🪷 Mahābhārata · Sabhā-Parva · Chapter 42
The Book of the Assembly Hall · Parva 2 · 60 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 60 Shlokas
MBh 2.42.1
वैशंपायन उवाच
ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः
युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह
MBh 2.42.2
आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन
यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः
MBh 2.42.3
सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा
नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः
MBh 2.42.4
ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम्
अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः
इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः
MBh 2.42.5
एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः
उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान्
MBh 2.42.6
एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः
सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम्
MBh 2.42.7
प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत्
अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः
MBh 2.42.8
क्रीडतो भोजराजन्यानेष रैवतके गिरौ
हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा
MBh 2.42.9
अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम्
पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः
MBh 2.42.10
सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः
भार्यामभ्यहरन्मोहादकामां तामितो गताम्
MBh 2.42.11
एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम्
जहार भद्रां वैशालीं मातुलस्य नृशंसकृत्
MBh 2.42.12
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्
दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते
MBh 2.42.13
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्
कृतानि तु परोक्षं मे यानि तानि निबोधत
MBh 2.42.14
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्
अवलेपाद्वधार्हस्य समग्रे राजमण्डले
MBh 2.42.15
रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः
न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा
MBh 2.42.16
एवमादि ततः सर्वे सहितास्ते नराधिपाः
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्
MBh 2.42.17
ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्
जहास स्वनवद्धासं प्रहस्येदमुवाच ह
MBh 2.42.18
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्
विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्
MBh 2.42.19
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्
अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन
MBh 2.42.20
क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम
क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति
MBh 2.42.21
तथा ब्रुवत एवास्य भगवान्मधुसूदनः
व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः
स पपात महाबाहुर्वज्राहत इवाचलः
MBh 2.42.22
ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः
उत्पतन्तं महाराज गगनादिव भास्करम्
MBh 2.42.23
ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्
ववन्दे तत्तदा तेजो विवेश च नराधिप
MBh 2.42.24
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः
यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम्
MBh 2.42.25
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः
कृष्णेन निहते चैद्ये चचाल च वसुंधरा
MBh 2.42.26
ततः केचिन्महीपाला नाब्रुवंस्तत्र किंचन
अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्
MBh 2.42.27
हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः
अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः
MBh 2.42.28
रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः
केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन्
MBh 2.42.29
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः
ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः
MBh 2.42.30
पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम्
दमघोषात्मजं वीरं संसाधयत मा चिरम्
तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा
MBh 2.42.31
चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम्
अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः
MBh 2.42.32
ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान्
यूनां प्रीतिकरो राजन्संबभौ विपुलौजसः
MBh 2.42.33
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्
अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः
MBh 2.42.34
समापयामास च तं राजसूयं महाक्रतुम्
तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः
ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः
MBh 2.42.35
ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम्
समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत्
MBh 2.42.36
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो
आजमीढाजमीढानां यशः संवर्धितं त्वया
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः
MBh 2.42.37
आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि
MBh 2.42.38
श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः
यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह
MBh 2.42.39
राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परंतपाः
तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्
MBh 2.42.40
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः
यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन्
MBh 2.42.41
विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान्
धनंजयो यज्ञसेनं महात्मानं महारथः
MBh 2.42.42
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः
द्रोणं च ससुतं वीरं सहदेवो महारथः
MBh 2.42.43
नकुलः सुबलं राजन्सहपुत्रं समन्वयात्
द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन्
MBh 2.42.44
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः
एवं संपूजितास्ते वै जग्मुर्विप्राश्च सर्वशः
MBh 2.42.45
गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ
युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्
MBh 2.42.46
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन
राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि
MBh 2.42.47
तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम्
तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम्
MBh 2.42.48
समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम्
उपादाय बलिं मुख्यं मामेव समुपस्थितम्
MBh 2.42.49
न वयं त्वामृते वीर रंस्यामेह कथंचन
अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी
MBh 2.42.50
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्
अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः
MBh 2.42.51
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः
सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि
MBh 2.42.52
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे
सुभद्रां द्रौपदीं चैव सभाजयत केशवः
MBh 2.42.53
निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान्
स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च
MBh 2.42.54
ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम्
योजयित्वा महाराज दारुकः प्रत्युपस्थितः
MBh 2.42.55
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्
प्रदक्षिणमुपावृत्य समारुह्य महामनाः
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम्
MBh 2.42.56
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः
भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम्
MBh 2.42.57
ततो मुहूर्तं संगृह्य स्यन्दनप्रवरं हरिः
अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
MBh 2.42.58
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः
MBh 2.42.59
कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति
MBh 2.42.60
गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप
एको दुर्योधनो राजा शकुनिश्चापि सौबलः
तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 41
- Next chapter · Sabhā-Parva Ch 43 →
Sources and Connected Readings
Continue from these 60 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.42local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷