🪷 Mahābhārata · Karṇa-Parva · Chapter 26

The Book of Karṇa · Parva 8 · 74 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 74 Shlokas

MBh 8.26.1
दुर्योधन उवाच अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः
MBh 8.26.2
यथा हरिहयैर्युक्तं संगृह्णाति स मातलिः शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम्
MBh 8.26.3
योधे त्वयि रथस्थे च मद्रराजे च सारथौ रथश्रेष्ठो ध्रुवं संख्ये पार्थो नाभिभविष्यति
MBh 8.26.4
संजय उवाच ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् उवाच राजन्संग्रामे संयच्छन्तं हयोत्तमान्
MBh 8.26.5
त्वयाभिगुप्तो राधेयो विजेष्यति धनंजयम् इत्युक्तो रथमास्थाय तथेति प्राह भारत
MBh 8.26.6
शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन्
MBh 8.26.7
ततो जैत्रं रथवरं गन्धर्वनगरोपमम् विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत्
MBh 8.26.8
तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि संपादितं ब्रह्मविदा पूर्वमेव पुरोधसा
MBh 8.26.9
कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् समीपस्थं मद्रराजं समारोपयदग्रतः
MBh 8.26.10
ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् आरुरोह महातेजाः शल्यः सिंह इवाचलम्
MBh 8.26.11
ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः
MBh 8.26.12
तावेकरथमारूढावादित्याग्निसमत्विषौ व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि
MBh 8.26.13
संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे
MBh 8.26.14
स शल्यसंगृहीताश्वे रथे कर्णः स्थितोऽभवत् धनुर्विस्फारयन्घोरं परिवेषीव भास्करः
MBh 8.26.15
आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान्
MBh 8.26.16
तं रथस्थं महावीरं यान्तं चामिततेजसम् दुर्योधनः स्म राधेयमिदं वचनमब्रवीत्
MBh 8.26.17
अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम्
MBh 8.26.18
मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम्
MBh 8.26.19
ताभ्यां यदकृतं वीर वीरकर्म महामृधे तत्कर्म कुरु राधेय वज्रपाणिरिवापरः
MBh 8.26.20
गृहाण धर्मराजं वा जहि वा त्वं धनंजयम् भीमसेनं च राधेय माद्रीपुत्रौ यमावपि
MBh 8.26.21
जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात्
MBh 8.26.22
ततस्तूर्यसहस्राणि भेरीणामयुतानि च वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि
MBh 8.26.23
प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः अभ्यभाषत राधेयः शल्यं युद्धविशारदम्
MBh 8.26.24
चोदयाश्वान्महाबाहो यावद्धन्मि धनंजयम् भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम्
MBh 8.26.25
अद्य पश्यतु मे शल्य बाहुवीर्यं धनंजयः अस्यतः कङ्कपत्राणां सहस्राणि शतानि च
MBh 8.26.26
अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् पाण्डवानां विनाशाय दुर्योधनजयाय च
MBh 8.26.27
शल्य उवाच सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान्
MBh 8.26.28
अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् अपि संजनयेयुर्ये भयं साक्षाच्छतक्रतोः
MBh 8.26.29
यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि
MBh 8.26.30
संजय उवाच अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर
MBh 8.26.31
दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परंतप
MBh 8.26.32
ततो दुन्दुभिघोषेण भेरीणां निनदेन च बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम्
MBh 8.26.33
प्रयाते तु ततः कर्णे योधेषु मुदितेषु च चचाल पृथिवी राजन्ररास च सुविस्वरम्
MBh 8.26.34
निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः उल्कापातश्च संजज्ञे दिशां दाहस्तथैव च तथाशन्यश्च संपेतुर्ववुर्वाताश्च दारुणाः
MBh 8.26.35
मृगपक्षिगणाश्चैव बहुशः पृतनां तव अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम्
MBh 8.26.36
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम्
MBh 8.26.37
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते
MBh 8.26.38
एते चान्ये च बहव उत्पातास्तत्र मारिष समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः
MBh 8.26.39
न च तान्गणयामासुः सर्वे ते दैवमोहिताः प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः
MBh 8.26.40
ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः
MBh 8.26.41
स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा
MBh 8.26.42
नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः दृष्ट्वा तु भीष्मप्रमुखाञ्शयाना;न्न त्वेव मां स्थिरता संजहाति
MBh 8.26.43
महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ अवध्यकल्पौ निहतौ यदा परै;स्ततो ममाद्यापि रणेऽस्ति साध्वसम्
MBh 8.26.44
समीक्ष्य संख्येऽतिबलान्नराधिपै;र्नराश्वमातङ्गरथाञ्शरैर्हतान् कथं न सर्वानहितान्रणेऽवधी;न्महास्त्रविद्ब्राह्मणपुंगवो गुरुः
MBh 8.26.45
स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम्
MBh 8.26.46
शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये
MBh 8.26.47
नेह ध्रुवं किंचिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते
MBh 8.26.48
न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः
MBh 8.26.49
हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम्
MBh 8.26.50
संप्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम्
MBh 8.26.51
यत्र राजा पाण्डवः सत्यसंधो; व्यवस्थितो भीमसेनार्जुनौ च वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः
MBh 8.26.52
तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च तान्वा हनिष्यामि समेत्य संख्ये; यास्यामि वा द्रोणमुखाय मन्ये
MBh 8.26.53
न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम्
MBh 8.26.54
प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै
MBh 8.26.55
कल्याणवृत्तः सततं हि राज;न्वैचित्रवीर्यस्य सुतो ममासीत् तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च
MBh 8.26.56
वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् रथप्रबर्हं तुरगप्रबर्है;र्युक्तं प्रादान्मह्यमिदं हि रामः
MBh 8.26.57
धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान् असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम्
MBh 8.26.58
पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात्
MBh 8.26.59
तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय
MBh 8.26.60
यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम्
MBh 8.26.61
इति रणरभसस्य कत्थत;स्तदुपनिशम्य वचः स मद्रराट् अवहसदवमन्य वीर्यवा;न्प्रतिषिषिधे च जगाद चोत्तरम्
MBh 8.26.62
विरम विरम कर्ण कत्थना;दतिरभसोऽस्यति चाप्ययुक्तवाक् क्व च हि नरवरो धनंजयः; क्व पुनरिह त्वमुपारमाबुध
MBh 8.26.63
यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् प्रसभमिह विलोक्य को हरे;त्पुरुषवरावरजामृतेऽर्जुनात्
MBh 8.26.64
त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि मृगवधकलहे ऋतेऽर्जुना;त्सुरपतिवीर्यसमप्रभावतः
MBh 8.26.65
असुरसुरमहोरगान्नरा;न्गरुडपिशाचसयक्षराक्षसान् इषुभिरजयदग्निगौरवा;त्स्वभिलषितं च हविर्ददौ जयः
MBh 8.26.66
स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन्
MBh 8.26.67
प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः
MBh 8.26.68
समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः
MBh 8.26.69
इदमपरमुपस्थितं पुन;स्तव निधनाय सुयुद्धमद्य वै यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज
MBh 8.26.70
संजय उवाच इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम्
MBh 8.26.71
भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव
MBh 8.26.72
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया
MBh 8.26.73
स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा
MBh 8.26.74
ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः स चालोक्य ध्वजिनीं पाण्डवानां; धनंजयं त्वरया पर्यपृच्छत्

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 74 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 8.26local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷