🪷 Mahābhārata · Śalya-Parva · Chapter 7

The Book of Śalya · Parva 9 · 44 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 44 Shlokas

MBh 9.7.1
संजय उवाच व्यतीतायां रजन्यां तु राजा दुर्योधनस्तदा अब्रवीत्तावकान्सर्वान्संनह्यन्तां महारथाः
MBh 9.7.2
राज्ञस्तु मतमाज्ञाय समनह्यत सा चमूः अयोजयन्रथांस्तूर्णं पर्यधावंस्तथापरे
MBh 9.7.3
अकल्प्यन्त च मातङ्गाः समनह्यन्त पत्तयः हयानास्तरणोपेतांश्चक्रुरन्ये सहस्रशः
MBh 9.7.4
वादित्राणां च निनदः प्रादुरासीद्विशां पते बोधनार्थं हि योधानां सैन्यानां चाप्युदीर्यताम्
MBh 9.7.5
ततो बलानि सर्वाणि सेनाशिष्टानि भारत संनद्धान्येव ददृशुर्मृत्युं कृत्वा निवर्तनम्
MBh 9.7.6
शल्यं सेनापतिं कृत्वा मद्रराजं महारथाः प्रविभज्य बलं सर्वमनीकेषु व्यवस्थिताः
MBh 9.7.7
ततः सर्वे समागम्य पुत्रेण तव सैनिकाः कृपश्च कृतवर्मा च द्रौणिः शल्योऽथ सौबलः
MBh 9.7.8
अन्ये च पार्थिवाः शेषाः समयं चक्रिरे तदा न न एकेन योद्धव्यं कथंचिदपि पाण्डवैः
MBh 9.7.9
यो ह्येकः पाण्डवैर्युध्येद्यो वा युध्यन्तमुत्सृजेत् स पञ्चभिर्भवेद्युक्तः पातकैः सोपपातकैः अन्योन्यं परिरक्षद्भिर्योद्धव्यं सहितैश्च नः
MBh 9.7.10
एवं ते समयं कृत्वा सर्वे तत्र महारथाः मद्रराजं पुरस्कृत्य तूर्णमभ्यद्रवन्परान्
MBh 9.7.11
तथैव पाण्डवा राजन्व्यूह्य सैन्यं महारणे अभ्ययुः कौरवान्सर्वान्योत्स्यमानाः समन्ततः
MBh 9.7.12
तद्बलं भरतश्रेष्ठ क्षुब्धार्णवसमस्वनम् समुद्धूतार्णवाकारमुद्धूतरथकुञ्जरम्
MBh 9.7.13
धृतराष्ट्र उवाच द्रोणस्य भीष्मस्य च वै राधेयस्य च मे श्रुतम् पातनं शंस मे भूयः शल्यस्याथ सुतस्य मे
MBh 9.7.14
कथं रणे हतः शल्यो धर्मराजेन संजय भीमेन च महाबाहुः पुत्रो दुर्योधनो मम
MBh 9.7.15
संजय उवाच क्षयं मनुष्यदेहानां रथनागाश्वसंक्षयम् शृणु राजन्स्थिरो भूत्वा संग्रामं शंसतो मम
MBh 9.7.16
आशा बलवती राजन्पुत्राणां तेऽभवत्तदा हते भीष्मे च द्रोणे च सूतपुत्रे च पातिते शल्यः पार्थान्रणे सर्वान्निहनिष्यति मारिष
MBh 9.7.17
तामाशां हृदये कृत्वा समाश्वास्य च भारत मद्रराजं च समरे समाश्रित्य महारथम् नाथवन्तमथात्मानममन्यत सुतस्तव
MBh 9.7.18
यदा कर्णे हते पार्थाः सिंहनादं प्रचक्रिरे तदा राजन्धार्तराष्ट्रानाविवेश महद्भयम्
MBh 9.7.19
तान्समाश्वास्य तु तदा मद्रराजः प्रतापवान् व्यूह्य व्यूहं महाराज सर्वतोभद्रमृद्धिमत्
MBh 9.7.20
प्रत्युद्यातो रणे पार्थान्मद्रराजः प्रतापवान् विधुन्वन्कार्मुकं चित्रं भारघ्नं वेगवत्तरम्
MBh 9.7.21
रथप्रवरमास्थाय सैन्धवाश्वं महारथः तस्य सीता महाराज रथस्थाशोभयद्रथम्
MBh 9.7.22
स तेन संवृतो वीरो रथेनामित्रकर्शनः तस्थौ शूरो महाराज पुत्राणां ते भयप्रणुत्
MBh 9.7.23
प्रयाणे मद्रराजोऽभून्मुखं व्यूहस्य दंशितः मद्रकैः सहितो वीरैः कर्णपुत्रैश्च दुर्जयैः
MBh 9.7.24
सव्येऽभूत्कृतवर्मा च त्रिगर्तैः परिवारितः गौतमो दक्षिणे पार्श्वे शकैश्च यवनैः सह
MBh 9.7.25
अश्वत्थामा पृष्ठतोऽभूत्काम्बोजैः परिवारितः दुर्योधनोऽभवन्मध्ये रक्षितः कुरुपुंगवैः
MBh 9.7.26
हयानीकेन महता सौबलश्चापि संवृतः प्रययौ सर्वसैन्येन कैतव्यश्च महारथः
MBh 9.7.27
पाण्डवाश्च महेष्वासा व्यूह्य सैन्यमरिंदमाः त्रिधा भूत्वा महाराज तव सैन्यमुपाद्रवन्
MBh 9.7.28
धृष्टद्युम्नः शिखण्डी च सात्यकिश्च महारथः शल्यस्य वाहिनीं तूर्णमभिदुद्रुवुराहवे
MBh 9.7.29
ततो युधिष्ठिरो राजा स्वेनानीकेन संवृतः शल्यमेवाभिदुद्राव जिघांसुर्भरतर्षभ
MBh 9.7.30
हार्दिक्यं तु महेष्वासमर्जुनः शत्रुपूगहा संशप्तकगणांश्चैव वेगतोऽभिविदुद्रुवे
MBh 9.7.31
गौतमं भीमसेनो वै सोमकाश्च महारथाः अभ्यद्रवन्त राजेन्द्र जिघांसन्तः परान्युधि
MBh 9.7.32
माद्रीपुत्रौ तु शकुनिमुलूकं च महारथौ ससैन्यौ सहसेनौ तावुपतस्थतुराहवे
MBh 9.7.33
तथैवायुतशो योधास्तावकाः पाण्डवान्रणे अभ्यद्रवन्त संक्रुद्धा विविधायुधपाणयः
MBh 9.7.34
धृतराष्ट्र उवाच हते भीष्मे महेष्वासे द्रोणे कर्णे महारथे कुरुष्वल्पावशिष्टेषु पाण्डवेषु च संयुगे
MBh 9.7.35
सुसंरब्धेषु पार्थेषु पराक्रान्तेषु संजय मामकानां परेषां च किं शिष्टमभवद्बलम्
MBh 9.7.36
संजय उवाच यथा वयं परे राजन्युद्धाय समवस्थिताः यावच्चासीद्बलं शिष्टं संग्रामे तन्निबोध मे
MBh 9.7.37
एकादश सहस्राणि रथानां भरतर्षभ दश दन्तिसहस्राणि सप्त चैव शतानि च
MBh 9.7.38
पूर्णे शतसहस्रे द्वे हयानां भरतर्षभ नरकोट्यस्तथा तिस्रो बलमेतत्तवाभवत्
MBh 9.7.39
रथानां षट्सहस्राणि षट्सहस्राश्च कुञ्जराः दश चाश्वसहस्राणि पत्तिकोटी च भारत
MBh 9.7.40
एतद्बलं पाण्डवानामभवच्छेषमाहवे एत एव समाजग्मुर्युद्धाय भरतर्षभ
MBh 9.7.41
एवं विभज्य राजेन्द्र मद्रराजमते स्थिताः पाण्डवान्प्रत्युदीयाम जयगृद्धाः प्रमन्यवः
MBh 9.7.42
तथैव पाण्डवाः शूराः समरे जितकाशिनः उपयाता नरव्याघ्राः पाञ्चालाश्च यशस्विनः
MBh 9.7.43
एवमेते बलौघेन परस्परवधैषिणः उपयाता नरव्याघ्राः पूर्वां संध्यां प्रति प्रभो
MBh 9.7.44
ततः प्रववृते युद्धं घोररूपं भयानकम् तावकानां परेषां च निघ्नतामितरेतरम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 44 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.7local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷