🪷 Mahābhārata · Droṇa-Parva · Chapter 137

The Book of Droṇa · Parva 7 · 51 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 51 Shlokas

MBh 7.137.1
संजय उवाच सोमदत्तं तु संप्रेक्ष्य विधुन्वानं महद्धनुः सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह
MBh 7.137.2
न ह्यहत्वा रणे शत्रुं बाह्लीकं कौरवाधमम् निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम
MBh 7.137.3
ततः संप्रेषयद्यन्ता सैन्धवांस्तान्महाजवान् तुरङ्गमाञ्शङ्खवर्णान्सर्वशब्दातिगान्रणे
MBh 7.137.4
तेऽवहन्युयुधानं तु मनोमारुतरंहसः यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम्
MBh 7.137.5
तमापतन्तं संप्रेक्ष्य सात्वतं रभसं रणे सोमदत्तो महाबाहुरसंभ्रान्तोऽभ्यवर्तत
MBh 7.137.6
विमुञ्चञ्शरवर्षाणि पर्जन्य इव वृष्टिमान् छादयामास शैनेयं जलदो भास्करं यथा
MBh 7.137.7
असंभ्रान्तश्च समरे सात्यकिः कुरुपुंगवम् छादयामास बाणौघैः समन्ताद्भरतर्षभ
MBh 7.137.8
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः
MBh 7.137.9
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ
MBh 7.137.10
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ परस्परमवेक्षेतां दहन्ताविव लोचनैः
MBh 7.137.11
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ घोररूपौ हि तावास्तां वृष्टिमन्ताविवाम्बुदौ
MBh 7.137.12
शरसंभिन्नगात्रौ तौ सर्वतः शकलीकृतौ श्वाविधाविव राजेन्द्र व्यदृश्येतां शरक्षतौ
MBh 7.137.13
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यरोचताम् खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती
MBh 7.137.14
संप्रदीपितसर्वाङ्गौ सायकैस्तौ महारथौ अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ
MBh 7.137.15
ततो युधि महाराज सोमदत्तो महारथः अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः
MBh 7.137.16
अथैनं पञ्चविंशत्या सायकानां समार्पयत् त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः
MBh 7.137.17
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत
MBh 7.137.18
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव
MBh 7.137.19
सोमदत्तस्त्वसंभ्रान्तो दृष्ट्वा केतुं निपातितम् शैनेयं पञ्चविंशत्या सायकानां समाचिनोत्
MBh 7.137.20
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः धनुश्चिच्छेद समरे क्षुरप्रेण शितेन ह
MBh 7.137.21
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम्
MBh 7.137.22
अथान्यद्धनुरादाय सोमदत्तो महारथः सात्यकिं छादयामास शरवृष्ट्या महाबलः
MBh 7.137.23
सोमदत्तं तु संक्रुद्धो रणे विव्याध सात्यकिः सात्यकिं चेषुजालेन सोमदत्तो अपीडयत्
MBh 7.137.24
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् सोमदत्तोऽप्यसंभ्रान्तः शैनेयमवधीच्छरैः
MBh 7.137.25
ततस्तु सात्वतस्यार्थे भैमसेनिर्नवं दृढम् मुमोच परिघं घोरं सोमदत्तस्य वक्षसि
MBh 7.137.26
तमापतन्तं वेगेन परिघं घोरदर्शनम् द्विधा चिच्छेद समरे प्रहसन्निव कौरवः
MBh 7.137.27
स पपात द्विधा छिन्न आयसः परिघो महान् महीधरस्येव महच्छिखरं वज्रदारितम्
MBh 7.137.28
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः
MBh 7.137.29
चतुर्भिस्तु शरैस्तूर्णं चतुरस्तुरगोत्तमान् समीपं प्रेषयामास प्रेतराजस्य भारत
MBh 7.137.30
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा जहार रथशार्दूलः प्रहसञ्शिनिपुंगवः
MBh 7.137.31
ततः शरं महाघोरं ज्वलन्तमिव पावकम् मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम्
MBh 7.137.32
स विमुक्तो बलवता शैनेयेन शरोत्तमः घोरस्तस्योरसि विभो निपपाताशु भारत
MBh 7.137.33
सोऽतिविद्धो बलवता सात्वतेन महारथः सोमदत्तो महाबाहुर्निपपात ममार च
MBh 7.137.34
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः महता शरवर्षेण युयुधानमुपाद्रवन्
MBh 7.137.35
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः महत्या सेनया सार्धं द्रोणानीकमुपाद्रवत्
MBh 7.137.36
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् शरैर्विद्रावयामास भारद्वाजस्य पश्यतः
MBh 7.137.37
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः
MBh 7.137.38
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः सोऽतिविद्धो महाबाहुः सृक्किणी परिसंलिहन् युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च
MBh 7.137.39
स छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः अन्यदादत्त वेगेन कार्मुकं समरे दृढम्
MBh 7.137.40
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः साश्वसूतध्वजरथं तदद्भुतमिवाभवत्
MBh 7.137.41
ततो मुहूर्तं व्यथितः शरघातप्रपीडितः निषसाद रथोपस्थे द्रोणो भरतसत्तम
MBh 7.137.42
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः क्रोधेन महताविष्टो वायव्यास्त्रमवासृजत्
MBh 7.137.43
असंभ्रान्तस्ततः पार्थो धनुराकृष्य वीर्यवान् तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत
MBh 7.137.44
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् युधिष्ठिर महाबाहो यत्त्वा वक्ष्यामि तच्छृणु
MBh 7.137.45
उपारमस्व युद्धाय द्रोणाद्भरतसत्तम गृध्यते हि सदा द्रोणो ग्रहणे तव संयुगे
MBh 7.137.46
नानुरूपमहं मन्ये युद्धमस्य त्वया सह योऽस्य सृष्टो विनाशाय स एनं श्वो हनिष्यति
MBh 7.137.47
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः भीमश्च रथशार्दूलो युध्यते कौरवैः सह
MBh 7.137.48
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम्
MBh 7.137.49
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः
MBh 7.137.50
रथघोषेण महता नादयन्वसुधातलम् पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश
MBh 7.137.51
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 51 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.137local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷