🪷 Mahābhārata · Śalya-Parva · Chapter 49
The Book of Śalya · Parva 9 · 65 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 65 Shlokas
MBh 9.49.1
वैशंपायन उवाच
तस्मिन्नेव तु धर्मात्मा वसति स्म तपोधनः
गार्हस्थ्यं धर्ममास्थाय असितो देवलः पुरा
MBh 9.49.2
धर्मनित्यः शुचिर्दान्तो न्यस्तदण्डो महातपाः
कर्मणा मनसा वाचा समः सर्वेषु जन्तुषु
MBh 9.49.3
अक्रोधनो महाराज तुल्यनिन्दाप्रियाप्रियः
काञ्चने लोष्टके चैव समदर्शी महातपाः
MBh 9.49.4
देवताः पूजयन्नित्यमतिथींश्च द्विजैः सह
ब्रह्मचर्यरतो नित्यं सदा धर्मपरायणः
MBh 9.49.5
ततोऽभ्येत्य महाराज योगमास्थाय भिक्षुकः
जैगीषव्यो मुनिर्धीमांस्तस्मिंस्तीर्थे समाहितः
MBh 9.49.6
देवलस्याश्रमे राजन्न्यवसत्स महाद्युतिः
योगनित्यो महाराज सिद्धिं प्राप्तो महातपाः
MBh 9.49.7
तं तत्र वसमानं तु जैगीषव्यं महामुनिम्
देवलो दर्शयन्नेव नैवायुञ्जत धर्मतः
MBh 9.49.8
एवं तयोर्महाराज दीर्घकालो व्यतिक्रमत्
जैगीषव्यं मुनिं चैव न ददर्शाथ देवलः
MBh 9.49.9
आहारकाले मतिमान्परिव्राड्जनमेजय
उपातिष्ठत धर्मज्ञो भैक्षकाले स देवलम्
MBh 9.49.10
स दृष्ट्वा भिक्षुरूपेण प्राप्तं तत्र महामुनिम्
गौरवं परमं चक्रे प्रीतिं च विपुलां तथा
MBh 9.49.11
देवलस्तु यथाशक्ति पूजयामास भारत
ऋषिदृष्टेन विधिना समा बह्व्यः समाहितः
MBh 9.49.12
कदाचित्तस्य नृपते देवलस्य महात्मनः
चिन्ता सुमहती जाता मुनिं दृष्ट्वा महाद्युतिम्
MBh 9.49.13
समास्तु समतिक्रान्ता बह्व्यः पूजयतो मम
न चायमलसो भिक्षुरभ्यभाषत किंचन
MBh 9.49.14
एवं विगणयन्नेव स जगाम महोदधिम्
अन्तरिक्षचरः श्रीमान्कलशं गृह्य देवलः
MBh 9.49.15
गच्छन्नेव स धर्मात्मा समुद्रं सरितां पतिम्
जैगीषव्यं ततोऽपश्यद्गतं प्रागेव भारत
MBh 9.49.16
ततः सविस्मयश्चिन्तां जगामाथासितः प्रभुः
कथं भिक्षुरयं प्राप्तः समुद्रे स्नात एव च
MBh 9.49.17
इत्येवं चिन्तयामास महर्षिरसितस्तदा
स्नात्वा समुद्रे विधिवच्छुचिर्जप्यं जजाप ह
MBh 9.49.18
कृतजप्याह्निकः श्रीमानाश्रमं च जगाम ह
कलशं जलपूर्णं वै गृहीत्वा जनमेजय
MBh 9.49.19
ततः स प्रविशन्नेव स्वमाश्रमपदं मुनिः
आसीनमाश्रमे तत्र जैगीषव्यमपश्यत
MBh 9.49.20
न व्याहरति चैवैनं जैगीषव्यः कथंचन
काष्ठभूतोऽऽश्रमपदे वसति स्म महातपाः
MBh 9.49.21
तं दृष्ट्वा चाप्लुतं तोये सागरे सागरोपमम्
प्रविष्टमाश्रमं चापि पूर्वमेव ददर्श सः
MBh 9.49.22
असितो देवलो राजंश्चिन्तयामास बुद्धिमान्
दृष्टः प्रभावं तपसो जैगीषव्यस्य योगजम्
MBh 9.49.23
चिन्तयामास राजेन्द्र तदा स मुनिसत्तमः
मया दृष्टः समुद्रे च आश्रमे च कथं त्वयम्
MBh 9.49.24
एवं विगणयन्नेव स मुनिर्मन्त्रपारगः
उत्पपाताश्रमात्तस्मादन्तरिक्षं विशां पते
जिज्ञासार्थं तदा भिक्षोर्जैगीषव्यस्य देवलः
MBh 9.49.25
सोऽन्तरिक्षचरान्सिद्धान्समपश्यत्समाहितान्
जैगीषव्यं च तैः सिद्धैः पूज्यमानमपश्यत
MBh 9.49.26
ततोऽसितः सुसंरब्धो व्यवसायी दृढव्रतः
अपश्यद्वै दिवं यान्तं जैगीषव्यं स देवलः
MBh 9.49.27
तस्माच्च पितृलोकं तं व्रजन्तं सोऽन्वपश्यत
पितृलोकाच्च तं यान्तं याम्यं लोकमपश्यत
MBh 9.49.28
तस्मादपि समुत्पत्य सोमलोकमभिष्टुतम्
व्रजन्तमन्वपश्यत्स जैगीषव्यं महामुनिम्
MBh 9.49.29
लोकान्समुत्पतन्तं च शुभानेकान्तयाजिनाम्
ततोऽग्निहोत्रिणां लोकांस्तेभ्यश्चाप्युत्पपात ह
MBh 9.49.30
दर्शं च पौर्णमासं च ये यजन्ति तपोधनाः
तेभ्यः स ददृशे धीमाँल्लोकेभ्यः पशुयाजिनाम्
व्रजन्तं लोकममलमपश्यद्देवपूजितम्
MBh 9.49.31
चातुर्मास्यैर्बहुविधैर्यजन्ते ये तपोधनाः
तेषां स्थानं तथा यान्तं तथाग्निष्टोमयाजिनाम्
MBh 9.49.32
अग्निष्टुतेन च तथा ये यजन्ति तपोधनाः
तत्स्थानमनुसंप्राप्तमन्वपश्यत देवलः
MBh 9.49.33
वाजपेयं क्रतुवरं तथा बहुसुवर्णकम्
आहरन्ति महाप्राज्ञास्तेषां लोकेष्वपश्यत
MBh 9.49.34
यजन्ते पुण्डरीकेण राजसूयेन चैव ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
MBh 9.49.35
अश्वमेधं क्रतुवरं नरमेधं तथैव च
आहरन्ति नरश्रेष्ठास्तेषां लोकेष्वपश्यत
MBh 9.49.36
सर्वमेधं च दुष्प्रापं तथा सौत्रामणिं च ये
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
MBh 9.49.37
द्वादशाहैश्च सत्रैर्ये यजन्ते विविधैर्नृप
तेषां लोकेष्वपश्यच्च जैगीषव्यं स देवलः
MBh 9.49.38
मित्रावरुणयोर्लोकानादित्यानां तथैव च
सलोकतामनुप्राप्तमपश्यत ततोऽसितः
MBh 9.49.39
रुद्राणां च वसूनां च स्थानं यच्च बृहस्पतेः
तानि सर्वाण्यतीतं च समपश्यत्ततोऽसितः
MBh 9.49.40
आरुह्य च गवां लोकं प्रयान्तं ब्रह्मसत्रिणाम्
लोकानपश्यद्गच्छन्तं जैगीषव्यं ततोऽसितः
MBh 9.49.41
त्रीँल्लोकानपरान्विप्रमुत्पतन्तं स्वतेजसा
पतिव्रतानां लोकांश्च व्रजन्तं सोऽन्वपश्यत
MBh 9.49.42
ततो मुनिवरं भूयो जैगीषव्यमथासितः
नान्वपश्यत योगस्थमन्तर्हितमरिंदम
MBh 9.49.43
सोऽचिन्तयन्महाभागो जैगीषव्यस्य देवलः
प्रभावं सुव्रतत्वं च सिद्धिं योगस्य चातुलाम्
MBh 9.49.44
असितोऽपृच्छत तदा सिद्धाँल्लोकेषु सत्तमान्
प्रयतः प्राञ्जलिर्भूत्वा धीरस्तान्ब्रह्मसत्रिणः
MBh 9.49.45
जैगीषव्यं न पश्यामि तं शंसत महौजसम्
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
MBh 9.49.46
सिद्धा ऊचुः
शृणु देवल भूतार्थं शंसतां नो दृढव्रत
जैगीषव्यो गतो लोकं शाश्वतं ब्रह्मणोऽव्ययम्
MBh 9.49.47
स श्रुत्वा वचनं तेषां सिद्धानां ब्रह्मसत्रिणाम्
असितो देवलस्तूर्णमुत्पपात पपात च
MBh 9.49.48
ततः सिद्धास्त ऊचुर्हि देवलं पुनरेव ह
न देवल गतिस्तत्र तव गन्तुं तपोधन
ब्रह्मणः सदनं विप्र जैगीषव्यो यदाप्तवान्
MBh 9.49.49
तेषां तद्वचनं श्रुत्वा सिद्धानां देवलः पुनः
आनुपूर्व्येण लोकांस्तान्सर्वानवततार ह
MBh 9.49.50
स्वमाश्रमपदं पुण्यमाजगाम पतंगवत्
प्रविशन्नेव चापश्यज्जैगीषव्यं स देवलः
MBh 9.49.51
ततो बुद्ध्या व्यगणयद्देवलो धर्मयुक्तया
दृष्ट्वा प्रभावं तपसो जैगीषव्यस्य योगजम्
MBh 9.49.52
ततोऽब्रवीन्महात्मानं जैगीषव्यं स देवलः
विनयावनतो राजन्नुपसर्प्य महामुनिम्
मोक्षधर्मं समास्थातुमिच्छेयं भगवन्नहम्
MBh 9.49.53
तस्य तद्वचनं श्रुत्वा उपदेशं चकार सः
विधिं च योगस्य परं कार्याकार्यं च शास्त्रतः
MBh 9.49.54
संन्यासकृतबुद्धिं तं ततो दृष्ट्वा महातपाः
सर्वाश्चास्य क्रियाश्चक्रे विधिदृष्टेन कर्मणा
MBh 9.49.55
संन्यासकृतबुद्धिं तं भूतानि पितृभिः सह
ततो दृष्ट्वा प्ररुरुदुः कोऽस्मान्संविभजिष्यति
MBh 9.49.56
देवलस्तु वचः श्रुत्वा भूतानां करुणं तथा
दिशो दश व्याहरतां मोक्षं त्यक्तुं मनो दधे
MBh 9.49.57
ततस्तु फलमूलानि पवित्राणि च भारत
पुष्पाण्योषधयश्चैव रोरूयन्ते सहस्रशः
MBh 9.49.58
पुनर्नो देवलः क्षुद्रो नूनं छेत्स्यति दुर्मतिः
अभयं सर्वभूतेभ्यो यो दत्त्वा नावबुध्यते
MBh 9.49.59
ततो भूयो व्यगणयत्स्वबुद्ध्या मुनिसत्तमः
मोक्षे गार्हस्थ्यधर्मे वा किं नु श्रेयस्करं भवेत्
MBh 9.49.60
इति निश्चित्य मनसा देवलो राजसत्तम
त्यक्त्वा गार्हस्थ्यधर्मं स मोक्षधर्ममरोचयत्
MBh 9.49.61
एवमादीनि संचिन्त्य देवलो निश्चयात्ततः
प्राप्तवान्परमां सिद्धिं परं योगं च भारत
MBh 9.49.62
ततो देवाः समागम्य बृहस्पतिपुरोगमाः
जैगीषव्यं तपश्चास्य प्रशंसन्ति तपस्विनः
MBh 9.49.63
अथाब्रवीदृषिवरो देवान्वै नारदस्तदा
जैगीषव्ये तपो नास्ति विस्मापयति योऽसितम्
MBh 9.49.64
तमेवंवादिनं धीरं प्रत्यूचुस्ते दिवौकसः
मैवमित्येव शंसन्तो जैगीषव्यं महामुनिम्
MBh 9.49.65
तत्राप्युपस्पृश्य ततो महात्मा; दत्त्वा च वित्तं हलभृद्द्विजेभ्यः
अवाप्य धर्मं परमार्यकर्मा; जगाम सोमस्य महत्स तीर्थम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 48
- Next chapter · Śalya-Parva Ch 50 →
Sources and Connected Readings
Continue from these 65 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.49local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷