🪷 Mahābhārata · Sabhā-Parva · Chapter 16
The Book of the Assembly Hall · Parva 2 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 51 Shlokas
MBh 2.16.1
वासुदेव उवाच
जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च
या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता
MBh 2.16.2
न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा
न चापि कंचिदमरमयुद्धेनापि शुश्रुमः
MBh 2.16.3
एतावदेव पुरुषैः कार्यं हृदयतोषणम्
नयेन विधिदृष्टेन यदुपक्रमते परान्
MBh 2.16.4
सुनयस्यानपायस्य संयुगे परमः क्रमः
संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः
MBh 2.16.5
ते वयं नयमास्थाय शत्रुदेहसमीपगाः
कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः
पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः
MBh 2.16.6
व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम्
इति बुद्धिमतां नीतिस्तन्ममापीह रोचते
MBh 2.16.7
अनवद्या ह्यसंबुद्धाः प्रविष्टाः शत्रुसद्म तत्
शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे
MBh 2.16.8
एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ
अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः
MBh 2.16.9
अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः
प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः
MBh 2.16.10
युधिष्ठिर उवाच
कृष्ण कोऽयं जरासंधः किंवीर्यः किंपराक्रमः
यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा
MBh 2.16.11
कृष्ण उवाच
शृणु राजञ्जरासंधो यद्वीर्यो यत्पराक्रमः
यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः
MBh 2.16.12
अक्षौहिणीनां तिसृणामासीत्समरदर्पितः
राजा बृहद्रथो नाम मगधाधिपतिः पतिः
MBh 2.16.13
रूपवान्वीर्यसंपन्नः श्रीमानतुलविक्रमः
नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः
MBh 2.16.14
तेजसा सूर्यसदृशः क्षमया पृथिवीसमः
यमान्तकसमः कोपे श्रिया वैश्रवणोपमः
MBh 2.16.15
तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम
व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः
MBh 2.16.16
स काशिराजस्य सुते यमजे भरतर्षभ
उपयेमे महावीर्यो रूपद्रविणसंमते
MBh 2.16.17
तयोश्चकार समयं मिथः स पुरुषर्षभः
नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा
MBh 2.16.18
स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप
प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः
MBh 2.16.19
तयोर्मध्यगतश्चापि रराज वसुधाधिपः
गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः
MBh 2.16.20
विषयेषु निमग्नस्य तस्य यौवनमत्यगात्
न च वंशकरः पुत्रस्तस्याजायत कश्चन
MBh 2.16.21
मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः
नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम्
MBh 2.16.22
अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः
शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम्
MBh 2.16.23
यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम्
पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत्
MBh 2.16.24
तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः
परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत
MBh 2.16.25
ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः
पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा
MBh 2.16.26
बृहद्रथ उवाच
भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम्
किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे
MBh 2.16.27
कृष्ण उवाच
एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः
तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत्
MBh 2.16.28
तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह
अवातमशुकादष्टमेकमाम्रफलं किल
MBh 2.16.29
तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च
राज्ञे ददावप्रतिमं पुत्रसंप्राप्तिकारकम्
MBh 2.16.30
उवाच च महाप्राज्ञस्तं राजानं महामुनिः
गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप
MBh 2.16.31
यथासमयमाज्ञाय तदा स नृपसत्तमः
द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ
MBh 2.16.32
ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे
भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः
MBh 2.16.33
तयोः समभवद्गर्भः फलप्राशनसंभवः
ते च दृष्ट्वा नरपतिः परां मुदमवाप ह
MBh 2.16.34
अथ काले महाप्राज्ञ यथासमयमागते
प्रजायेतामुभे राजञ्शरीरशकले तदा
MBh 2.16.35
एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे
दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम्
MBh 2.16.36
उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले
सजीवे प्राणिशकले तत्यजाते सुदुःखिते
MBh 2.16.37
तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसंप्लवे
निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः
MBh 2.16.38
ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी
जग्राह मनुजव्याघ्र मांसशोणितभोजना
MBh 2.16.39
कर्तुकामा सुखवहे शकले सा तु राक्षसी
संघट्टयामास तदा विधानबलचोदिता
MBh 2.16.40
ते समानीतमात्रे तु शकले पुरुषर्षभ
एकमूर्तिकृते वीरः कुमारः समपद्यत
MBh 2.16.41
ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना
न शशाक समुद्वोढुं वज्रसारमयं शिशुम्
MBh 2.16.42
बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः
प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः
MBh 2.16.43
तेन शब्देन संभ्रान्तः सहसान्तःपुरे जनः
निर्जगाम नरव्याघ्र राज्ञा सह परंतप
MBh 2.16.44
ते चाबले परिग्लाने पयःपूर्णपयोधरे
निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम्
MBh 2.16.45
अथ दृष्ट्वा तथाभूते राजानं चेष्टसंततिम्
तं च बालं सुबलिनं चिन्तयामास राक्षसी
MBh 2.16.46
नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः
बालं पुत्रमुपादातुं मेघलेखेव भास्करम्
MBh 2.16.47
सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम्
बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम्
MBh 2.16.48
तव पत्नीद्वये जातो द्विजातिवरशासनात्
धात्रीजनपरित्यक्तो मयायं परिरक्षितः
MBh 2.16.49
ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे
तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम्
MBh 2.16.50
ततः स राजा संहृष्टः सर्वं तदुपलभ्य च
अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम्
MBh 2.16.51
का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी
कामया ब्रूहि कल्याणि देवता प्रतिभासि मे
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Sabhā-Parva chapter-index (72 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Sabhā-Parva Ch 15
- Next chapter · Sabhā-Parva Ch 17 →
Sources and Connected Readings
Continue from these 51 source-pinned Devanāgarī addresses to Sabhā-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 2.16local chapter route · Sabhā-ParvaSabhā-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷