🪷 Mahābhārata · Śalya-Parva · Chapter 47
The Book of Śalya · Parva 9 · 61 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 61 Shlokas
MBh 9.47.1
वैशंपायन उवाच
ततस्तीर्थवरं रामो ययौ बदरपाचनम्
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता
MBh 9.47.2
भरद्वाजस्य दुहिता रूपेणाप्रतिमा भुवि
स्रुचावती नाम विभो कुमारी ब्रह्मचारिणी
MBh 9.47.3
तपश्चचार सात्युग्रं नियमैर्बहुभिर्नृप
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी
MBh 9.47.4
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह
चरन्त्या नियमांस्तांस्तान्स्त्रीभिस्तीव्रान्सुदुश्चरान्
MBh 9.47.5
तस्यास्तु तेन वृत्तेन तपसा च विशां पते
भक्त्या च भगवान्प्रीतः परया पाकशासनः
MBh 9.47.6
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः
MBh 9.47.7
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत
MBh 9.47.8
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो
MBh 9.47.9
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत
शक्रभक्त्या तु ते पाणिं न दास्यामि कथंचन
MBh 9.47.10
व्रतैश्च नियमैश्चैव तपसा च तपोधन
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः
MBh 9.47.11
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्
उवाच नियमज्ञां तां सान्त्वयन्निव भारत
MBh 9.47.12
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः
MBh 9.47.13
तच्च सर्वं यथाभूतं भविष्यति वरानने
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
MBh 9.47.14
यानि स्थानानि दिव्यानि विबुधानां शुभानने
तपसा तानि प्राप्यानि तपोमूलं महत्सुखम्
MBh 9.47.15
इह कृत्वा तपो घोरं देहं संन्यस्य मानवाः
देवत्वं यान्ति कल्याणि शृणु चेदं वचो मम
MBh 9.47.16
पचस्वैतानि सुभगे बदराणि शुभव्रते
पचेत्युक्त्वा स भगवाञ्जगाम बलसूदनः
MBh 9.47.17
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः
अविदूरे ततस्तस्मादाश्रमात्तीर्थ उत्तमे
इन्द्रतीर्थे महाराज त्रिषु लोकेषु विश्रुते
MBh 9.47.18
तस्या जिज्ञासनार्थं स भगवान्पाकशासनः
बदराणामपचनं चकार विबुधाधिपः
MBh 9.47.19
ततः स प्रयता राजन्वाग्यता विगतक्लमा
तत्परा शुचिसंवीता पावके समधिश्रयत्
अपचद्राजशार्दूल बदराणि महाव्रता
MBh 9.47.20
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्
MBh 9.47.21
हुताशनेन दग्धश्च यस्तस्याः काष्ठसंचयः
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्
MBh 9.47.22
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघा
MBh 9.47.23
चरणौ दह्यमानौ च नाचिन्तयदनिन्दिता
दुःखं कमलपत्राक्षी महर्षेः प्रियकाम्यया
MBh 9.47.24
अथ तत्कर्म दृष्ट्वास्याः प्रीतस्त्रिभुवनेश्वरः
ततः संदर्शयामास कन्यायै रूपमात्मनः
MBh 9.47.25
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च
MBh 9.47.26
तस्माद्योऽभिमतः कामः स ते संपत्स्यते शुभे
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि
MBh 9.47.27
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्
MBh 9.47.28
अस्मिन्खलु महाभागे शुभे तीर्थवरे पुरा
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्
MBh 9.47.29
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल
MBh 9.47.30
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी
MBh 9.47.31
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः
अरुन्धत्यपि कल्याणी तपोनित्याभवत्तदा
MBh 9.47.32
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा
MBh 9.47.33
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे
MBh 9.47.34
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना
क्षीणोऽन्नसंचयो विप्र बदराणीह भक्षय
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते
MBh 9.47.35
इत्युक्ता सापचत्तानि ब्राह्मणप्रियकाम्यया
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी
MBh 9.47.36
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी
MBh 9.47.37
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः
अहःसमः स तस्यास्तु कालोऽतीतः सुदारुणः
MBh 9.47.38
ततस्ते मुनयः प्राप्ताः फलान्यादाय पर्वतात्
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं तदा
MBh 9.47.39
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च
MBh 9.47.40
ततः संदर्शयामास स्वरूपं भगवान्हरः
ततोऽब्रवीत्तदा तेभ्यस्तस्यास्तच्चरितं महत्
MBh 9.47.41
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्
अस्याश्च यत्तपो विप्रा न समं तन्मतं मम
MBh 9.47.42
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः
MBh 9.47.43
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि
MBh 9.47.44
साब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमुत्तमम्
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्
MBh 9.47.45
तथास्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्
एवमस्त्विति तां चोक्त्वा हरो यातस्तदा दिवम्
MBh 9.47.46
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्
अश्रान्तां चाविवर्णां च क्षुत्पिपासासहां सतीम्
MBh 9.47.47
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया
यथा त्वया महाभागे मदर्थं संशितव्रते
MBh 9.47.48
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः
तथा चेदं ददाम्यद्य नियमेन सुतोषितः
MBh 9.47.49
विशेषं तव कल्याणि प्रयच्छामि वरं वरे
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना
MBh 9.47.50
तस्य चाहं प्रसादेन तव कल्याणि तेजसा
प्रवक्ष्याम्यपरं भूयो वरमत्र यथाविधि
MBh 9.47.51
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः
स स्नात्वा प्राप्स्यते लोकान्देहन्यासाच्च दुर्लभान्
MBh 9.47.52
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्
स्रुचावतीं ततः पुण्यां जगाम त्रिदिवं पुनः
MBh 9.47.53
गते वज्रधरे राजंस्तत्र वर्षं पपात ह
पुष्पाणां भरतश्रेष्ठ दिव्यानां दिव्यगन्धिनाम्
MBh 9.47.54
नेदुर्दुन्दुभयश्चापि समन्तात्सुमहास्वनाः
मारुतश्च ववौ युक्त्या पुण्यगन्धो विशां पते
MBh 9.47.55
उत्सृज्य तु शुभं देहं जगामेन्द्रस्य भार्यताम्
तपसोग्रेण सा लब्ध्वा तेन रेमे सहाच्युत
MBh 9.47.56
जनमेजय उवाच
का तस्या भगवन्माता क्व संवृद्धा च शोभना
श्रोतुमिच्छाम्यहं ब्रह्मन्परं कौतूहलं हि मे
MBh 9.47.57
वैशंपायन उवाच
भारद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः
दृष्ट्वाप्सरसमायान्तीं घृताचीं पृथुलोचनाम्
MBh 9.47.58
स तु जग्राह तद्रेतः करेण जपतां वरः
तदावपत्पर्णपुटे तत्र सा संभवच्छुभा
MBh 9.47.59
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः
नाम चास्याः स कृतवान्भारद्वाजो महामुनिः
MBh 9.47.60
स्रुचावतीति धर्मात्मा तदर्षिगणसंसदि
स च तामाश्रमे न्यस्य जगाम हिमवद्वनम्
MBh 9.47.61
तत्राप्युपस्पृश्य महानुभावो; वसूनि दत्त्वा च महाद्विजेभ्यः
जगाम तीर्थं सुसमाहितात्मा; शक्रस्य वृष्णिप्रवरस्तदानीम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 46
- Next chapter · Śalya-Parva Ch 48 →
Sources and Connected Readings
Continue from these 61 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 9.47local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷