🪷 Mahābhārata · Sabhā-Parva · Chapter 47
The Book of the Assembly Hall · Parva 2 · 31 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 31 Shlokas
MBh 2.47.1
दुर्योधन उवाच
यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत
आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः
MBh 2.47.2
न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम्
फलतो भूमितो वापि प्रतिपद्यस्व भारत
MBh 2.47.3
ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान्
प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु
MBh 2.47.4
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्
उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः
MBh 2.47.5
गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः
प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः
MBh 2.47.6
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्
एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः
MBh 2.47.7
शतं दासीसहस्राणां कार्पासिकनिवासिनाम्
श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः
शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च
MBh 2.47.8
बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः
उपनिन्युर्महाराज हयान्गान्धारदेशजान्
MBh 2.47.9
इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये
समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः
MBh 2.47.10
ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह
विविधं बलिमादाय रत्नानि विविधानि च
MBh 2.47.11
अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु
कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः
MBh 2.47.12
प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली
यवनैः सहितो राजा भगदत्तो महारथः
MBh 2.47.13
आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः
MBh 2.47.14
अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन्
प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा
MBh 2.47.15
द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान्
औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान्
MBh 2.47.16
एकपादांश्च तत्राहमपश्यं द्वारि वारितान्
बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु
MBh 2.47.17
इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान्
तथैवेन्द्रायुधनिभान्संध्याभ्रसदृशानपि
MBh 2.47.18
अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान्
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः
MBh 2.47.19
चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः
वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा
MBh 2.47.20
न पारयाम्यभिगतान्विविधान्द्वारि वारितान्
बल्यर्थं ददतस्तस्य नानारूपाननेकशः
MBh 2.47.21
कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः
आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान्
MBh 2.47.22
प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम्
और्णं च राङ्कवं चैव कीटजं पट्टजं तथा
MBh 2.47.23
कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः
श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम्
MBh 2.47.24
निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान्
अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान्
MBh 2.47.25
रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः
बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः
MBh 2.47.26
शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः
महागमान्दूरगमान्गणितानर्बुदं हयान्
MBh 2.47.27
कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम्
बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः
MBh 2.47.28
आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्तमयानि च
MBh 2.47.29
रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान्
हयैर्विनीतैः संपन्नान्वैयाघ्रपरिवारणान्
MBh 2.47.30
विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः
नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च
MBh 2.47.31
एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 46
- Next chapter · Sabhā-Parva Ch 48 →
Sources and Connected Readings
Continue from these 31 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.47local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷