🪷 Mahābhārata · Sabhā-Parva · Chapter 4
The Book of the Assembly Hall · Parva 2 · 34 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 34 Shlokas
MBh 2.4.1
वैशंपायन उवाच
ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः
अयुतं भोजयामास ब्राह्मणानां नराधिपः
MBh 2.4.2
घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि
MBh 2.4.3
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत
MBh 2.4.4
वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च
MBh 2.4.5
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा
उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम्
MBh 2.4.6
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि
MBh 2.4.7
सभायामृषयस्तस्यां पाण्डवैः सह आसते
आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः
MBh 2.4.8
असितो देवलः सत्यः सर्पमाली महाशिराः
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः
MBh 2.4.9
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम्
MBh 2.4.10
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः
अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ
MBh 2.4.11
दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ
MBh 2.4.12
बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः
जातूकर्णः शिखावांश्च सुबलः पारिजातकः
MBh 2.4.13
पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः
पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा
MBh 2.4.14
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः
MBh 2.4.15
कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः
पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः
कर्करो वेणुजङ्घश्च कलापः कठ एव च
MBh 2.4.16
मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः
एते चान्ये च बहवो वेदवेदाङ्गपारगाः
MBh 2.4.17
उपासते महात्मानं सभायामृषिसत्तमाः
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः
MBh 2.4.18
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते
श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः
MBh 2.4.19
संग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः
काम्बोजराजः कमलः कम्पनश्च महाबलः
MBh 2.4.20
सततं कम्पयामास यवनानेक एव यः
यथासुरान्कालकेयान्देवो वज्रधरस्तथा
MBh 2.4.21
जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः
तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण
MBh 2.4.22
किरातराजः सुमना यवनाधिपतिस्तथा
चाणूरो देवरातश्च भोजो भीमरथश्च यः
MBh 2.4.23
श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः
सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः
MBh 2.4.24
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः
MBh 2.4.25
अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः
शिशुपालः सहसुतः करूषाधिपतिस्तथा
MBh 2.4.26
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः
आहुको विपृथुश्चैव गदः सारण एव च
MBh 2.4.27
अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः
भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान्
केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः
MBh 2.4.28
अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः
MBh 2.4.29
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः
MBh 2.4.30
एते चान्ये च बहवो राजानः पृथिवीपते
धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः
MBh 2.4.31
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा
गीतवादित्रकुशलाः शम्यातालविशारदाः
MBh 2.4.32
प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः
संचोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः
MBh 2.4.33
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते
MBh 2.4.34
तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 3
- Next chapter · Sabhā-Parva Ch 5 →
Sources and Connected Readings
Continue from these 34 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.4local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷