🪷 Mahābhārata · Droṇa-Parva · Chapter 22

The Book of Droṇa · Parva 7 · 63 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 63 Shlokas

MBh 7.22.1
धृतराष्ट्र उवाच सर्वेषामेव मे ब्रूहि रथचिह्नानि संजय ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः
MBh 7.22.2
संजय उवाच ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् रजताश्वस्ततः शूरः शैनेयः संन्यवर्तत
MBh 7.22.3
दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः
MBh 7.22.4
कृष्णास्तु मेघसंकाशाः सहदेवमुदायुधम् भीमवेगा नरव्याघ्रमवहन्वातरंहसः
MBh 7.22.5
हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम्
MBh 7.22.6
राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः
MBh 7.22.7
ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत
MBh 7.22.8
तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः
MBh 7.22.9
ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः
MBh 7.22.10
हारिद्रसमवर्णास्तु जवना हेममालिनः पुत्रं विराटराजस्य सत्वराः समुदावहन्
MBh 7.22.11
इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः जातरूपसमाभासः सर्वे लोहितकध्वजाः
MBh 7.22.12
ते हेममालिनः शूराः सर्वे युद्धविशारदाः वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः
MBh 7.22.13
आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन्
MBh 7.22.14
तथा द्वादशसाहस्राः पाञ्चालानां महारथाः तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः
MBh 7.22.15
पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः
MBh 7.22.16
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः
MBh 7.22.17
बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन्
MBh 7.22.18
मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलंकृताः शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन्
MBh 7.22.19
युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम्
MBh 7.22.20
श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन्
MBh 7.22.21
सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत माषपुष्पसवर्णास्तमवहन्वाजिनो रणे
MBh 7.22.22
सहस्रसोमप्रतिमा बभूवुः; पुरे कुरूणामुदयेन्दुनाम्नि तस्मिञ्जातः सोमसंक्रन्दमध्ये; यस्मात्तस्मात्सुतसोमोऽभवत्सः
MBh 7.22.23
नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन्
MBh 7.22.24
काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसंनिभाः द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन्
MBh 7.22.25
श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः
MBh 7.22.26
यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे
MBh 7.22.27
एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः तं बृहन्तो महाकाया युयुत्सुमवहन्रणे
MBh 7.22.28
पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलंकृताः
MBh 7.22.29
कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः
MBh 7.22.30
रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन्
MBh 7.22.31
रुक्ममालाधराः शूरा हेमवर्णाः स्वलंकृताः काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन्
MBh 7.22.32
अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् तं सत्यधृतिमायान्तमरुणाः समुदावहन्
MBh 7.22.33
यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन्
MBh 7.22.34
तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो
MBh 7.22.35
युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः
MBh 7.22.36
प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः
MBh 7.22.37
शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः
MBh 7.22.38
बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः
MBh 7.22.39
इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः
MBh 7.22.40
अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव राजानं रोचमानं ते हयाः संख्ये समावहन्
MBh 7.22.41
कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः जारासंधिं हयश्रेष्ठाः सहदेवमुदावहन्
MBh 7.22.42
ये तु पुष्करनालस्य समवर्णा हयोत्तमाः जवे श्येनसमाश्चित्राः सुदामानमुदावहन्
MBh 7.22.43
शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन्
MBh 7.22.44
पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः
MBh 7.22.45
माषवर्णास्तु जवना बृहन्तो हेममालिनः दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम्
MBh 7.22.46
शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन्
MBh 7.22.47
बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन्
MBh 7.22.48
शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः
MBh 7.22.49
एकवर्णेन सर्वेण ध्वजेन कवचेन च अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत
MBh 7.22.50
समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन्
MBh 7.22.51
नीलोत्पलसवर्णास्तु तपनीयविभूषिताः शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः
MBh 7.22.52
कलायपुष्पवर्णास्तु श्वेतलोहितराजयः रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम्
MBh 7.22.53
यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् तं पटच्चरहन्तारं शुकवर्णावहन्हयाः
MBh 7.22.54
चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् ऊहुः किंशुकपुष्पाणां तुल्यवर्णा हयोत्तमाः
MBh 7.22.55
एकवर्णेन सर्वेण ध्वजेन कवचेन च धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत
MBh 7.22.56
नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत
MBh 7.22.57
ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः ते रोचमानस्य सुतं हेमवर्णमुदावहन्
MBh 7.22.58
योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन्
MBh 7.22.59
आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् अवहन्रथमुख्यानामयुतानि चतुर्दश
MBh 7.22.60
नानारूपेण वर्णेन नानाकृतिमुखा हयाः रथचक्रध्वजं वीरं घटोत्कचमुदावहन्
MBh 7.22.61
सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः
MBh 7.22.62
ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः
MBh 7.22.63
अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 63 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.22local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷