🪷 Mahābhārata · Karṇa-Parva · Chapter 45
The Book of Karṇa · Parva 8 · 73 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 73 Shlokas
MBh 8.45.1
संजय उवाच
द्रौणिस्तु रथवंशेन महता परिवारितः
आपतत्सहसा राजन्यत्र राजा व्यवस्थितः
MBh 8.45.2
तमापतन्तं सहसा शूरः शौरिसहायवान्
दधार सहसा पार्थो वेलेव मकरालयम्
MBh 8.45.3
ततः क्रुद्धो महाराज द्रोणपुत्रः प्रतापवान्
अर्जुनं वासुदेवं च छादयामास पत्रिभिः
MBh 8.45.4
अवच्छन्नौ ततः कृष्णौ दृष्ट्वा तत्र महारथाः
विस्मयं परमं गत्वा प्रैक्षन्त कुरवस्तदा
MBh 8.45.5
अर्जुनस्तु ततो दिव्यमस्त्रं चक्रे हसन्निव
तदस्त्रं ब्राह्मणो युद्धे वारयामास भारत
MBh 8.45.6
यद्यद्धि व्याक्षिपद्युद्धे पाण्डवोऽस्त्रं जिघांसया
तत्तदस्त्रं महेष्वासो द्रोणपुत्रो व्यशातयत्
MBh 8.45.7
अस्त्रयुद्धे ततो राजन्वर्तमाने भयावहे
अपश्याम रणे द्रौणिं व्यात्ताननमिवान्तकम्
MBh 8.45.8
स दिशो विदिशश्चैव छादयित्वा विजिह्मगैः
वासुदेवं त्रिभिर्बाणैरविध्यद्दक्षिणे भुजे
MBh 8.45.9
ततोऽर्जुनो हयान्हत्वा सर्वांस्तस्य महात्मनः
चकार समरे भूमिं शोणितौघतरङ्गिणीम्
MBh 8.45.10
निहता रथिनः पेतुः पार्थचापच्युतैः शरैः
हयाश्च पर्यधावन्त मुक्तयोक्त्रास्ततस्ततः
MBh 8.45.11
तद्दृष्ट्वा कर्म पार्थस्य द्रौणिराहवशोभिनः
अवाकिरद्रणे कृष्णं समन्तान्निशितैः शरैः
MBh 8.45.12
ततोऽर्जुनं महाराज द्रौणिरायम्य पत्रिणा
वक्षोदेशे समासाद्य ताडयामास संयुगे
MBh 8.45.13
सोऽतिविद्धो रणे तेन द्रोणपुत्रेण भारत
आदत्त परिघं घोरं द्रौणेश्चैनमवाक्षिपत्
MBh 8.45.14
तमापतन्तं परिघं कार्तस्वरविभूषितम्
द्रौणिश्चिच्छेद सहसा तत उच्चुक्रुशुर्जनाः
MBh 8.45.15
सोऽनेकधापतद्भूमौ भारद्वाजस्य सायकैः
विशीर्णः पर्वतो राजन्यथा स्यान्मातरिश्वना
MBh 8.45.16
ततोऽर्जुनो रणे द्रौणिं विव्याध दशभिः शरैः
सारथिं चास्य भल्लेन रथनीडादपाहरत्
MBh 8.45.17
स संगृह्य स्वयं वाहान्कृष्णौ प्राच्छादयच्छरैः
तत्राद्भुतमपश्याम द्रौणेराशु पराक्रमम्
MBh 8.45.18
अयच्छत्तुरगान्यच्च फल्गुनं चाप्ययोधयत्
तदस्य समरे राजन्सर्वे योधा अपूजयन्
MBh 8.45.19
यदा त्वग्रस्यत रणे द्रोणपुत्रेण फल्गुनः
ततो रश्मीन्रथाश्वानां क्षुरप्रैश्चिच्छिदे जयः
MBh 8.45.20
प्राद्रवंस्तुरगास्ते तु शरवेगप्रबाधिताः
ततोऽभून्निनदो भूयस्तव सैन्यस्य भारत
MBh 8.45.21
पाण्डवास्तु जयं लब्ध्वा तव सैन्यमुपाद्रवन्
समन्तान्निशितान्बाणान्विमुञ्चन्तो जयैषिणः
MBh 8.45.22
पाण्डवैस्तु महाराज धार्तराष्ट्री महाचमूः
पुनः पुनरथो वीरैरभज्यत जयोद्धतैः
MBh 8.45.23
पश्यतां ते महाराज पुत्राणां चित्रयोधिनाम्
शकुनेः सौबलेयस्य कर्णस्य च महात्मनः
MBh 8.45.24
वार्यमाणा महासेना पुत्रैस्तव जनेश्वर
नावतिष्ठत संग्रामे ताड्यमाना समन्ततः
MBh 8.45.25
ततो योधैर्महाराज पलायद्भिस्ततस्ततः
अभवद्व्याकुलं भीतैः पुत्राणां ते महद्बलम्
MBh 8.45.26
तिष्ठ तिष्ठेति सततं सूतपुत्रस्य जल्पतः
नावतिष्ठत सा सेना वध्यमाना महात्मभिः
MBh 8.45.27
अथोत्क्रुष्टं महाराज पाण्डवैर्जितकाशिभिः
धार्तराष्ट्रबलं दृष्ट्वा द्रवमाणं समन्ततः
MBh 8.45.28
ततो दुर्योधनः कर्णमब्रवीत्प्रणयादिव
पश्य कर्ण यथा सेना पाण्डवैरर्दिता भृशम्
MBh 8.45.29
त्वयि तिष्ठति संत्रासात्पलायति समन्ततः
एतज्ज्ञात्वा महाबाहो कुरु प्राप्तमरिंदम
MBh 8.45.30
सहस्राणि च योधानां त्वामेव पुरुषर्षभ
क्रोशन्ति समरे वीर द्राव्यमाणानि पाण्डवैः
MBh 8.45.31
एतच्छ्रुत्वा तु राधेयो दुर्योधनवचो महत्
मद्रराजमिदं वाक्यमब्रवीत्सूतनन्दनः
MBh 8.45.32
पश्य मे भुजयोर्वीर्यमस्त्राणां च जनेश्वर
अद्य हन्मि रणे सर्वान्पाञ्चालान्पाण्डुभिः सह
वाहयाश्वान्नरव्याघ्र भद्रेणैव जनेश्वर
MBh 8.45.33
एवमुक्त्वा महाराज सूतपुत्रः प्रतापवान्
प्रगृह्य विजयं वीरो धनुःश्रेष्ठं पुरातनम्
सज्यं कृत्वा महाराज संमृज्य च पुनः पुनः
MBh 8.45.34
संनिवार्य च योधान्स्वान्सत्येन शपथेन च
प्रायोजयदमेयात्मा भार्गवास्त्रं महाबलः
MBh 8.45.35
ततो राजन्सहस्राणि प्रयुतान्यर्बुदानि च
कोटिशश्च शरास्तीक्ष्णा निरगच्छन्महामृधे
MBh 8.45.36
ज्वलितैस्तैर्महाघोरैः कङ्कबर्हिणवाजितैः
संछन्ना पाण्डवी सेना न प्राज्ञायत किंचन
MBh 8.45.37
हाहाकारो महानासीत्पाञ्चालानां विशां पते
पीडितानां बलवता भार्गवास्त्रेण संयुगे
MBh 8.45.38
निपतद्भिर्गजै राजन्नरैश्चापि सहस्रशः
रथैश्चापि नरव्याघ्र हयैश्चापि समन्ततः
MBh 8.45.39
प्राकम्पत मही राजन्निहतैस्तैस्ततस्ततः
व्याकुलं सर्वमभवत्पाण्डवानां महद्बलम्
MBh 8.45.40
कर्णस्त्वेको युधां श्रेष्ठो विधूम इव पावकः
दहञ्शत्रून्नरव्याघ्र शुशुभे स परंतपः
MBh 8.45.41
ते वध्यमानाः कर्णेन पाञ्चालाश्चेदिभिः सह
तत्र तत्र व्यमुह्यन्त वनदाहे यथा द्विपाः
चुक्रुशुस्ते नरव्याघ्र यथाप्राग्वा नरोत्तमाः
MBh 8.45.42
तेषां तु क्रोशतां श्रुत्वा भीतानां रणमूर्धनि
धावतां च दिशो राजन्वित्रस्तानां समन्ततः
आर्तनादो महांस्तत्र प्रेतानामिव संप्लवे
MBh 8.45.43
वध्यमानांस्तु तान्दृष्ट्वा सूतपुत्रेण मारिष
वित्रेसुः सर्वभूतानि तिर्यग्योनिगतान्यपि
MBh 8.45.44
ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः
अर्जुनं वासुदेवं च व्याक्रोशन्त मुहुर्मुहुः
प्रेतराजपुरे यद्वत्प्रेतराजं विचेतसः
MBh 8.45.45
अथाब्रवीद्वासुदेवं कुन्तीपुत्रो धनंजयः
भार्गवास्त्रं महाघोरं दृष्ट्वा तत्र सभीरितम्
MBh 8.45.46
पश्य कृष्ण महाबाहो भार्गवास्त्रस्य विक्रमम्
नैतदस्त्रं हि समरे शक्यं हन्तुं कथंचन
MBh 8.45.47
सूतपुत्रं च संरब्धं पश्य कृष्ण महारणे
अन्तकप्रतिमं वीरं कुर्वाणं कर्म दारुणम्
MBh 8.45.48
सुतीक्ष्णं चोदयन्नश्वान्प्रेक्षते मां मुहुर्मुहुः
न च पश्यामि समरे कर्णस्य प्रपलायितम्
MBh 8.45.49
जीवन्प्राप्नोति पुरुषः संख्ये जयपराजयौ
जितस्य तु हृषीकेश वध एव कुतो जयः
MBh 8.45.50
ततो जनार्दनः प्रायाद्द्रष्टुमिच्छन्युधिष्ठिरम्
श्रमेण ग्राहयिष्यंश्च कर्णं युद्धेन मारिष
MBh 8.45.51
अर्जुनं चाब्रवीत्कृष्णो भृशं राजा परिक्षतः
तमाश्वास्य कुरुश्रेष्ठ ततः कर्णं हनिष्यसि
MBh 8.45.52
ततो धनंजयो द्रष्टुं राजानं बाणपीडितम्
रथेन प्रययौ क्षिप्रं संग्रामे केशवाज्ञया
MBh 8.45.53
गच्छन्नेव तु कौन्तेयो धर्मराजदिदृक्षया
सैन्यमालोकयामास नापश्यत्तत्र चाग्रजम्
MBh 8.45.54
युद्धं कृत्वा तु कौन्तेयो द्रोणपुत्रेण भारत
दुःसहं वज्रिणा संख्ये पराजिग्ये भृगोः सुतम्
MBh 8.45.55
द्रौणिं पराजित्य ततोग्रधन्वा; कृत्वा महद्दुष्करमार्यकर्म
आलोकयामास ततः स्वसैन्यं; धनंजयः शत्रुभिरप्रधृष्यः
MBh 8.45.56
स युध्यमानः पृतनामुखस्था;ञ्शूराञ्शूरो हर्षयन्सव्यसाची
पूर्वापदानैः प्रथितैः प्रशंस;न्स्थिरांश्चकारात्मरथाननीके
MBh 8.45.57
अपश्यमानस्तु किरीटमाली; युधि ज्येष्ठं भ्रातरमाजमीढम्
उवाच भीमं तरसाभ्युपेत्य; राज्ञः प्रवृत्तिस्त्विह केति राजन्
MBh 8.45.58
भीम उवाच
अपयात इतो राजा धर्मपुत्रो युधिष्ठिरः
कर्णबाणविभुग्नाङ्गो यदि जीवेत्कथंचन
MBh 8.45.59
अर्जुन उवाच
तस्माद्भवाञ्शीघ्रमितः प्रयातु; राज्ञः प्रवृत्त्यै कुरुसत्तमस्य
नूनं हि विद्धोऽतिभृशं पृषत्कैः; कर्णेन राजा शिबिरं गतोऽसौ
MBh 8.45.60
यः संप्रहारे निशि संप्रवृत्ते; द्रोणेन विद्धोऽतिभृशं तरस्वी
तस्थौ च तत्रापि जयप्रतीक्षो; द्रोणेन यावन्न हतः किलासीत्
MBh 8.45.61
स संशयं गमितः पाण्डवाग्र्यः; संख्येऽद्य कर्णेन महानुभावः
ज्ञातुं प्रयाह्याशु तमद्य भीम; स्थास्याम्यहं शत्रुगणान्निरुध्य
MBh 8.45.62
भीम उवाच
त्वमेव जानीहि महानुभाव; राज्ञः प्रवृत्तिं भरतर्षभस्य
अहं हि यद्यर्जुन यामि तत्र; वक्ष्यन्ति मां भीत इति प्रवीराः
MBh 8.45.63
ततोऽब्रवीदर्जुनो भीमसेनं; संशप्तकाः प्रत्यनीकं स्थिता मे
एतानहत्वा न मया तु शक्य;मितोऽपयातुं रिपुसंघगोष्ठात्
MBh 8.45.64
अथाब्रवीदर्जुनं भीमसेनः; स्ववीर्यमाश्रित्य कुरुप्रवीर
संशप्तकान्प्रतियोत्स्यामि संख्ये; सर्वानहं याहि धनंजयेति
MBh 8.45.65
तद्भीमसेनस्य वचो निशम्य; सुदुर्वचं भ्रातुरमित्रमध्ये
द्रष्टुं कुरुश्रेष्ठमभिप्रयातुं; प्रोवाच वृष्णिप्रवरं तदानीम्
MBh 8.45.66
चोदयाश्वान्हृषीकेश विगाह्यैतं रथार्णवम्
अजातशत्रुं राजानं द्रष्टुमिच्छामि केशव
MBh 8.45.67
ततो हयान्सर्वदाशार्हमुख्यः; प्राचोदयद्भीममुवाच चेदम्
नैतच्चित्रं तव कर्माद्य वीर; यास्यामहे जहि भीमारिसंघान्
MBh 8.45.68
ततो ययौ हृषीकेशो यत्र राजा युधिष्ठिरः
शीघ्राच्छीघ्रतरं राजन्वाजिभिर्गरुडोपमैः
MBh 8.45.69
प्रत्यनीके व्यवस्थाप्य भीमसेनमरिंदमम्
संदिश्य चैव राजेन्द्र युद्धं प्रति वृकोदरम्
MBh 8.45.70
ततस्तु गत्वा पुरुषप्रवीरौ; राजानमासाद्य शयानमेकम्
रथादुभौ प्रत्यवरुह्य तस्मा;द्ववन्दतुर्धर्मराजस्य पादौ
MBh 8.45.71
तौ दृष्ट्वा पुरुषव्याघ्रौ क्षेमिणौ पुरुषर्षभ
मुदाभ्युपगतौ कृष्णावश्विनाविव वासवम्
MBh 8.45.72
तावभ्यनन्दद्राजा हि विवस्वानश्विनाविव
हते महासुरे जम्भे शक्रविष्णू यथा गुरुः
MBh 8.45.73
मन्यमानो हतं कर्णं धर्मराजो युधिष्ठिरः
हर्षगद्गदया वाचा प्रीतः प्राह परंतपौ
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 44
- Next chapter · Karṇa-Parva Ch 46 →
Sources and Connected Readings
Continue from these 73 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.45local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷