🪷 Mahābhārata · Karṇa-Parva · Chapter 15
The Book of Karṇa · Parva 8 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 8.15.1
धृतराष्ट्र उवाच
प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः
न त्वस्य कर्म संग्रामे त्वया संजय कीर्तितम्
MBh 8.15.2
तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम्
शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च
MBh 8.15.3
संजय उवाच
द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान्
समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि
MBh 8.15.4
तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते
वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति
MBh 8.15.5
स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः
कर्णस्यानीकमवधीत्परिभूत इवान्तकः
MBh 8.15.6
तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम्
कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम्
MBh 8.15.7
व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून्
सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत्
MBh 8.15.8
द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान्
सपादरक्षानवधीद्वज्रेणारीनिवारिहा
MBh 8.15.9
सशक्तिप्रासतूणीरानश्वारोहान्हयानपि
पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान्
MBh 8.15.10
दाक्षिणात्यांश्च भोजांश्च क्रूरान्संग्रामकर्कशान्
विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून्
MBh 8.15.11
चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे
दृष्ट्वा द्रौणिरसंभ्रान्तमसंभ्रान्ततरोऽभ्ययात्
MBh 8.15.12
आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत्
प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन्
MBh 8.15.13
राजन्कमलपत्राक्ष प्रधानायुधवाहन
वज्रसंहननप्रख्य प्रधानबलपौरुष
MBh 8.15.14
मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः
दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम्
MBh 8.15.15
शरवर्षैर्महावेगैरमित्रानभिवर्षतः
मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे
MBh 8.15.16
रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून्
मृगसंघानिवारण्ये विभीर्भीमबलो हरिः
MBh 8.15.17
महता रथघोषेण दिवं भूमिं च नादयन्
वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव
MBh 8.15.18
संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान्
मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा
MBh 8.15.19
एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः
कर्णिना द्रोणतनयं विव्याध मलयध्वजः
MBh 8.15.20
मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः
स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः
MBh 8.15.21
ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः
गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत्
MBh 8.15.22
तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः
चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन्
MBh 8.15.23
अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः
धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः
MBh 8.15.24
विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा
ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः
इषुसंबाधमाकाशमकरोद्दिश एव च
MBh 8.15.25
ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः
जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः
MBh 8.15.26
प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः
चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः
MBh 8.15.27
अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः
प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा
MBh 8.15.28
अष्टावष्टगवान्यूहुः शकटानि यदायुधम्
अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष
MBh 8.15.29
तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम्
ये ये ददृशिरे तत्र विसंज्ञाः प्रायशोऽभवन्
MBh 8.15.30
पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम्
आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत्
MBh 8.15.31
द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम्
वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत्
MBh 8.15.32
तस्य नानदतः केतुं चन्दनागुरुभूषितम्
मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत्
MBh 8.15.33
सूतमेकेषुणा हत्वा महाजलदनिस्वनम्
धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम्
MBh 8.15.34
अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च
प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया
MBh 8.15.35
हतेश्वरो दन्तिवरः सुकल्पित;स्त्वराभिसृष्टः प्रतिशर्मगो बली
तमध्यतिष्ठन्मलयेश्वरो महा;न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा
MBh 8.15.36
स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः
ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन्
MBh 8.15.37
मणिप्रतानोत्तमवज्रहाटकै;रलंकृतं चांशुकमाल्यमौक्तिकैः
हतोऽस्यसावित्यसकृन्मुदा नद;न्पराभिनद्द्रौणिवराङ्गभूषणम्
MBh 8.15.38
तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम्
महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा
MBh 8.15.39
ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा
समादधे चान्तकदण्डसंनिभा;निषूनमित्रान्तकरांश्चतुर्दश
MBh 8.15.40
द्विपस्य पादाग्रकरान्स पञ्चभि;र्नृपस्य बाहू च शिरोऽथ च त्रिभिः
जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान्
MBh 8.15.41
सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ
भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ
MBh 8.15.42
शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम्
क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा
MBh 8.15.43
समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः
सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Karṇa-Parva chapter-index (69 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Karṇa-Parva Ch 14
- Next chapter · Karṇa-Parva Ch 16 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Karṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 8.15local chapter route · Karṇa-ParvaKarṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷