक्यमब्रवीत् राजानमभिसंप्रेक्ष्य सर्वधर्मभृतां वरम्
MBh 12.12.2
अनुरुध्य महाप्राज्ञो भ्रातुश्चित्तमरिंदमः व्यूढोरस्को महाबाहुस्ताम्रास्यो मितभाषिता
MBh 12.12.3
विशाखयूपे देवानां सर्वेषामग्नयश्चिताः तस्माद्विद्धि महाराज देवान्कर्मपथि स्थितान्
MBh 12.12.4
अनास्तिकानास्तिकानां प्राणदाः पितरश्च ये तेऽपि कर्मैव कुर्वन्ति विधिं पश्यस्व पार्थिव वेदवादापविद्धांस्तु तान्विद्धि भृशनास्तिकान्
MBh 12.12.5
न हि वेदोक्तमुत्सृज्य विप्रः सर्वेषु कर्मसु देवयानेन नाकस्य पृष्ठमाप्नोति भारत
MBh 12.12.6
अत्याश्रमानयं सर्वानित्याहुर्वेदनिश्चयाः ब्राह्मणाः श्रुतिसंपन्नास्तान्निबोध जनाधिप
MBh 12.12.7
वित्तानि धर्मलब्धानि क्रतुमुख्येष्ववासृजन् कृतात्मसु महाराज स वै त्यागी स्मृतो नरः
MBh 12.12.8
अनवेक्ष्य सुखादानं तथैवोर्ध्वं प्रतिष्ठितः आत्मत्यागी महाराज स त्यागी तामसः प्रभो
MBh 12.12.9
अनिकेतः परिपतन्वृक्षमूलाश्रयो मुनिः अपाचकः सदा योगी स त्यागी पार्थ भिक्षुकः
MBh 12.12.10
क्रोधहर्षावनादृत्य पैशुन्यं च विशां पते विप्रो वेदानधीते यः स त्यागी गुरुपूजकः
MBh 12.12.11
आश्रमांस्तुलया सर्वान्धृतानाहुर्मनीषिणः एकतस्ते त्रयो राजन्गृहस्थाश्रम एकतः
MBh 12.12.12
समीक्षते तु योऽर्थं वै कामं स्वर्गं च भारत अयं पन्था महर्षीणामियं लोकविदां गतिः
MBh 12.12.13
इति यः कुरुते भावं स त्यागी भरतर्षभ न यः परित्यज्य गृहान्वनमेति विमूढवत्
MBh 12.12.14
यदा कामान्समीक्षेत धर्मवैतंसिकोऽनृजुः अथैनं मृत्युपाशेन कण्ठे बध्नाति मृत्युराट्
MBh 12.12.15
अभिमानकृतं कर्म नैतत्फलवदुच्यते त्यागयुक्तं महाराज सर्वमेव महाफलम्
MBh 12.12.16
शमो दमस्तपो दानं सत्यं शौचमथार्जवम् यज्ञो धृतिश्च धर्मश्च नित्यमार्षो विधिः स्मृतः
MBh 12.12.17
पितृदेवातिथिकृते समारम्भोऽत्र शस्यते अत्रैव हि महाराज त्रिवर्गः केवलं फलम्
MBh 12.12.18
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते त्यागिनः प्रसृतस्येह नोच्छित्तिर्विद्यते क्वचित्
MBh 12.12.19
असृजद्धि प्रजा राजन्प्रजापतिरकल्मषः मां यक्ष्यन्तीति शान्तात्मा यज्ञैर्विविधदक्षिणैः
MBh 12.12.20
वीरुधश्चैव वृक्षांश्च यज्ञार्थं च तथौषधीः पशूंश्चैव तथा मेध्यान्यज्ञार्थानि हवींषि च
MBh 12.12.21
गृहस्थाश्रमिणस्तच्च यज्ञकर्म विरोधकम् तस्माद्गार्हस्थ्यमेवेह दुष्करं दुर्लभं तथा
MBh 12.12.22
तत्संप्राप्य गृहस्था ये पशुधान्यसमन्विताः न यजन्ते महाराज शाश्वतं तेषु किल्बिषम्
MBh 12.12.23
स्वाध्याययज्ञा ऋषयो ज्ञानयज्ञास्तथापरे अथापरे महायज्ञान्मनसैव वितन्वते
MBh 12.12.24
एवं दानसमाधानं मार्गमातिष्ठतो नृप द्विजातेर्ब्रह्मभूतस्य स्पृहयन्ति दिवौकसः
MBh 12.12.25
स रत्नानि विचित्राणि संभृतानि ततस्ततः मखेष्वनभिसंत्यज्य नास्तिक्यमभिजल्पसि कुटुम्बमास्थिते त्यागं न पश्यामि नराधिप
MBh 12.12.26
राजसूयाश्वमेधेषु सर्वमेधेषु वा पुनः य चान्ये क्रतवस्तात ब्राह्मणैरभिपूजिताः तैर्यजस्व महाराज शक्रो देवपतिर्यथा
MBh 12.12.27
राज्ञः प्रमाददोषेण दस्युभिः परिमुष्यताम् अशरण्यः प्रजानां यः स राजा कलिरुच्यते
MBh 12.12.28
अश्वान्गाश्चैव दासीश्च करेणूश्च स्वलंकृताः ग्रामाञ्जनपदांश्चैव क्षेत्राणि च गृहाणि च
MBh 12.12.29
अप्रदाय द्विजातिभ्यो मात्सर्याविष्टचेतसः वयं ते राजकलयो भविष्यामो विशां पते
MBh 12.12.30
अदातारोऽशरण्याश्च राजकिल्बिषभागिनः दुःखानामेव भोक्तारो न सुखानां कदाचन
MBh 12.12.31
अनिष्ट्वा च महायज्ञैरकृत्वा च पितृस्वधाम् तीर्थेष्वनभिसंत्यज्य प्रव्रजिष्यसि चेदथ
MBh 12.12.32
छिन्नाभ्रमिव गन्तासि विलयं मारुतेरितम् लोकयोरुभयोर्भ्रष्टो ह्यन्तराले व्यवस्थितः
MBh 12.12.33
अन्तर्बहिश्च यत्किंचिन्मनोव्यासङ्गकारकम् परित्यज्य भवेत्त्यागी न यो हित्वा प्रतिष्ठते
MBh 12.12.34
एतस्मिन्वर्तमानस्य विधौ विप्रनिषेविते ब्राह्मणस्य महाराज नोच्छित्तिर्विद्यते क्वचित्
MBh 12.12.35
निहत्य शत्रूंस्तरसा समृद्धा;न्शक्रो यथा दैत्यबलानि संख्ये कः पार्थ शोचेन्निरतः स्वधर्मे; पूर्वैः स्मृते पार्थिव शिष्टजुष्टे
MBh 12.12.36
क्षात्रेण धर्मेण पराक्रमेण; जित्वा महीं मन्त्रविद्भ्यः प्रदाय नाकस्य पृष्ठेऽसि नरेन्द्र गन्ता; न शोचितव्यं भवताद्य पार्थ

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.12local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷