🪷 Mahābhārata · Śalya-Parva · Chapter 30

The Book of Śalya · Parva 9 · 68 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 68 Shlokas

MBh 9.30.1
संजय उवाच ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत्
MBh 9.30.2
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः
MBh 9.30.3
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् विष्टभ्य सलिलं शेते नास्य मानुषतो भयम्
MBh 9.30.4
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते
MBh 9.30.5
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव
MBh 9.30.6
श्रीवासुदेव उवाच मायाविन इमां मायां मायया जहि भारत मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर
MBh 9.30.7
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम्
MBh 9.30.8
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना
MBh 9.30.9
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ वृत्रश्च निहतो राजन्क्रिययैव न संशयः
MBh 9.30.10
तथा पौलस्त्यतनयो रावणो नाम राक्षसः रामेण निहतो राजन्सानुबन्धः सहानुगः क्रियया योगमास्थाय तथा त्वमपि विक्रम
MBh 9.30.11
क्रियाभ्युपायैर्निहतो मया राजन्पुरातने तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान्
MBh 9.30.12
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ
MBh 9.30.13
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर
MBh 9.30.14
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर
MBh 9.30.15
संजय उवाच इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः जलस्थं तं महाराज तव पुत्रं महाबलम् अभ्यभाषत कौन्तेयः प्रहसन्निव भारत
MBh 9.30.16
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते
MBh 9.30.17
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन
MBh 9.30.18
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः
MBh 9.30.19
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः
MBh 9.30.20
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः कौरवेयो विशेषेण कुले जन्म च संस्मर
MBh 9.30.21
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि
MBh 9.30.22
अयुद्धमव्यवस्थानं नैष धर्मः सनातनः अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम्
MBh 9.30.23
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा
MBh 9.30.24
संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम्
MBh 9.30.25
शूरमानी न शूरस्त्वं मिथ्या वदसि भारत शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः
MBh 9.30.26
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम्
MBh 9.30.27
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन
MBh 9.30.28
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन
MBh 9.30.29
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान्
MBh 9.30.30
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम्
MBh 9.30.31
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत्
MBh 9.30.32
क्व ते कृतास्त्रता याता किं च शेषे जलाशये स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत
MBh 9.30.33
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत
MBh 9.30.34
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना तं कुरुष्व यथातथ्यं राजा भव महारथ
MBh 9.30.35
दुर्योधन उवाच नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत
MBh 9.30.36
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम्
MBh 9.30.37
न प्राणहेतोर्न भयान्न विषादाद्विशां पते इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम्
MBh 9.30.38
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे
MBh 9.30.39
युधिष्ठिर उवाच आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन
MBh 9.30.40
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि
MBh 9.30.41
दुर्योधन उवाच यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन त इमे निहताः सर्वे भ्रातरो मे जनेश्वर
MBh 9.30.42
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम् नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम्
MBh 9.30.43
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ
MBh 9.30.44
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् द्रोणे कर्णे च संशान्ते निहते च पितामहे
MBh 9.30.45
अस्त्विदानीमियं राजन्केवला पृथिवी तव असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम्
MBh 9.30.46
सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः
MBh 9.30.47
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत
MBh 9.30.48
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः
MBh 9.30.49
वनमेव गमिष्यामि वसानो मृगचर्मणी न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो
MBh 9.30.50
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम्
MBh 9.30.51
युधिष्ठिर उवाच आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः नैतन्मनसि मे राजन्वाशितं शकुनेरिव
MBh 9.30.52
यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम्
MBh 9.30.53
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः
MBh 9.30.54
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम्
MBh 9.30.55
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि
MBh 9.30.56
धर्मतो याचमानानां शमार्थं च कुलस्य नः वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम्
MBh 9.30.57
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्
MBh 9.30.58
न त्वमद्य महीं दातुमीशः कौरवनन्दन आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम्
MBh 9.30.59
सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत तन्मात्रमपि नो मह्यं न ददाति पुरा भवान्
MBh 9.30.60
स कथं पृथिवीमेतां प्रददासि विशां पते सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम्
MBh 9.30.61
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम्
MBh 9.30.62
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे
MBh 9.30.63
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान्
MBh 9.30.64
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् संशयः सर्वभूतानां विजये नो भविष्यति
MBh 9.30.65
जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः
MBh 9.30.66
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः त्वया विनिकृता राजन्राज्यस्य हरणेन च
MBh 9.30.67
एतस्मात्कारणात्पाप जीवितं ते न विद्यते उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति
MBh 9.30.68
संजय उवाच एवं तु विविधा वाचो जययुक्ताः पुनः पुनः कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 68 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.30local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷