🪷 Mahābhārata · Droṇa-Parva · Chapter 108

The Book of Droṇa · Parva 7 · 41 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 41 Shlokas

MBh 7.108.1
धृतराष्ट्र उवाच अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् यत्कर्णं योधयामास समरे लघुविक्रमम्
MBh 7.108.2
त्रिदशानपि चोद्युक्तान्सर्वशस्त्रधरान्युधि वारयेद्यो रणे कर्णः सयक्षासुरमानवान्
MBh 7.108.3
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया नातरत्संयुगे तात तन्ममाचक्ष्व संजय
MBh 7.108.4
कथं च युद्धं भूयोऽभूत्तयोः प्राणदुरोदरे अत्र मन्ये समायत्तो जयो वाजय एव वा
MBh 7.108.5
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान्
MBh 7.108.6
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा भीमसेनेन समरे मोह आविशतीव माम्
MBh 7.108.7
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः न हि कर्णो महेष्वासान्पार्थाञ्जेष्यति संजय
MBh 7.108.8
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह सर्वत्र पाण्डवाः कर्णमजयन्त रणाजिरे
MBh 7.108.9
अजय्याः पाण्डवास्तात देवैरपि सवासवैः न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम
MBh 7.108.10
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते
MBh 7.108.11
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् जितानित्येव मन्वानः पाण्डवानवमन्यते
MBh 7.108.12
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः
MBh 7.108.13
शमकामः सदा पार्थो दीर्घप्रेक्षी युधिष्ठिरः अशक्त इति मन्वानैः पुत्रैर्मम निराकृतः
MBh 7.108.14
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम्
MBh 7.108.15
तस्मान्मे संजय ब्रूहि कर्णभीमौ यथा रणे अयुध्येतां युधि श्रेष्ठौ परस्परवधैषिणौ
MBh 7.108.16
संजय उवाच शृणु राजन्यथा वृत्तः संग्रामः कर्णभीमयोः परस्परवधप्रेप्स्वोर्वने कुञ्जरयोरिव
MBh 7.108.17
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिंदमम् पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः
MBh 7.108.18
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः आहनद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः
MBh 7.108.19
तस्यास्यतो धनुर्भीमश्चकर्त निशितैस्त्रिभिः रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ
MBh 7.108.20
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो वृषः शक्तिं कनकवैडूर्यचित्रदण्डां परामृशत्
MBh 7.108.21
प्रगृह्य च महाशक्तिं कालशक्तिमिवापराम् समुत्क्षिप्य च राधेयः संधाय च महाबलः चिक्षेप भीमसेनाय जीवितान्तकरीमिव
MBh 7.108.22
शक्तिं विसृज्य राधेयः पुरंदर इवाशनिम् ननाद सुमहानादं बलवान्सूतनन्दनः तं च नादं ततः श्रुत्वा पुत्रास्ते हृषिताभवन्
MBh 7.108.23
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः
MBh 7.108.24
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसंनिभाम् मार्गमाण इव प्राणान्सूतपुत्रस्य मारिष
MBh 7.108.25
प्राहिणोन्नव संरब्धः शरान्बर्हिणवाससः स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे
MBh 7.108.26
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् विकृष्य च महातेजा व्यसृजत्सायकान्नव
MBh 7.108.27
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् छित्त्वा भीमो महाराज नादं सिंह इवानदत्
MBh 7.108.28
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे शार्दूलाविव चान्योन्यमत्यर्थं च ह्यगर्जताम्
MBh 7.108.29
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ
MBh 7.108.30
महागजाविवासाद्य विषाणाग्रैः परस्परम् शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः
MBh 7.108.31
निर्दहन्तौ महाराज शरवृष्ट्या परस्परम् अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ
MBh 7.108.32
प्रहसन्तौ तथान्योन्यं भर्त्सयन्तौ मुहुर्मुहुः शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम्
MBh 7.108.33
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम्
MBh 7.108.34
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम्
MBh 7.108.35
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत्
MBh 7.108.36
एवमुक्तस्तथेत्युक्त्वा तव पुत्रस्तवात्मजम् अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्शरान्
MBh 7.108.37
स भीमं नवभिर्बाणैरश्वानष्टभिरर्दयत् षड्भिः सूतं त्रिभिः केतुं पुनस्तं चापि सप्तभिः
MBh 7.108.38
भीमसेनोऽपि संक्रुद्धः साश्वयन्तारमाशुगैः दुर्जयं भिन्नमर्माणमनयद्यमसादनम्
MBh 7.108.39
स्वलंकृतं क्षितौ क्षुण्णं चेष्टमानं यथोरगम् रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम्
MBh 7.108.40
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् समाचिनोद्बाणगणैः शतघ्नीमिव शङ्कुभिः
MBh 7.108.41
तथाप्यतिरथः कर्णो भिद्यमानः स्म सायकैः न जहौ समरे भीमं क्रुद्धरूपं परंतपः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 41 source-pinned Devanāgarī addresses to Droṇa-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 7.108local chapter route · Droṇa-ParvaDroṇa-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷