🪷 Mahābhārata · Śānti-Parva · Chapter 113

The Book of Peace · the great dharma-śāstra · Parva 12 · 21 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 21 Shlokas

MBh 12.113.1
युधिष्ठिर उवाच किं पार्थिवेन कर्तव्यं किं च कृत्वा सुखी भवेत् तन्ममाचक्ष्व तत्त्वेन सर्वं धर्मभृतां वर
MBh 12.113.2
भीष्म उवाच हन्त तेऽहं प्रवक्ष्यामि शृणु कार्यैकनिश्चयम् यथा राज्ञेह कर्तव्यं यच्च कृत्वा सुखी भवेत्
MBh 12.113.3
न त्वेवं वर्तितव्यं स्म यथेदमनुशुश्रुमः उष्ट्रस्य सुमहद्वृत्तं तन्निबोध युधिष्ठिर
MBh 12.113.4
जातिस्मरो महानुष्ट्रः प्राजापत्ययुगोद्भवः तपः सुमहदातिष्ठदरण्ये संशितव्रतः
MBh 12.113.5
तपसस्तस्य चान्ते वै प्रीतिमानभवत्प्रभुः वरेण छन्दयामास ततश्चैनं पितामहः
MBh 12.113.6
उष्ट्र उवाच भगवंस्त्वत्प्रसादान्मे दीर्घा ग्रीवा भवेदियम् योजनानां शतं साग्रं या गच्छेच्चरितुं विभो
MBh 12.113.7
भीष्म उवाच एवमस्त्विति चोक्तः स वरदेन महात्मना प्रतिलभ्य वरं श्रेष्ठं ययावुष्ट्रः स्वकं वनम्
MBh 12.113.8
स चकार तदालस्यं वरदानात्स दुर्मतिः न चैच्छच्चरितुं गन्तुं दुरात्मा कालमोहितः
MBh 12.113.9
स कदाचित्प्रसार्यैवं तां ग्रीवां शतयोजनाम् चचाराश्रान्तहृदयो वातश्चागात्ततो महान्
MBh 12.113.10
स गुहायां शिरोग्रीवं निधाय पशुरात्मनः आस्ताथ वर्षमभ्यागात्सुमहत्प्लावयज्जगत्
MBh 12.113.11
अथ शीतपरीताङ्गो जम्बुकः क्षुच्छ्रमान्वितः सदारस्तां गुहामाशु प्रविवेश जलार्दितः
MBh 12.113.12
स दृष्ट्वा मांसजीवी तु सुभृशं क्षुच्छ्रमान्वितः अभक्षयत्ततो ग्रीवामुष्ट्रस्य भरतर्षभ
MBh 12.113.13
यदा त्वबुध्यतात्मानं भक्ष्यमाणं स वै पशुः तदा संकोचने यत्नमकरोद्भृशदुःखितः
MBh 12.113.14
यावदूर्ध्वमधश्चैव ग्रीवां संक्षिपते पशुः तावत्तेन सदारेण जम्बुकेन स भक्षितः
MBh 12.113.15
स हत्वा भक्षयित्वा च जम्बुकोष्ट्रं ततस्तदा विगते वातवर्षे च निश्चक्राम गुहामुखात्
MBh 12.113.16
एवं दुर्बुद्धिना प्राप्तमुष्ट्रेण निधनं तदा आलस्यस्य क्रमात्पश्य महद्दोषमुपागतम्
MBh 12.113.17
त्वमप्येतं विधिं त्यक्त्वा योगेन नियतेन्द्रियः वर्तस्व बुद्धिमूलं हि विजयं मनुरब्रवीत्
MBh 12.113.18
बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत तानि जङ्घाजघन्यानि भारप्रत्यवराणि च
MBh 12.113.19
राज्यं तिष्ठति दक्षस्य संगृहीतेन्द्रियस्य च गुप्तमन्त्रश्रुतवतः सुसहायस्य चानघ
MBh 12.113.20
परीक्ष्यकारिणोऽर्थाश्च तिष्ठन्तीह युधिष्ठिर सहाययुक्तेन मही कृत्स्ना शक्या प्रशासितुम्
MBh 12.113.21
इदं हि सद्भिः कथितं विधिज्ञैः; पुरा महेन्द्रप्रतिमप्रभाव मयापि चोक्तं तव शास्त्रदृष्ट्या; त्वमत्र युक्तः प्रचरस्व राजन्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 21 source-pinned Devanāgarī addresses to Śānti-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 12.113local chapter route · Śānti-ParvaŚānti-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷