🪷 Mahābhārata · Sabhā-Parva · Chapter 38
The Book of the Assembly Hall · Parva 2 · 40 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 40 Shlokas
MBh 2.38.1
शिशुपाल उवाच
विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान्
न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः
MBh 2.38.2
युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया
वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः
MBh 2.38.3
नावि नौरिव संबद्धा यथान्धो वान्धमन्वियात्
तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः
MBh 2.38.4
पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः
त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः
MBh 2.38.5
अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः
कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते
MBh 2.38.6
यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः
तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि
MBh 2.38.7
यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम्
तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ
MBh 2.38.8
चेतनारहितं काष्ठं यद्यनेन निपातितम्
पादेन शकटं भीष्म तत्र किं कृतमद्भुतम्
MBh 2.38.9
वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः
तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम
MBh 2.38.10
भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि
इति ते भीष्म शृण्वानाः परं विस्मयमागताः
MBh 2.38.11
यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः
स चानेन हतः कंस इत्येतन्न महाद्भुतम्
MBh 2.38.12
न ते श्रुतमिदं भीष्म नूनं कथयतां सताम्
यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम
MBh 2.38.13
स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च
यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः
MBh 2.38.14
इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा
भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते
MBh 2.38.15
ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम
अजानत इवाख्यासि संस्तुवन्कुरुसत्तम
गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति
MBh 2.38.16
असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः
संभावयति यद्येवं त्वद्वाक्याच्च जनार्दनः
एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम्
MBh 2.38.17
न गाथा गाथिनं शास्ति बहु चेदपि गायति
प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा
MBh 2.38.18
नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः
अतः पापीयसी चैषां पाण्डवानामपीष्यते
MBh 2.38.19
येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः
धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः
MBh 2.38.20
को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः
कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता
MBh 2.38.21
अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना
अम्बा नामेति भद्रं ते कथं सापहृता त्वया
MBh 2.38.22
यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः
भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः
MBh 2.38.23
दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः
तव जातान्यपत्यानि सज्जनाचरिते पथि
MBh 2.38.24
न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा
यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः
MBh 2.38.25
न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित्
न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन्
MBh 2.38.26
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः
सर्वमेतदपत्यस्य कलां नार्हति षोडशीम्
MBh 2.38.27
व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत्
सर्वं तदनपत्यस्य मोघं भवति निश्चयात्
MBh 2.38.28
सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात्
हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम्
MBh 2.38.29
एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा
भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः
MBh 2.38.30
वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा
धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह
MBh 2.38.31
धर्मं चरत माधर्ममिति तस्य वचः किल
पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः
MBh 2.38.32
अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः
अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम
MBh 2.38.33
तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः
समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः
MBh 2.38.34
तेषामण्डानि सर्वेषां भक्षयामास पापकृत्
स हंसः संप्रमत्तानामप्रमत्तः स्वकर्मणि
MBh 2.38.35
ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः
अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह
MBh 2.38.36
ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम्
तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम्
MBh 2.38.37
ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः
निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह
MBh 2.38.38
ते त्वां हंससधर्माणमपीमे वसुधाधिपाः
निहन्युर्भीष्म संक्रुद्धाः पक्षिणस्तमिवाण्डजम्
MBh 2.38.39
गाथामप्यत्र गायन्ति ये पुराणविदो जनाः
भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत
MBh 2.38.40
अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम्
अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 37
- Next chapter · Sabhā-Parva Ch 39 →
Sources and Connected Readings
Continue from these 40 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.38local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷