🪷 Mahābhārata · Sabhā-Parva · Chapter 51
The Book of the Assembly Hall · Parva 2 · 26 shlokas in canonical Devanāgarī Sanskrit
The Devanāgarī Yathārtha · 26 Shlokas
MBh 2.51.1
[ष]
यां तवम एतां शरियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे
तप्यसे तां हरिष्यामि दयूतेनाहूयतां परः
MBh 2.51.2
अगत्वा संशयम अहम अयुद्ध्वा च चमूमुखे
अक्षान कषिपन्न अक्षतः सन विद्वान अविदुषॊ जये
MBh 2.51.3
गलहान धनूंसि मे विद्धि शरान अक्षांश च भारत
अक्षाणां हृदयं मे जयां रथं विद्धि ममास्तरम
MBh 2.51.4
[द]
अयम उत्सहते राजञ शरियम आहर्तुम अक्षवित
दयूतेन पाण्डुपुत्रेभ्यस तत तुभ्यं तात रॊचताम
MBh 2.51.5
[ध]
सथितॊ ऽसमि शासने भरातुर विदुरस्य महात्मनः
तेन संगम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम
MBh 2.51.6
[द]
विहनिष्यति ते बुद्धिं विदुरॊ मुक्तसंशयः
पाण्डवानां हिते युक्तॊ न तथा मम कौरव
MBh 2.51.7
नारभेत परसामर्थ्यात पुरुषः कार्यम आत्मनः
मतिसाम्यं दवयॊर नास्ति कार्येषु कुरुनन्दन
MBh 2.51.8
भयं परिहरन मन्द आत्मानं परिपालयन
वर्षासु कलिन्नकटवत तिष्ठन्न एवावसीदति
MBh 2.51.9
न वयाधयॊ नापि यमः शरेयः पराप्तिं परतीक्षते
यावद एव भवेत कल्पस तावच छरेयॊ समाचरेत
MBh 2.51.10
[ध]
सर्वथा पुत्रबलिभिर विग्रहं ते न रॊचये
वैरं विकारं सृजति तद वै शस्त्रम अनायसम
MBh 2.51.11
अनर्थम अर्थं मन्यसे राजपुत्र; संग्रन्थनं कलहस्यातिघॊरम
तद वै परवृत्तं तु यथा कथं चिद; विमॊक्षयेच चाप्य असि सायकांश च
MBh 2.51.12
[दुर]
दयूते पुराणैर वयवहारः परनीतस; तत्रात्ययॊ नास्ति न संप्रहारः
तद रॊचतां शकुनेर वाक्यम अद्य सभां; कषिप्रं तवम इहाज्ञापयस्व
MBh 2.51.13
सवर्गद्वारं दीव्यतां नॊ विशिष्टं; तद वर्तिनां चापि तथैव युक्तम
भवेद एवं हय आत्मना तुल्यम एव; दुरॊदरं पाण्डवैस तवं कुरुष्व
MBh 2.51.14
[धृ]
वाक्यं न मे रॊचते यत तवयॊक्तं; यत ते परियं तत करियतां नरेन्द्र
पश्चात तप्यसे तद उपाक्रम्य वाक्यं; न हीदृशं भावि वचॊ हि धर्म्यम
MBh 2.51.15
दृष्टं हय एतद विदुरेनैवम एव; सर्वं पूर्वं बुद्धिविद्यानुगेन
तद एवैतद अवशस्याभ्युपैति; महद भयं कषत्रिय बीजघाति
MBh 2.51.16
[व]
एवम उक्त्वा धृतरास्थ्रॊ मनीषी; दैवं मत्वा परमं दुस्तरं च
शशासॊच्चैः पुरुषान पुत्र वाक्ये; सथितॊ राजा दैवसंमूढचेताः
MBh 2.51.17
सहस्रस्तम्भां हेमवैडूर्य चित्रां; शतद्वारां तॊरणस्फाटि शृङ्गाम
सभाम अग्र्यां करॊशमात्रायतां; मे तद विस्ताराम आशु कुर्वन्तु युक्ताः
MBh 2.51.18
शरुत्वा तस्य तवरिता निर्विशङ्काः; पराज्ञा दक्षास तां तथा चक्रुर आशु
सर्वद्रव्याण्य उपजह्रुः सभायां; सहस्रशः शिल्पिनश चापि युक्ताः
MBh 2.51.19
कालेनाल्पेनाथ निष्ठां गतां; तां सभां रम्यां बहुरत्नां विचित्राम
चित्रैर हेमैर आसनैर अभ्युपेताम; आचख्युस ते तस्य राज्ञः परतीताः
MBh 2.51.20
ततॊ विद्वान विदुरं मन्त्रिमुख्यम; उवाचेदं धृतराष्ट्रॊ नरेन्द्रः
युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन कषिप्रम इहानयस्व
MBh 2.51.21
सभेयं मे बहुरत्ना विचित्रा; शय्यासनैर उपपन्ना महार्हैः
सा दृश्यतां भरातृभिः सार्धम एत्य; सुहृद दयूतं वर्तताम अत्र चेति
MBh 2.51.22
मतम आज्ञाय पुत्रस्य धृतराष्ट्रॊ नराधिपः
मत्वा च दुस्तरं दैवम एतद राजा चकार ह
MBh 2.51.23
अन्यायेन तथॊक्तस तु विदुरॊ विदुषां वरः
नाभ्यनन्दद वचॊ भरातुर वचनं चेदम अब्रवीत
MBh 2.51.24
नाभिनन्दामि नृपते परैषम एतं; मैवं कृथाः कुलनाशाद बिभेमि
पुत्रैर भिन्नैः कलहस ते धरुवं सयाद; एतच छङ्के दयूतकृते नरेन्द्र
MBh 2.51.25
[ध]
नेह कषत्तः कलहस तप्स्यते मां; न चेद दैवं परतिलॊमं भविष्यत
धात्रा तु दिष्टस्य वशे किलेदं सर्वं; जगच चेष्टति न सवतन्त्रम
MBh 2.51.26
तद अद्य विदुर पराप्य राजानं मम शासनात
कषिप्रम आनय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 50
- Next chapter · Sabhā-Parva Ch 52 →
🪷 जय व्यास भगवान् 🪷