🪷 Mahābhārata · Śalya-Parva · Chapter 1

The Book of Śalya · Parva 9 · 52 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 52 Shlokas

MBh 9.1.1
जनमेजय उवाच एवं निपातिते कर्णे समरे सव्यसाचिना अल्पावशिष्टाः कुरवः किमकुर्वत वै द्विज
MBh 9.1.2
उदीर्यमाणं च बलं दृष्ट्वा राजा सुयोधनः पाण्डवैः प्राप्तकालं च किं प्रापद्यत कौरवः
MBh 9.1.3
एतदिच्छाम्यहं श्रोतुं तदाचक्ष्व द्विजोत्तम न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्
MBh 9.1.4
वैशंपायन उवाच ततः कर्णे हते राजन्धार्तराष्ट्रः सुयोधनः भृशं शोकार्णवे मग्नो निराशः सर्वतोऽभवत्
MBh 9.1.5
हा कर्ण हा कर्ण इति शोचमानः पुनः पुनः कृच्छ्रात्स्वशिबिरं प्रायाद्धतशेषैर्नृपैः सह
MBh 9.1.6
स समाश्वास्यमानोऽपि हेतुभिः शास्त्रनिश्चितैः राजभिर्नालभच्छर्म सूतपुत्रवधं स्मरन्
MBh 9.1.7
स दैवं बलवन्मत्वा भवितव्यं च पार्थिवः संग्रामे निश्चयं कृत्वा पुनर्युद्धाय निर्ययौ
MBh 9.1.8
शल्यं सेनापतिं कृत्वा विधिवद्राजपुंगवः रणाय निर्ययौ राजा हतशेषैर्नृपैः सह
MBh 9.1.9
ततः सुतुमुलं युद्धं कुरुपाण्डवसेनयोः बभूव भरतश्रेष्ठ देवासुररणोपमम्
MBh 9.1.10
ततः शल्यो महाराज कृत्वा कदनमाहवे पाण्डुसैन्यस्य मध्याह्ने धर्मराजेन पातितः
MBh 9.1.11
ततो दुर्योधनो राजा हतबन्धू रणाजिरात् अपसृत्य ह्रदं घोरं विवेश रिपुजाद्भयात्
MBh 9.1.12
अथापराह्णे तस्याह्नः परिवार्य महारथैः ह्रदादाहूय योगेन भीमसेनेन पातितः
MBh 9.1.13
तस्मिन्हते महेष्वासे हतशिष्टास्त्रयो रथाः संरभान्निशि राजेन्द्र जघ्नुः पाञ्चालसैनिकान्
MBh 9.1.14
ततः पूर्वाह्णसमये शिबिरादेत्य संजयः प्रविवेश पुरीं दीनो दुःखशोकसमन्वितः
MBh 9.1.15
प्रविश्य च पुरं तूर्णं भुजावुच्छ्रित्य दुःखितः वेपमानस्ततो राज्ञः प्रविवेश निवेशनम्
MBh 9.1.16
रुरोद च नरव्याघ्र हा राजन्निति दुःखितः अहो बत विविग्नाः स्म निधनेन महात्मनः
MBh 9.1.17
अहो सुबलवान्कालो गतिश्च परमा तथा शक्रतुल्यबलाः सर्वे यत्रावध्यन्त पार्थिवाः
MBh 9.1.18
दृष्ट्वैव च पुरो राजञ्जनः सर्वः स संजयम् प्ररुरोद भृशोद्विग्नो हा राजन्निति सस्वरम्
MBh 9.1.19
आकुमारं नरव्याघ्र तत्पुरं वै समन्ततः आर्तनादं महच्चक्रे श्रुत्वा विनिहतं नृपम्
MBh 9.1.20
धावतश्चाप्यपश्यच्च तत्र त्रीन्पुरुषर्षभान् नष्टचित्तानिवोन्मत्ताञ्शोकेन भृशपीडितान्
MBh 9.1.21
तथा स विह्वलः सूतः प्रविश्य नृपतिक्षयम् ददर्श नृपतिश्रेष्ठं प्रज्ञाचक्षुषमीश्वरम्
MBh 9.1.22
दृष्ट्वा चासीनमनघं समन्तात्परिवारितम् स्नुषाभिर्भरतश्रेष्ठ गान्धार्या विदुरेण च
MBh 9.1.23
तथान्यैश्च सुहृद्भिश्च ज्ञातिभिश्च हितैषिभिः तमेव चार्थं ध्यायन्तं कर्णस्य निधनं प्रति
MBh 9.1.24
रुदन्नेवाब्रवीद्वाक्यं राजानं जनमेजय नातिहृष्टमनाः सूतो बाष्पसंदिग्धया गिरा
MBh 9.1.25
संजयोऽहं नरव्याघ्र नमस्ते भरतर्षभ मद्राधिपो हतः शल्यः शकुनिः सौबलस्तथा उलूकः पुरुषव्याघ्र कैतव्यो दृढविक्रमः
MBh 9.1.26
संशप्तका हताः सर्वे काम्बोजाश्च शकैः सह म्लेच्छाश्च पार्वतीयाश्च यवनाश्च निपातिताः
MBh 9.1.27
प्राच्या हता महाराज दाक्षिणात्याश्च सर्वशः उदीच्या निहताः सर्वे प्रतीच्याश्च नराधिप राजानो राजपुत्राश्च सर्वतो निहता नृप
MBh 9.1.28
दुर्योधनो हतो राजन्यथोक्तं पाण्डवेन च भग्नसक्थो महाराज शेते पांसुषु रूषितः
MBh 9.1.29
धृष्टद्युम्नो हतो राजञ्शिखण्डी चापराजितः उत्तमौजा युधामन्युस्तथा राजन्प्रभद्रकाः
MBh 9.1.30
पाञ्चालाश्च नरव्याघ्राश्चेदयश्च निषूदिताः तव पुत्रा हताः सर्वे द्रौपदेयाश्च भारत कर्णपुत्रो हतः शूरो वृषसेनो महाबलः
MBh 9.1.31
नरा विनिहताः सर्वे गजाश्च विनिपातिताः रथिनश्च नरव्याघ्र हयाश्च निहता युधि
MBh 9.1.32
किंचिच्छेषं च शिबिरं तावकानां कृतं विभो पाण्डवानां च शूराणां समासाद्य परस्परम्
MBh 9.1.33
प्रायः स्त्रीशेषमभवज्जगत्कालेन मोहितम् सप्त पाण्डवतः शेषा धार्तराष्ट्रास्तथा त्रयः
MBh 9.1.34
ते चैव भ्रातरः पञ्च वासुदेवोऽथ सात्यकिः कृपश्च कृतवर्मा च द्रौणिश्च जयतां वरः
MBh 9.1.35
तवाप्येते महाराज रथिनो नृपसत्तम अक्षौहिणीनां सर्वासां समेतानां जनेश्वर एते शेषा महाराज सर्वेऽन्ये निधनं गताः
MBh 9.1.36
कालेन निहतं सर्वं जगद्वै भरतर्षभ दुर्योधनं वै पुरतः कृत्वा वैरस्य भारत
MBh 9.1.37
एतच्छ्रुत्वा वचः क्रूरं धृतराष्ट्रो जनेश्वरः निपपात महाराज गतसत्त्वो महीतले
MBh 9.1.38
तस्मिन्निपतिते भूमौ विदुरोऽपि महायशाः निपपात महाराज राजव्यसनकर्शितः
MBh 9.1.39
गान्धारी च नृपश्रेष्ठ सर्वाश्च कुरुयोषितः पतिताः सहसा भूमौ श्रुत्वा क्रूरं वचश्च ताः
MBh 9.1.40
निःसंज्ञं पतितं भूमौ तदासीद्राजमण्डलम् प्रलापयुक्ता महती कथा न्यस्ता पटे यथा
MBh 9.1.41
कृच्छ्रेण तु ततो राजा धृतराष्ट्रो महीपतिः शनैरलभत प्राणान्पुत्रव्यसनकर्शितः
MBh 9.1.42
लब्ध्वा तु स नृपः संज्ञां वेपमानः सुदुःखितः उदीक्ष्य च दिशः सर्वाः क्षत्तारं वाक्यमब्रवीत्
MBh 9.1.43
विद्वन्क्षत्तर्महाप्राज्ञ त्वं गतिर्भरतर्षभ ममानाथस्य सुभृशं पुत्रैर्हीनस्य सर्वशः एवमुक्त्वा ततो भूयो विसंज्ञो निपपात ह
MBh 9.1.44
तं तथा पतितं दृष्ट्वा बान्धवा येऽस्य केचन शीतैस्तु सिषिचुस्तोयैर्विव्यजुर्व्यजनैरपि
MBh 9.1.45
स तु दीर्घेण कालेन प्रत्याश्वस्तो महीपतिः तूष्णीं दध्यौ महीपालः पुत्रव्यसनकर्शितः निःश्वसञ्जिह्मग इव कुम्भक्षिप्तो विशां पते
MBh 9.1.46
संजयोऽप्यरुदत्तत्र दृष्ट्वा राजानमातुरम् तथा सर्वाः स्त्रियश्चैव गान्धारी च यशस्विनी
MBh 9.1.47
ततो दीर्घेण कालेन विदुरं वाक्यमब्रवीत् धृतराष्ट्रो नरव्याघ्रो मुह्यमानो मुहुर्मुहुः
MBh 9.1.48
गच्छन्तु योषितः सर्वा गान्धारी च यशस्विनी तथेमे सुहृदः सर्वे भ्रश्यते मे मनो भृशम्
MBh 9.1.49
एवमुक्तस्ततः क्षत्ता ताः स्त्रियो भरतर्षभ विसर्जयामास शनैर्वेपमानः पुनः पुनः
MBh 9.1.50
निश्चक्रमुस्ततः सर्वास्ताः स्त्रियो भरतर्षभ सुहृदश्च ततः सर्वे दृष्ट्वा राजानमातुरम्
MBh 9.1.51
ततो नरपतिं तत्र लब्धसंज्ञं परंतप अवेक्ष्य संजयो दीनो रोदमानं भृशातुरम्
MBh 9.1.52
प्राञ्जलिर्निःश्वसन्तं च तं नरेन्द्रं मुहुर्मुहुः समाश्वासयत क्षत्ता वचसा मधुरेण च

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 52 source-pinned Devanāgarī addresses to Śalya-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 9.1local chapter route · Śalya-ParvaŚalya-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷