🪷 Mahābhārata · Karṇa-Parva · Chapter 21
The Book of Karṇa · Parva 8 · 42 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 42 Shlokas
MBh 8.21.1
संजय उवाच
ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः
पुनरावृत्य संग्रामं चक्रुर्देवासुरोपमम्
MBh 8.21.2
द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश्च शस्त्रपातैः
द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते
MBh 8.21.3
शरपरशुवरासिपट्टिशै;रिषुभिरनेकविधैश्च सादिताः
द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः
MBh 8.21.4
कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः
रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता बभौ
MBh 8.21.5
परिघमुसलशक्तितोमरै;र्नखरभुशुण्डिगदाशतैर्द्रुताः
द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन्
MBh 8.21.6
प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनमुल्बणं तदा
तदहितनिहतं बभौ बलं; पितृपतिराष्ट्रमिव प्रजाक्षये
MBh 8.21.7
अथ तव नरदेव सैनिका;स्तव च सुताः सुरसूनुसंनिभाः
अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः
MBh 8.21.8
तदतिरुचिरभीममाबभौ; पुरुषवराश्वरथद्विपाकुलम्
लवणजलसमुद्धतस्वनं; बलममरासुरसैन्यसंनिभम्
MBh 8.21.9
सुरपतिसमविक्रमस्तत;स्त्रिदशवरावरजोपमं युधि
दिनकरकिरणप्रभैः पृषत्कै; रवितनयोऽभ्यहनच्छिनिप्रवीरम्
MBh 8.21.10
तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन्
भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा
MBh 8.21.11
शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः
त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह
MBh 8.21.12
तमुदधिनिभमाद्रवद्बली; त्वरिततरैः समभिद्रुतं परैः
द्रुपदसुतसखस्तदाकरो;त्पुरुषरथाश्वगजक्षयं महत्
MBh 8.21.13
अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम्
अरिवधकृतनिश्चयौ द्रुतं; तव बलमर्जुनकेशवौ सृतौ
MBh 8.21.14
जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम्
सितहयमुपयान्तमन्तिकं; हृतमनसो ददृशुस्तदारयः
MBh 8.21.15
अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः
शरसंबाधमकरोत्खं दिशः प्रदिशस्तथा
MBh 8.21.16
रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान्
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत्
MBh 8.21.17
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान्
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम्
MBh 8.21.18
तमन्तकमिव क्रुद्धमनिवार्यं महारथम्
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः
MBh 8.21.19
तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः
हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा
MBh 8.21.20
नवमं च समासाद्य व्यसृजत्प्रतिघातिनम्
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत्
MBh 8.21.21
ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः
कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः
MBh 8.21.22
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत्
दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात्
MBh 8.21.23
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः
विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः
MBh 8.21.24
अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः
नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत्
MBh 8.21.25
ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन्
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः
MBh 8.21.26
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च
चेदिकारूषमत्स्यानां केकयानां च यद्बलम्
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः
MBh 8.21.27
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन्
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः
MBh 8.21.28
तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः
अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः
MBh 8.21.29
रथिनः समहामात्रान्गजानश्वान्ससादिनः
शरव्रातांश्च संक्रुद्धो निघ्नन्कर्णो व्यदृश्यत
MBh 8.21.30
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा
विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम्
MBh 8.21.31
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम्
दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः
MBh 8.21.32
मुसलानीव निष्पेतुः परिघा इव चेषवः
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे
MBh 8.21.33
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम्
निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः
MBh 8.21.34
निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः
वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः
MBh 8.21.35
एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम्
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान्
MBh 8.21.36
तमसा च महाराज रजसा च विशेषतः
न किंचित्प्रत्यपश्याम शुभं वा यदि वाशुभम्
MBh 8.21.37
ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत
अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः
MBh 8.21.38
कौरवेषु च यातेषु तदा राजन्दिनक्षये
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः
MBh 8.21.39
वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः
परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ
MBh 8.21.40
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते
आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः
MBh 8.21.41
ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः
निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः
MBh 8.21.42
यक्षरक्षःपिशाचाश्च श्वापदानि च संघशः
जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम्
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 20
- Next chapter · Karṇa-Parva Ch 22 →
Sources and Connected Readings
Continue from these 42 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.21local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷