🪷 Mahābhārata · Karṇa-Parva · Chapter 57

The Book of Karṇa · Parva 8 · 69 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 69 Shlokas

MBh 8.57.1
संजय उवाच अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे
MBh 8.57.2
शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ
MBh 8.57.3
एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते भीमसेनादयश्चैते योधयन्ति महारथान् एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन
MBh 8.57.4
एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते
MBh 8.57.5
कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान्
MBh 8.57.6
एष शल्यो रथोपस्थे रश्मिसंचारकोविदः सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते
MBh 8.57.7
तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् नाहत्वा समरे कर्णं निवर्तिष्ये कथंचन
MBh 8.57.8
राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन
MBh 8.57.9
ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना
MBh 8.57.10
प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः
MBh 8.57.11
रथघोषः स संग्रामे पाण्डवेयस्य संबभौ वासवाशनितुल्यस्य महौघस्येव मारिष
MBh 8.57.12
महता रथघोषेण पाण्डवः सत्यविक्रमः अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम्
MBh 8.57.13
तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः
MBh 8.57.14
अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि
MBh 8.57.15
एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति
MBh 8.57.16
एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून्
MBh 8.57.17
वर्जयन्सर्वसैन्यानि त्वरते हि धनंजयः त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः
MBh 8.57.18
न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे
MBh 8.57.19
विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम्
MBh 8.57.20
द्रौपदेयान्युधामन्युमुत्तमौजसमेव च नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च
MBh 8.57.21
सहसैकरथः पार्थस्त्वामभ्येति परंतप क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम्
MBh 8.57.22
त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः
MBh 8.57.23
न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत्
MBh 8.57.24
न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः एक एवाभियाति त्वां पश्य साफल्यमात्मनः
MBh 8.57.25
त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे तवैष भारो राधेय प्रत्युद्याहि धनंजयम्
MBh 8.57.26
त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम्
MBh 8.57.27
लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा लयस्थितं यथा व्याघ्रं जहि कर्ण धनंजयम्
MBh 8.57.28
एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः
MBh 8.57.29
द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः भयहा यो भवेद्वीर त्वामृते सूतनन्दन
MBh 8.57.30
एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः
MBh 8.57.31
वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया गान्धाराश्च यया धृत्या जिताः संख्ये सुदुर्जयाः
MBh 8.57.32
तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना
MBh 8.57.33
कर्ण उवाच प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा प्रतिभासि महाबाहो विभीश्चैव धनंजयात्
MBh 8.57.34
पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम्
MBh 8.57.35
कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते नाहत्वा युधि तौ वीरावपयास्ये कथंचन
MBh 8.57.36
स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः
MBh 8.57.37
नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे
MBh 8.57.38
रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः स वाद्य मां नेष्यति कृच्छ्रमेत;त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे
MBh 8.57.39
अस्वेदिनौ राजपुत्रस्य हस्ता;ववेपिनौ जातकिणौ बृहन्तौ दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः
MBh 8.57.40
गृह्णात्यनेकानपि कङ्कपत्रा;नेकं यथा तान्क्षितिपान्प्रमथ्य ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम्
MBh 8.57.41
अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची
MBh 8.57.42
श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात्
MBh 8.57.43
तथेन्द्रलोके निजघान दैत्या;नसंख्येयान्कालकेयांश्च सर्वान् लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम्
MBh 8.57.44
महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम्
MBh 8.57.45
पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य यैस्ताञ्जघानाशु रणे नृसिंहा;न्स कालखञ्जानसुरान्समेतान्
MBh 8.57.46
तथा विराटस्य पुरे समेता;न्सर्वानस्मानेकरथेन जित्वा जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः
MBh 8.57.47
तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम्
MBh 8.57.48
वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः महात्मनः शङ्खचक्रासिपाणे;र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ
MBh 8.57.49
उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य
MBh 8.57.50
एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद
MBh 8.57.51
अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान्
MBh 8.57.52
निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः
MBh 8.57.53
तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत्
MBh 8.57.54
न संदधानो न तथा शरोत्तमा;न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते धनंजयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः
MBh 8.57.55
शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः
MBh 8.57.56
तमभ्यधावद्विसृजञ्शरान्कृप;स्तथैव भोजस्तव चात्मजः स्वयम् जिघांसुभिस्तान्कुशलैः शरोत्तमा;न्महाहवे संजवितान्प्रयत्नतः शरैः प्रचिच्छेद च पाण्डवस्त्वर;न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः
MBh 8.57.57
स गाण्डिवाभ्यायतपूर्णमण्डल;स्तपन्रिपूनर्जुनभास्करो बभौ शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा
MBh 8.57.58
अथाग्र्यबाणैर्दशभिर्धनंजयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत्
MBh 8.57.59
तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनंजयो द्रौणिरथान्न्यपातयत्
MBh 8.57.60
स रोषपूर्णोऽशनिवज्रहाटकै;रलंकृतं तक्षकभोगवर्चसम् सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा
MBh 8.57.61
स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात्
MBh 8.57.62
कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः
MBh 8.57.63
शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः जघान चाश्वान्कृतवर्मणः शुभा;न्ध्वजं च चिच्छेद ततः प्रतापवान्
MBh 8.57.64
सवाजिसूतेष्वसनान्सकेतना;ञ्जघान नागाश्वरथांस्त्वरंश्च सः ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा ततोऽर्जुनस्याशु रथेन केशव;श्चकार शत्रूनपसव्यमातुरान्
MBh 8.57.65
ततः प्रयान्तं त्वरितं धनंजयं; शतक्रतुं वृत्रनिजघ्नुषं यथा समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः
MBh 8.57.66
अथाभिसृत्य प्रतिवार्य तानरी;न्धनंजयस्याभि रथं महारथाः शिखण्डिशैनेययमाः शितैः शरै;र्विदारयन्तो व्यनदन्सुभैरवम्
MBh 8.57.67
ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः कुरुप्रवीराः सह सृञ्जयैर्यथा;सुराः पुरा देववरैरयोधयन्
MBh 8.57.68
जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परंतप जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक्
MBh 8.57.69
शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 69 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.57local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷