🪷 Mahābhārata · Sabhā-Parva · Chapter 68
The Book of the Assembly Hall · Parva 2 · 46 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 46 Shlokas
MBh 2.68.1
वैशंपायन उवाच
वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्
MBh 2.68.2
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान्
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्
MBh 2.68.3
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः
पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः
MBh 2.68.4
अद्य देवाः संप्रयाताः समैर्वर्त्मभिरस्थलैः
गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः
MBh 2.68.5
नरकं पातिताः पार्था दीर्घकालमनन्तकम्
सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः
MBh 2.68.6
बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः
MBh 2.68.7
चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति
निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः
MBh 2.68.8
न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा
ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः
MBh 2.68.9
अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः
अदीक्षितानामजिनानि यद्व;द्बलीयसां पश्यत पाण्डवानाम्
MBh 2.68.10
महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय
अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः
MBh 2.68.11
सूक्ष्मान्प्रावारानजिनानि चोदिता;न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान्
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि
MBh 2.68.12
एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः
एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम्
MBh 2.68.13
यथाफलाः षण्ढतिला यथा चर्ममया मृगाः
तथैव पाण्डवाः सर्वे यथा काकयवा अपि
MBh 2.68.14
किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य
एवं नृशंसः परुषाणि पार्था;नश्रावयद्धृतराष्ट्रस्य पुत्रः
MBh 2.68.15
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात्
उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम्
MBh 2.68.16
भीमसेन उवाच
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे
MBh 2.68.17
यथा तुदसि मर्माणि वाक्शरैरिह नो भृशम्
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे
MBh 2.68.18
ये च त्वामनुवर्तन्ते कामलोभवशानुगाः
गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम्
MBh 2.68.19
वैशंपायन उवाच
एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म
मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः
MBh 2.68.20
भीमसेन उवाच
नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति
MBh 2.68.21
मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः
यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे
MBh 2.68.22
धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम्
शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः
MBh 2.68.23
वैशंपायन उवाच
तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात्
गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः
MBh 2.68.24
नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः
शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ
MBh 2.68.25
एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी
राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः
MBh 2.68.26
अहं दुर्योधनं हन्ता कर्णं हन्ता धनंजयः
शकुनिं चाक्षकितवं सहदेवो हनिष्यति
MBh 2.68.27
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति
MBh 2.68.28
सुयोधनमिमं पापं हन्तास्मि गदया युधि
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले
MBh 2.68.29
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः
दुःशासनस्य रुधिरं पातास्मि मृगराडिव
MBh 2.68.30
अर्जुन उवाच
नैव वाचा व्यवसितं भीम विज्ञायते सताम्
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति
MBh 2.68.31
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्
MBh 2.68.32
असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम्
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे
MBh 2.68.33
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया
कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः
MBh 2.68.34
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः
तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम्
MBh 2.68.35
चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि
MBh 2.68.36
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे
दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति
MBh 2.68.37
वैशंपायन उवाच
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्
MBh 2.68.38
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्
क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः
MBh 2.68.39
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः
MBh 2.68.40
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः
MBh 2.68.41
हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम्
यदि स्थास्यसि संग्रामे क्षत्रधर्मेण सौबल
MBh 2.68.42
सहदेववचः श्रुत्वा नकुलोऽपि विशां पते
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्
MBh 2.68.43
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये
MBh 2.68.44
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान्
दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम्
MBh 2.68.45
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्
निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव
MBh 2.68.46
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 67
- Next chapter · Sabhā-Parva Ch 69 →
Sources and Connected Readings
Continue from these 46 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.68local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷