🪷 Mahābhārata · Sabhā-Parva · Chapter 63

The Book of the Assembly Hall · Parva 2 · 36 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 36 Shlokas

MBh 2.63.1
कर्ण उवाच त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी
MBh 2.63.2
प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः
MBh 2.63.3
अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन अनवद्या वै पतिषु कामवृत्ति;र्नित्यं दास्ये विदितं वै तवास्तु
MBh 2.63.4
पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति
MBh 2.63.5
प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु
MBh 2.63.6
वैशंपायन उवाच तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः
MBh 2.63.7
भीम उवाच नाहं कुप्ये सूतपुत्रस्य राज;न्नेष सत्यं दासधर्मः प्रविष्टः किं विद्विषो वाद्य मां धारयेयु;र्नादेवीस्त्वं यद्यनया नरेन्द्र
MBh 2.63.8
वैशंपायन उवाच राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा युधिष्ठिरमुवाचेदं तूष्णींभूतमचेतसम्
MBh 2.63.9
भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे
MBh 2.63.10
एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः
MBh 2.63.11
कदलीदण्डसदृशं सर्वलक्षणपूजितम् गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम्
MBh 2.63.12
अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत्
MBh 2.63.13
वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते प्रोवाच राजमध्ये तं सभां विश्रावयन्निव
MBh 2.63.14
पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः यद्येतमूरुं गदया न भिन्द्यां ते महाहवे
MBh 2.63.15
क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः
MBh 2.63.16
विदुर उवाच परं भयं पश्यत भीमसेना;द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् दैवेरितो नूनमयं पुरस्ता;त्परोऽनयो भरतेषूदपादि
MBh 2.63.17
अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति
MBh 2.63.18
इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्संप्रदुष्येत् इमां चेत्पूर्वं कितवोऽग्लहीष्य;दीशोऽभविष्यदपराजितात्मा
MBh 2.63.19
स्वप्ने यथैतद्धि धनं जितं स्या;त्तदेवं मन्ये यस्य दीव्यत्यनीशः गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात
MBh 2.63.20
दुर्योधन उवाच भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव युधिष्ठिरं चेत्प्रवदन्त्यनीश;मथो दास्यान्मोक्ष्यसे याज्ञसेनि
MBh 2.63.21
अर्जुन उवाच ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव
MBh 2.63.22
वैशंपायन उवाच ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे तं रासभाः प्रत्यभाषन्त राज;न्समन्ततः पक्षिणश्चैव रौद्राः
MBh 2.63.23
तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च भीष्मद्रोणौ गौतमश्चापि विद्वा;न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः
MBh 2.63.24
ततो गान्धारी विदुरश्चैव विद्वां;स्तमुत्पातं घोरमालक्ष्य राज्ञे निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे
MBh 2.63.25
हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुंगवानाम् स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम्
MBh 2.63.26
एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः
MBh 2.63.27
धृतराष्ट्र उवाच वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती
MBh 2.63.28
द्रौपद्युवाच ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः
MBh 2.63.29
मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम्
MBh 2.63.30
राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत
MBh 2.63.31
धृतराष्ट्र उवाच द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् मनो हि मे वितरति नैकं त्वं वरमर्हसि
MBh 2.63.32
द्रौपद्युवाच सरथौ सधनुष्कौ च भीमसेनधनंजयौ नकुलं सहदेवं च द्वितीयं वरये वरम्
MBh 2.63.33
धृतराष्ट्र उवाच तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी
MBh 2.63.34
द्रौपद्युवाच लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे अनर्हा वरमादातुं तृतीयं राजसत्तम
MBh 2.63.35
एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः
MBh 2.63.36
पापीयांस इमे भूत्वा संतीर्णाः पतयो मम वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 36 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 2.63local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷