🪷 Mahābhārata · Sabhā-Parva · Chapter 19
The Book of the Assembly Hall · Parva 2 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 50 Shlokas
MBh 2.19.1
वासुदेव उवाच
एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान्
निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः
MBh 2.19.2
वैहारो विपुलः शैलो वराहो वृषभस्तथा
तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः
MBh 2.19.3
एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः
रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम्
MBh 2.19.4
पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः
निगूढा इव लोध्राणां वनैः कामिजनप्रियैः
MBh 2.19.5
शूद्रायां गौतमो यत्र महात्मा संशितव्रतः
औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः
MBh 2.19.6
गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि
भजते मागधं वंशं स नृपाणामनुग्रहात्
MBh 2.19.7
अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः
गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन
MBh 2.19.8
वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः
लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः
MBh 2.19.9
अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ
स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः
MBh 2.19.10
अपरिहार्या मेघानां मागधेयं मणेः कृते
कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम्
MBh 2.19.11
अर्थसिद्धिं त्वनपगां जरासंधोऽभिमन्यते
वयमासादने तस्य दर्पमद्य निहन्म हि
MBh 2.19.12
वैशंपायन उवाच
एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम्
MBh 2.19.13
तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम्
स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम्
MBh 2.19.14
तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम्
बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः
MBh 2.19.15
यत्र माषादमृषभमाससाद बृहद्रथः
तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत्
MBh 2.19.16
आनह्य चर्मणा तेन स्थापयामास स्वे पुरे
यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः
MBh 2.19.17
मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन्
शिरसीव जिघांसन्तो जरासंधजिघांसवः
MBh 2.19.18
स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम्
अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम्
MBh 2.19.19
विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन्
ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा
MBh 2.19.20
एतस्मिन्नेव काले तु जरासंधं समर्चयन्
पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः
MBh 2.19.21
स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः
युयुत्सवः प्रविविशुर्जरासंधेन भारत
MBh 2.19.22
भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम्
स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम्
MBh 2.19.23
तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः
राजमार्गेण गच्छन्तः कृष्णभीमधनंजयाः
MBh 2.19.24
बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः
विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः
MBh 2.19.25
निवेशनमथाजग्मुर्जरासंधस्य धीमतः
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा
MBh 2.19.26
शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः
अशोभन्त महाराज बाहवो बाहुशालिनाम्
MBh 2.19.27
तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान्
व्यूढोरस्कान्मागधानां विस्मयः समजायत
MBh 2.19.28
ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः
अहंकारेण राजानमुपतस्थुर्महाबलाः
MBh 2.19.29
तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान्
प्रत्युत्थाय जरासंध उपतस्थे यथाविधि
MBh 2.19.30
उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः
तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम्
MBh 2.19.31
स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिंजयः
अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत
MBh 2.19.32
तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः
उपतस्थे जरासंधो विस्मितश्चाभवत्तदा
MBh 2.19.33
ते तु दृष्ट्वैव राजानं जरासंधं नरर्षभाः
इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम
MBh 2.19.34
स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः
तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम्
MBh 2.19.35
तानब्रवीज्जरासंधस्तदा यादवपाण्डवान्
आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान्
MBh 2.19.36
अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः
संप्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः
MBh 2.19.37
तानुवाच जरासंधः सत्यसंधो नराधिपः
विगर्हमाणः कौरव्य वेषग्रहणकारणात्
MBh 2.19.38
न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः
भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः
MBh 2.19.39
ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः
बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ
MBh 2.19.40
एवं विरागवसना बहिर्माल्यानुलेपनाः
सत्यं वदत के यूयं सत्यं राजसु शोभते
MBh 2.19.41
चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः
अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात्
MBh 2.19.42
कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम्
वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः
MBh 2.19.43
एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम्
प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे
MBh 2.19.44
एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः
स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः
MBh 2.19.45
स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः
विशेषनियमाश्चैषामविशेषाश्च सन्त्युत
MBh 2.19.46
विशेषवांश्च सततं क्षत्रियः श्रियमर्छति
पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम्
MBh 2.19.47
क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान्
अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम्
MBh 2.19.48
स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत्
तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः
MBh 2.19.49
अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम्
प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः
MBh 2.19.50
कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम्
प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 18
- Next chapter · Sabhā-Parva Ch 20 →
Sources and Connected Readings
Continue from these 50 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.19local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷