🪷 Mahābhārata · Droṇa-Parva · Chapter 148
The Book of Droṇa · Parva 7 · 62 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 62 Shlokas
MBh 7.148.1
संजय उवाच
ततः कर्णो रणे दृष्ट्वा पार्षतं परवीरहा
आजघानोरसि शरैर्दशभिर्मर्मभेदिभिः
MBh 7.148.2
प्रतिविव्याध तं तूर्णं धृष्टद्युम्नोऽपि मारिष
पञ्चभिः सायकैर्हृष्टस्तिष्ठ तिष्ठेति चाब्रवीत्
MBh 7.148.3
तावन्योन्यं शरैः संख्ये संछाद्य सुमहारथौ
पुनः पूर्णायतोत्सृष्टैर्विव्यधाते परस्परम्
MBh 7.148.4
ततः पाञ्चालमुख्यस्य धृष्टद्युम्नस्य संयुगे
सारथिं चतुरश्चाश्वान्कर्णो विव्याध सायकैः
MBh 7.148.5
कार्मुकप्रवरं चास्य प्रचिच्छेद शितैः शरैः
सारथिं चास्य भल्लेन रथनीडादपातयत्
MBh 7.148.6
धृष्टद्युम्नस्तु विरथो हताश्वो हतसारथिः
गृहीत्वा परिघं घोरं कर्णस्याश्वानपीपिषत्
MBh 7.148.7
विद्धश्च बहुभिस्तेन शरैराशीविषोपमैः
ततो युधिष्ठिरानीकं पद्भ्यामेवान्ववर्तत
आरुरोह रथं चापि सहदेवस्य मारिष
MBh 7.148.8
कर्णस्यापि रथे वाहानन्यान्सूतो न्ययोजयत्
शङ्खवर्णान्महावेगान्सैन्धवान्साधुवाहिनः
MBh 7.148.9
लब्धलक्ष्यस्तु राधेयः पाञ्चालानां महारथान्
अभ्यपीडयदायस्तः शरैर्मेघ इवाचलान्
MBh 7.148.10
सा पीड्यमाना कर्णेन पाञ्चालानां महाचमूः
संप्राद्रवत्सुसंत्रस्ता सिंहेनेवार्दिता मृगी
MBh 7.148.11
पतितास्तुरगेभ्यश्च गजेभ्यश्च महीतले
रथेभ्यश्च नरास्तूर्णमदृश्यन्त ततस्ततः
MBh 7.148.12
धावमानस्य योधस्य क्षुरप्रैः स महामृधे
बाहू चिच्छेद वै कर्णः शिरश्चैव सकुण्डलम्
MBh 7.148.13
ऊरू चिच्छेद चान्यस्य गजस्थस्य विशां पते
वाजिपृष्ठगतस्यापि भूमिष्ठस्य च मारिष
MBh 7.148.14
नाज्ञासिषुर्धावमाना बहवश्च महारथाः
संछिन्नान्यात्मगात्राणि वाहनानि च संयुगे
MBh 7.148.15
ते वध्यमानाः समरे पाञ्चालाः सृञ्जयैः सह
तृणप्रस्पन्दनाच्चापि सूतपुत्रं स्म मेनिरे
MBh 7.148.16
अपि स्वं समरे योधं धावमानं विचेतसः
कर्णमेवाभ्यमन्यन्त ततो भीता द्रवन्ति ते
MBh 7.148.17
तान्यनीकानि भग्नानि द्रवमाणानि भारत
अभ्यद्रवद्द्रुतं कर्णः पृष्ठतो विकिरञ्शरान्
MBh 7.148.18
अवेक्षमाणास्तेऽन्योन्यं सुसंमूढा विचेतसः
नाशक्नुवन्नवस्थातुं काल्यमाना महात्मना
MBh 7.148.19
कर्णेनाभ्याहता राजन्पाञ्चालाः परमेषुभिः
द्रोणेन च दिशः सर्वा वीक्षमाणाः प्रदुद्रुवुः
MBh 7.148.20
ततो युधिष्ठिरो राजा स्वसैन्यं प्रेक्ष्य विद्रुतम्
अपयाने मतिं कृत्वा फल्गुनं वाक्यमब्रवीत्
MBh 7.148.21
पश्य कर्णं महेष्वासं धनुष्पाणिमवस्थितम्
निशीथे दारुणे काले तपन्तमिव भास्करम्
MBh 7.148.22
कर्णसायकनुन्नानां क्रोशतामेष निस्वनः
अनिशं श्रूयते पार्थ त्वद्बन्धूनामनाथवत्
MBh 7.148.23
यथा विसृजतश्चास्य संदधानस्य चाशुगान्
पश्यामि जयविक्रान्तं क्षपयिष्यति नो ध्रुवम्
MBh 7.148.24
यदत्रानन्तरं कार्यं प्राप्तकालं प्रपश्यसि
कर्णस्य वधसंयुक्तं तत्कुरुष्व धनंजय
MBh 7.148.25
एवमुक्तो महाबाहुः पार्थः कृष्णमथाब्रवीत्
भीतः कुन्तीसुतो राजा राधेयस्यातिविक्रमात्
MBh 7.148.26
एवं गते प्राप्तकालं कर्णानीके पुनः पुनः
भवान्व्यवस्यतां क्षिप्रं द्रवते हि वरूथिनी
MBh 7.148.27
द्रोणसायकनुन्नानां भग्नानां मधुसूदन
कर्णेन त्रास्यमानानामवस्थानं न विद्यते
MBh 7.148.28
पश्यामि च तथा कर्णं विचरन्तमभीतवत्
द्रवमाणान्रथोदारान्किरन्तं विशिखैः शितैः
MBh 7.148.29
नैतदस्योत्सहे सोढुं चरितं रणमूर्धनि
प्रत्यक्षं वृष्णिशार्दूल पादस्पर्शमिवोरगः
MBh 7.148.30
स भवानत्र यात्वाशु यत्र कर्णो महारथः
अहमेनं वधिष्यामि मां वैष मधुसूदन
MBh 7.148.31
वासुदेव उवाच
पश्यामि कर्णं कौन्तेय देवराजमिवाहवे
विचरन्तं नरव्याघ्रमतिमानुषविक्रमम्
MBh 7.148.32
नैतस्यान्योऽस्ति समरे प्रत्युद्याता धनंजय
ऋते त्वां पुरुषव्याघ्र राक्षसाद्वा घटोत्कचात्
MBh 7.148.33
न तु तावदहं मन्ये प्राप्तकालं तवानघ
समागमं महाबाहो सूतपुत्रेण संयुगे
MBh 7.148.34
दीप्यमाना महोल्केव तिष्ठत्यस्य हि वासवी
त्वदर्थं हि महाबाहो रौद्ररूपं बिभर्ति च
MBh 7.148.35
घटोत्कचस्तु राधेयं प्रत्युद्यातु महाबलः
स हि भीमेन बलिना जातः सुरपराक्रमः
MBh 7.148.36
तस्मिन्नस्त्राणि दिव्यानि राक्षसान्यासुराणि च
सततं चानुरक्तो वो हितैषी च घटोत्कचः
विजेष्यति रणे कर्णमिति मे नात्र संशयः
MBh 7.148.37
संजय उवाच
एवमुक्त्वा महाबाहुः पार्थं पुष्करलोचनः
आजुहावाथ तद्रक्षः तच्चासीत्प्रादुरग्रतः
MBh 7.148.38
कवची स शरी खड्गी सधन्वा च विशां पते
अभिवाद्य ततः कृष्णं पाण्डवं च धनंजयम्
अब्रवीत्तं तदा हृष्टस्त्वयमस्म्यनुशाधि माम्
MBh 7.148.39
ततस्तं मेघसंकाशं दीप्तास्यं दीप्तकुण्डलम्
अभ्यभाषत हैडिम्बं दाशार्हः प्रहसन्निव
MBh 7.148.40
घटोत्कच विजानीहि यत्त्वां वक्ष्यामि पुत्रक
प्राप्तो विक्रमकालोऽयं तव नान्यस्य कस्यचित्
MBh 7.148.41
स भवान्मज्जमानानां बन्धूनां त्वं प्लवो यथा
विविधानि तवास्त्राणि सन्ति माया च राक्षसी
MBh 7.148.42
पश्य कर्णेन हैडिम्ब पाण्डवानामनीकिनी
काल्यमाना यथा गावः पालेन रणमूर्धनि
MBh 7.148.43
एष कर्णो महेष्वासो मतिमान्दृढविक्रमः
पाण्डवानामनीकेषु निहन्ति क्षत्रियर्षभान्
MBh 7.148.44
किरन्तः शरवर्षाणि महान्ति दृढधन्विनः
न शक्नुवन्त्यवस्थातुं पीड्यमानाः शरार्चिषा
MBh 7.148.45
निशीथे सूतपुत्रेण शरवर्षेण पीडिताः
एते द्रवन्ति पाञ्चालाः सिंहस्येव भयान्मृगाः
MBh 7.148.46
एतस्यैवं प्रवृद्धस्य सूतपुत्रस्य संयुगे
निषेद्धा विद्यते नान्यस्त्वदृते भीमविक्रम
MBh 7.148.47
स त्वं कुरु महाबाहो कर्म युक्तमिहात्मनः
मातुलानां पितॄणां च तेजसोऽस्त्रबलस्य च
MBh 7.148.48
एतदर्थं हि हैडिम्ब पुत्रानिच्छन्ति मानवाः
कथं नस्तारयेद्दुःखात्स त्वं तारय बान्धवान्
MBh 7.148.49
तव ह्यस्त्रबलं भीमं मायाश्च तव दुस्तराः
संग्रामे युध्यमानस्य सततं भीमनन्दन
MBh 7.148.50
पाण्डवानां प्रभग्नानां कर्णेन शितसायकैः
मज्जतां धार्तराष्ट्रेषु भव पारं परंतप
MBh 7.148.51
रात्रौ हि राक्षसा भूयो भवन्त्यमितविक्रमाः
बलवन्तः सुदुर्धर्षाः शूरा विक्रान्तचारिणः
MBh 7.148.52
जहि कर्णं महेष्वासं निशीथे मायया रणे
पार्था द्रोणं वधिष्यन्ति धृष्टद्युम्नपुरोगमाः
MBh 7.148.53
केशवस्य वचः श्रुत्वा बीभत्सुरपि राक्षसम्
अभ्यभाषत कौरव्य घटोत्कचमरिंदमम्
MBh 7.148.54
घटोत्कच भवांश्चैव दीर्घबाहुश्च सात्यकिः
मतौ मे सर्वसैन्येषु भीमसेनश्च पाण्डवः
MBh 7.148.55
स भवान्यातु कर्णेन द्वैरथं युध्यतां निशि
सात्यकिः पृष्ठगोपस्ते भविष्यति महारथः
MBh 7.148.56
जहि कर्णं रणे शूरं सात्वतेन सहायवान्
यथेन्द्रस्तारकं पूर्वं स्कन्देन सह जघ्निवान्
MBh 7.148.57
घटोत्कच उवाच
अलमेवास्मि कर्णाय द्रोणायालं च सत्तम
अन्येषां क्षत्रियाणां च कृतास्त्राणां महात्मनाम्
MBh 7.148.58
अद्य दास्यामि संग्रामं सूतपुत्राय तं निशि
यं जनाः संप्रवक्ष्यन्ति यावद्भूमिर्धरिष्यति
MBh 7.148.59
न चात्र शूरान्मोक्ष्यामि न भीतान्न कृताञ्जलीन्
सर्वानेव वधिष्यामि राक्षसं धर्ममास्थितः
MBh 7.148.60
संजय उवाच
एवमुक्त्वा महाबाहुर्हैडिम्बः परवीरहा
अभ्ययात्तुमुले कर्णं तव सैन्यं विभीषयन्
MBh 7.148.61
तमापतन्तं संक्रुद्धं दीप्तास्यमिव पन्नगम्
अभ्यस्यन्परमेष्वासः प्रतिजग्राह सूतजः
MBh 7.148.62
तयोः समभवद्युद्धं कर्णराक्षसयोर्निशि
गर्जतो राजशार्दूल शक्रप्रह्रादयोरिव
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Droṇa-Parva chapter-index (173 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Droṇa-Parva Ch 147
- Next chapter · Droṇa-Parva Ch 149 →
Sources and Connected Readings
Continue from these 62 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 7.148local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷