🪷 Mahābhārata · Śalya-Parva · Chapter 32
The Book of Śalya · Parva 9 · 52 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 52 Shlokas
MBh 9.32.1
[स]
एवं दुर्यॊधनॊ राजन गर्जमाने मुहुर मुहुः
युधिष्ठिरस्य संक्रुद्धॊ वासुदेवॊ ऽबरवीद इदम
MBh 9.32.2
यदि नाम हय अयं युद्धे वरयेत तवां युधिष्ठिर
अर्जुनं नकुलं वापि सहदेवम अथापि वा
MBh 9.32.3
किम इदं साहसं राजंस तवया वयाहृतम ईदृशम
एकम एव निहत्याजौ भव राजा कुरुष्व इति
MBh 9.32.4
एतेन हि कृता यॊग्या वर्षाणीह तरयॊदश
आयसे पुरुषे राजन भीमसेनजिघांसया
MBh 9.32.5
कथं नाम भवेत कार्यम अस्माभिर भरतर्षभ
साहसं कृतवांस तवं तु हय अनुक्रॊशान नृपॊत्तम
MBh 9.32.6
नान्यम अस्यानुपश्यामि परतियॊद्धारम आहवे
ऋते वृकॊदरात पार्थात स च नातिकृत शरमः
MBh 9.32.7
तद इदं दयूतम आरब्धं पुनर एव यथा पुरा
विषमं शकुनेश चैव तव चैव विशां पते
MBh 9.32.8
बली भीमः समर्थश च कृती राजा सुयॊधनः
बलवान वा कृती वेति कृती राजन विशिष्यते
MBh 9.32.9
सॊ ऽयं रामंस तवया शत्रुः समे पथि निवेशितः
नयस्तश चात्मा सुविषमे कृच्छ्रम आपादिता वयम
MBh 9.32.10
कॊ नु सर्वान विनिर्जित्य शत्रून एकेन वैरिणा
पणित्वा चैकपाणेन रॊचयेद एवम आहवम
MBh 9.32.11
न हि पश्यामि तं लॊके गदाहस्तं नरॊत्तमम
युध्येद दुर्यॊधनं संख्ये कृतित्वाद धि विशेषयेत
MBh 9.32.12
फल्गुनं वा भवन्तं वा माद्रीपुत्राव अथापि वा
न समर्थान अहं मन्ये गदाहस्तस्य संयुगे
MBh 9.32.13
स कथं वदसे शत्रुं युध्यस्व गदयेति ह
एकं च नॊ निहत्याजौ भव राजेति भारत
MBh 9.32.14
वृकॊदरं समासाद्य संशयॊ विजये हि नः
नयायतॊ युध्यमानानां कृती हय एष महाबलः
MBh 9.32.15
[भम]
मधुसूदन मा कार्षीर विषादं यदुनन्दन
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम
MBh 9.32.16
अहं सुयॊधनं संख्ये हनिष्यामि न संशयः
विजयॊ वै धरुवं कृष्ण धर्मराजस्य दृश्यते
MBh 9.32.17
अध्यर्धेन पुनेनेयं गदा गुरुतरी मम
न तथा धार्तराष्ट्रस्य मा कार्षीर माधव वयथाम
MBh 9.32.18
सामरान अपि लॊकांस तरीन नानाशस्त्रधरान युधि
यॊधयेयं रणे हृष्टः किम उताद्य सुयॊधनम
MBh 9.32.19
[स]
तथा संभाषमाणं तु वासुदेवॊ वृकॊदरम
हृष्टः संपूजयाम आस वचनं चेदम अब्रवीत
MBh 9.32.20
तवाम आश्रित्य महाबाहॊ धर्मराजॊ युधिष्ठिरः
निहतारिः सवकां दीप्तां शरियं पराप्तॊ न संशयः
MBh 9.32.21
तवया विनिहताः सर्वे घृतराष्ट्र सुता रणे
राजानॊ राजपुत्राश च नागाश च विनिपातिताः
MBh 9.32.22
कलिङ्गा मागधाः पराच्या गान्धाराः कुरवस तथा
तवाम आसाद्य महायुद्धे निहताः पाण्डुनन्दन
MBh 9.32.23
हत्वा दुर्यॊधनं चापि परयच्छॊर्वीं ससागराम
धर्मराजस्य कौन्तेय यथा विष्णुः शचीपतेः
MBh 9.32.24
तवां च पराप्य रणे पापॊ धार्तराष्ट्रॊ विनङ्क्ष्यति
तवम अस्य सक्थिनी भङ्क्त्वा परतिज्ञां पारयिष्यसि
MBh 9.32.25
यत्नेन तु सदा पार्थ यॊद्द्धव्यॊ धृतराष्ट्रजः
कृती च बलवांश चैव युद्धशौण्डश च नित्यदा
MBh 9.32.26
ततस तु सात्यकी राजन पूजयाम आस पाण्डवम
विविधाभिश च तां वाग्भिः पूजयाम आस माधवः
MBh 9.32.27
पाञ्चालाः पाण्डवेयाश च धर्मराज पुरॊगमाः
तद वचॊ भीमसेनस्य सर्व एवाभ्यपूजयन
MBh 9.32.28
ततॊ भीमबलॊ भीमॊ युधिष्ठिरम अथाब्रवीत
सृञ्जयैः सह तिष्ठन्तं तपन्तम इव भास्करम
MBh 9.32.29
अहम एतेन संगम्य संयुगे यॊद्धुम उत्सहे
न हि शक्तॊ रणे जेतुं माम एष पुरुषाधमः
MBh 9.32.30
अद्य करॊधं विमॊक्ष्यामि निहितं हृदये भृशम
सुयॊधने धार्तराष्ट्रे खाण्डवे ऽगनिम इवार्जुनः
MBh 9.32.31
शल्यम अद्यॊद्धरिष्यामि तव पाण्डव हृच्च्छयम
निहत्य गदया पापम अद्य राजन सुखी भव
MBh 9.32.32
अद्य कीर्तिमयीं मालां परतिमॊक्ष्ये तवानघ
पराणाञ शरियं च राज्यं च मॊक्ष्यते ऽदय सुयॊधनः
MBh 9.32.33
राजा च धृतराष्ट्रॊ ऽदय शरुत्वा पुत्रं मया हतम
समारिष्यत्य अशुभं कर्म यत तच छकुनि बुद्धिजम
MBh 9.32.34
इत्य उक्त्वा भरतश्रेष्ठॊ गदाम उद्यम्य वीर्यवान
उदतिष्ठत युद्धाय शक्रॊ वृत्रम इवाह्वयन
MBh 9.32.35
तम एकाकिनम आसाद्य धार्तराष्ट्रं महाबलम
निर्यूथम इव मातङ्गं समहृष्यन्त पाण्डवाः
MBh 9.32.36
तम उद्यतगदं दृष्ट्वा कैलासम इव शृङ्गिणम
भीमसेनस तदा राजन दुर्यॊधनम अथाब्रवीत
MBh 9.32.37
राज्ञापि धृतराष्ट्रेण तवया चास्मासु यत्कृतम
समार तद दुष्कृतं कर्म यद्वृत्तं वारणावते
MBh 9.32.38
दरौपदी च परिक्लिष्टा सभामध्ये रजस्वला
दयूते यद विजितॊ राजा शकुनेर बुद्धिनिश्चयात
MBh 9.32.39
यानि चान्यानि दुष्टात्मन पापानि कृतवान असि
अनागःसु च पार्थेषु तस्य पश्य महत फलम
MBh 9.32.40
तवत्कृते निहतः शेते शरतल्पे महायशाः
गाङ्गेयॊ भरतश्रेष्ठः सर्वेषां नः पितामहः
MBh 9.32.41
हतॊ दरॊणश च कार्णश च हतः शल्यः परतापवान
वैरस्या चादि कर्तासौ शकुनिर निहतॊ युधि
MBh 9.32.42
भरातरस ते हताः शूराः पुत्राश च सहसैनिकाः
राजानश च हताः शूराः समरेष्व अनिवर्तिनः
MBh 9.32.43
एते चान्ये च निहता बहवः कषत्रियर्षभाः
परातिकामी तथा पापॊ दरौपद्याः कलेशकृद धतः
MBh 9.32.44
अवशिष्टस तवम एवैकः कुलघ्नॊ ऽधम पूरुषः
तवाम अप्य अद्य हनिष्यामि गदया नात्र संशयः
MBh 9.32.45
अद्य ते ऽहं रणे दर्पं सर्वं नाशयिता नृप
राज्याशां विपुलां राजन पाण्डवेषु च दुष्कृतम
MBh 9.32.46
[दुर]
किं कत्थितेन बहुधा युध्यस्वाद्य मया सह
अद्य ते ऽहं विनेष्यामि युद्धश्रद्धां वृकॊदर
MBh 9.32.47
किं न पश्यसि मां पापगदा युद्धे वयवस्थितम
हिमवच्छिखराकारां परगृह्य महतीं गदाम
MBh 9.32.48
गदिनं कॊ ऽदय मां पापजेतुम उत्सहते रिपुः
नयायतॊ युध्यमानस्य देवेष्व अपि पुरंदरः
MBh 9.32.49
मा वृथा गर्ज कौन्तेय शरदाभ्रम इवाजलम
दर्शयस्व बलं युद्धे यावत तत ते ऽदय विद्यते
MBh 9.32.50
तस्य तद वचनं शरुत्वा पाञ्चालाः सहसृञ्जयाः
सर्वे संपूजयाम आसुस तद वचॊ विजिगीषवः
MBh 9.32.51
तं मत्तम इव मातङ्गं तलशब्देन मानवाः
भूयः संहर्षयाम आसू राजन दुर्यॊधनं नृपम
MBh 9.32.52
बृहन्ति कुञ्जरास तत्र हया हेषन्ति चासकृत
शस्त्राणि संप्रदीप्यन्ते पाण्डवानां जयैषिणाम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Śalya-Parva chapter-index (64 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Śalya-Parva Ch 31
- Next chapter · Śalya-Parva Ch 33 →
🪷 जय व्यास भगवान् 🪷