🪷 Mahābhārata · Śalya-Parva · Chapter 34

The Book of Śalya · Parva 9 · 81 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 81 Shlokas

MBh 9.34.1
जनमेजय उवाच पूर्वमेव यदा रामस्तस्मिन्युद्ध उपस्थिते आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः
MBh 9.34.2
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम्
MBh 9.34.3
एवमुक्त्वा तदा रामो यातः शत्रुनिबर्हणः तस्य चागमनं भूयो ब्रह्मञ्शंसितुमर्हसि
MBh 9.34.4
आख्याहि मे विस्तरतः कथं राम उपस्थितः कथं च दृष्टवान्युद्धं कुशलो ह्यसि सत्तम
MBh 9.34.5
वैशंपायन उवाच उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्
MBh 9.34.6
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च उक्तवान्वचनं तथ्यं हितं चैव विशेषतः न च तत्कृतवान्राजा यथाख्यातं हि ते पुरा
MBh 9.34.7
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः आगच्छत महाबाहुरुपप्लव्यं जनाधिप
MBh 9.34.8
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत्
MBh 9.34.9
न कुर्वन्ति वचो मह्यं कुरवः कालचोदिताः निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया
MBh 9.34.10
ततो विभज्यमानेषु बलेषु बलिनां वरः प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः
MBh 9.34.11
तेषामपि महाबाहो साहाय्यं मधुसूदन क्रियतामिति तत्कृष्णो नास्य चक्रे वचस्तदा
MBh 9.34.12
ततो मन्युपरीतात्मा जगाम यदुनन्दनः तीर्थयात्रां हलधरः सरस्वत्यां महायशाः मैत्रे नक्षत्रयोगे स्म सहितः सर्वयादवैः
MBh 9.34.13
आश्रयामास भोजस्तु दुर्योधनमरिंदमः युयुधानेन सहितो वासुदेवस्तु पाण्डवान्
MBh 9.34.14
रौहिणेये गते शूरे पुष्येण मधुसूदनः पाण्डवेयान्पुरस्कृत्य ययावभिमुखः कुरून्
MBh 9.34.15
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह संभारांस्तीर्थयात्रायां सर्वोपकरणानि च आनयध्वं द्वारकाया अग्नीन्वै याजकांस्तथा
MBh 9.34.16
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्
MBh 9.34.17
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्
MBh 9.34.18
एवं संदिश्य तु प्रेष्यान्बलदेवो महाबलः तीर्थयात्रां ययौ राजन्कुरूणां वैशसे तदा सरस्वतीं प्रतिस्रोतः समुद्रादभिजग्मिवान्
MBh 9.34.19
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः
MBh 9.34.20
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् तानि यानानि देशेषु प्रतीक्ष्यन्ते स्म भारत बुभुक्षितानामर्थाय कॢप्तमन्नं समन्ततः
MBh 9.34.21
यो यो यत्र द्विजो भोक्तुं कामं कामयते तदा तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप
MBh 9.34.22
तत्र स्थिता नरा राजन्रौहिणेयस्य शासनात् भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः
MBh 9.34.23
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च पूजार्थं तत्र कॢप्तानि विप्राणां सुखमिच्छताम्
MBh 9.34.24
यत्र यः स्वपते विप्रः क्षत्रियो वापि भारत तत्र तत्र तु तस्यैव सर्वं कॢप्तमदृश्यत
MBh 9.34.25
यथासुखं जनः सर्वस्तिष्ठते याति वा तदा यातुकामस्य यानानि पानानि तृषितस्य च
MBh 9.34.26
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च
MBh 9.34.27
स पन्थाः प्रबभौ राजन्सर्वस्यैव सुखावहः स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्
MBh 9.34.28
नित्यप्रमुदितोपेतः स्वादुभक्षः शुभान्वितः विपण्यापणपण्यानां नानाजनशतैर्वृतः नानाद्रुमलतोपेतो नानारत्नविभूषितः
MBh 9.34.29
ततो महात्मा नियमे स्थितात्मा; पुण्येषु तीर्थेषु वसूनि राजन् ददौ द्विजेभ्यः क्रतुदक्षिणाश्च; यदुप्रवीरो हलभृत्प्रतीतः
MBh 9.34.30
दोग्ध्रीश्च धेनूश्च सहस्रशो वै; सुवाससः काञ्चनबद्धशृङ्गीः हयांश्च नानाविधदेशजाता;न्यानानि दासीश्च तथा द्विजेभ्यः
MBh 9.34.31
रत्नानि मुक्तामणिविद्रुमं च; शृङ्गीसुवर्णं रजतं च शुभ्रम् अयस्मयं ताम्रमयं च भाण्डं; ददौ द्विजातिप्रवरेषु रामः
MBh 9.34.32
एवं स वित्तं प्रददौ महात्मा; सरस्वतीतीर्थवरेषु भूरि ययौ क्रमेणाप्रतिमप्रभाव;स्ततः कुरुक्षेत्रमुदारवृत्तः
MBh 9.34.33
जनमेजय उवाच सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च
MBh 9.34.34
यथाक्रमं च भगवंस्तीर्थानामनुपूर्वशः ब्रह्मन्ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे
MBh 9.34.35
वैशंपायन उवाच तीर्थानां विस्तरं राजन्गुणोत्पत्तिं च सर्वशः मयोच्यमानां शृणु वै पुण्यां राजेन्द्र कृत्स्नशः
MBh 9.34.36
पूर्वं महाराज यदुप्रवीर; ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् पुण्यं प्रभासं समुपाजगाम; यत्रोडुराड्यक्ष्मणा क्लिश्यमानः
MBh 9.34.37
विमुक्तशापः पुनराप्य तेजः; सर्वं जगद्भासयते नरेन्द्र एवं तु तीर्थप्रवरं पृथिव्यां; प्रभासनात्तस्य ततः प्रभासः
MBh 9.34.38
जनमेजय उवाच किमर्थं भगवान्सोमो यक्ष्मणा समगृह्यत कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत
MBh 9.34.39
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने
MBh 9.34.40
वैशंपायन उवाच दक्षस्य तनया यास्ताः प्रादुरासन्विशां पते स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ
MBh 9.34.41
नक्षत्रयोगनिरताः संख्यानार्थं च भारत पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभलक्षणाः
MBh 9.34.42
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि अत्यरिच्यत तासां तु रोहिणी रूपसंपदा
MBh 9.34.43
ततस्तस्यां स भगवान्प्रीतिं चक्रे निशाकरः सास्य हृद्या बभूवाथ तस्मात्तां बुभुजे सदा
MBh 9.34.44
पुरा हि सोमो राजेन्द्र रोहिण्यामवसच्चिरम् ततोऽस्य कुपितान्यासन्नक्षत्राणि महात्मनः
MBh 9.34.45
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः सोमो वसति नास्मासु रोहिणीं भजते सदा
MBh 9.34.46
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर वत्स्यामो नियताहारास्तपश्चरणतत्पराः
MBh 9.34.47
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत् समं वर्तस्व भार्यासु मा त्वाधर्मो महान्स्पृशेत्
MBh 9.34.48
ताश्च सर्वाब्रवीद्दक्षो गच्छध्वं सोममन्तिकात् समं वत्स्यति सर्वासु चन्द्रमा मम शासनात्
MBh 9.34.49
विसृष्टास्तास्तदा जग्मुः शीतांशुभवनं तदा तथापि सोमो भगवान्पुनरेव महीपते रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः
MBh 9.34.50
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् तव शुश्रूषणे युक्ता वत्स्यामो हि तवाश्रमे सोमो वसति नास्मासु नाकरोद्वचनं तव
MBh 9.34.51
तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन
MBh 9.34.52
अनादृत्य तु तद्वाक्यं दक्षस्य भगवाञ्शशी रोहिण्या सार्धमवसत्ततस्ताः कुपिताः पुनः
MBh 9.34.53
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा सोमो वसति नास्मासु तस्मान्नः शरणं भव
MBh 9.34.54
रोहिण्यामेव भगवन्सदा वसति चन्द्रमाः तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्
MBh 9.34.55
तच्छ्रुत्वा भगवान्क्रुद्धो यक्ष्माणं पृथिवीपते ससर्ज रोषात्सोमाय स चोडुपतिमाविशत्
MBh 9.34.56
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी यत्नं चाप्यकरोद्राजन्मोक्षार्थं तस्य यक्ष्मणः
MBh 9.34.57
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः न चामुच्यत शापाद्वै क्षयं चैवाभ्यगच्छत
MBh 9.34.58
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः
MBh 9.34.59
ओषधीनां क्षये जाते प्राणिनामपि संक्षयः कृशाश्चासन्प्रजाः सर्वाः क्षीयमाणे निशाकरे
MBh 9.34.60
ततो देवाः समागम्य सोममूचुर्महीपते किमिदं भवतो रूपमीदृशं न प्रकाशते
MBh 9.34.61
कारणं ब्रूहि नः सर्वं येनेदं ते महद्भयम् श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्
MBh 9.34.62
एवमुक्तः प्रत्युवाच सर्वांस्ताञ्शशलक्षणः शापं च कारणं चैव यक्ष्माणं च तथात्मनः
MBh 9.34.63
देवास्तस्य वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् प्रसीद भगवन्सोमे शापश्चैष निवर्त्यताम्
MBh 9.34.64
असौ हि चन्द्रमाः क्षीणः किंचिच्छेषो हि लक्ष्यते क्षयाच्चैवास्य देवेश प्रजाश्चापि गताः क्षयम्
MBh 9.34.65
वीरुदोषधयश्चैव बीजानि विविधानि च तथा वयं लोकगुरो प्रसादं कर्तुमर्हसि
MBh 9.34.66
एवमुक्तस्तदा चिन्त्य प्राह वाक्यं प्रजापतिः नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा हेतुना तु महाभागा निवर्तिष्यति केनचित्
MBh 9.34.67
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः सरस्वत्या वरे तीर्थे उन्मज्जञ्शशलक्षणः पुनर्वर्धिष्यते देवास्तद्वै सत्यं वचो मम
MBh 9.34.68
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति मासार्धं च सदा वृद्धिं सत्यमेतद्वचो मम
MBh 9.34.69
सरस्वतीं ततः सोमो जगाम ऋषिशासनात् प्रभासं परमं तीर्थं सरस्वत्या जगाम ह
MBh 9.34.70
अमावास्यां महातेजास्तत्रोन्मज्जन्महाद्युतिः लोकान्प्रभासयामास शीतांशुत्वमवाप च
MBh 9.34.71
देवाश्च सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम् सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन्
MBh 9.34.72
ततः प्रजापतिः सर्वा विससर्जाथ देवताः सोमं च भगवान्प्रीतो भूयो वचनमब्रवीत्
MBh 9.34.73
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान्कदाचन गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम
MBh 9.34.74
स विसृष्टो महाराज जगामाथ स्वमालयम् प्रजाश्च मुदिता भूत्वा भोजने च यथा पुरा
MBh 9.34.75
एतत्ते सर्वमाख्यातं यथा शप्तो निशाकरः प्रभासं च यथा तीर्थं तीर्थानां प्रवरं ह्यभूत्
MBh 9.34.76
अमावास्यां महाराज नित्यशः शशलक्षणः स्नात्वा ह्याप्यायते श्रीमान्प्रभासे तीर्थ उत्तमे
MBh 9.34.77
अतश्चैनं प्रजानन्ति प्रभासमिति भूमिप प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः
MBh 9.34.78
ततस्तु चमसोद्भेदमच्युतस्त्वगमद्बली चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत
MBh 9.34.79
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा
MBh 9.34.80
उदपानमथागच्छत्त्वरावान्केशवाग्रजः आद्यं स्वस्त्ययनं चैव तत्रावाप्य महत्फलम्
MBh 9.34.81
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 81 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.34local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷