🪷 Mahābhārata · Bhīṣma-Parva · Chapter 86

The Book of Bhīṣma · Parva 6 · 86 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 86 Shlokas

MBh 6.86.1
संजय उवाच वर्तमाने तथा रौद्रे राजन्वीरवरक्षये शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्
MBh 6.86.2
तथैव सात्वतो राजन्हार्दिक्यः परवीरहा अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम्
MBh 6.86.3
ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम् आरट्टानां महीजानां सिन्धुजानां च सर्वशः
MBh 6.86.4
वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ये चापरे तित्तिरजा जवना वातरंहसः
MBh 6.86.5
सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः
MBh 6.86.6
अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् सुतायां नागराजस्य जातः पार्थेन धीमता
MBh 6.86.7
ऐरावतेन सा दत्ता अनपत्या महात्मना पत्यौ हते सुपर्णेन कृपणा दीनचेतना
MBh 6.86.8
भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम् एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः
MBh 6.86.9
स नागलोके संवृद्धो मात्रा च परिरक्षितः पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना
MBh 6.86.10
रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्
MBh 6.86.11
सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो
MBh 6.86.12
मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः
MBh 6.86.13
परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः प्रीतिमानभवत्पार्थो देवराजनिवेशने
MBh 6.86.14
सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो
MBh 6.86.15
बाढमित्येवमुक्त्वा च युद्धकाल उपागतः कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप
MBh 6.86.16
ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः उत्पेतुः सहसा राजन्हंसा इव महोदधौ
MBh 6.86.17
ते त्वदीयान्समासाद्य हयसंघान्महाजवान् क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् निपेतुः सहसा राजन्सुवेगाभिहता भुवि
MBh 6.86.18
निपतद्भिस्तथा तैश्च हयसंघैः परस्परम् शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा
MBh 6.86.19
तथैव च महाराज समेत्यान्योन्यमाहवे परस्परवधं घोरं चक्रुस्ते हयसादिनः
MBh 6.86.20
तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् उभयोरपि संशान्ता हयसंघाः समन्ततः
MBh 6.86.21
प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्
MBh 6.86.22
ततः क्षीणे हयानीके किंचिच्छेषे च भारत सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि
MBh 6.86.23
वायुवेगसमस्पर्शा जवे वायुसमांस्तथा आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान्
MBh 6.86.24
गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः षडेते बलसंपन्ना निर्ययुर्महतो बलात्
MBh 6.86.25
वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः संनद्धा युद्धकुशला रौद्ररूपा महाबलाः
MBh 6.86.26
तदनीकं महाबाहो भित्त्वा परमदुर्जयम् बलेन महता युक्ताः स्वर्गाय विजयैषिणः विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः
MBh 6.86.27
तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् अब्रवीत्समरे योधान्विचित्राभरणायुधान्
MBh 6.86.28
यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्
MBh 6.86.29
बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः
MBh 6.86.30
तदनीकमनीकेन समरे वीक्ष्य पातितम् अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन्
MBh 6.86.31
ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्
MBh 6.86.32
इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः
MBh 6.86.33
उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे
MBh 6.86.34
इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः मोहयामास समरे विद्ध्वा परपुरंजयः
MBh 6.86.35
प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः तैरेव ताडयामास सुबलस्यात्मजान्रणे
MBh 6.86.36
निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि
MBh 6.86.37
ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन्
MBh 6.86.38
इरावानपि खड्गेन दर्शयन्पाणिलाघवम् अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः
MBh 6.86.39
लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः
MBh 6.86.40
भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः
MBh 6.86.41
अथाभ्याशगतानां स खड्गेनामित्रकर्शनः उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत
MBh 6.86.42
आयुधानि च सर्वेषां बाहूनपि च भूषितान् अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः
MBh 6.86.43
वृषकस्तु महाराज बहुधा परिविक्षतः अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात्
MBh 6.86.44
तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम्
MBh 6.86.45
आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम् वैरिणं भीमसेनस्य पूर्वं बकवधेन वै
MBh 6.86.46
पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम्
MBh 6.86.47
त्वं च कामगमस्तात मायास्त्रे च विशारदः कृतवैरश्च पार्थेन तस्मादेनं रणे जहि
MBh 6.86.48
बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा
MBh 6.86.49
स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः निहन्तुकामः समरे इरावन्तं महाबलम्
MBh 6.86.50
इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्
MBh 6.86.51
तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे
MBh 6.86.52
तेन मायामयाः कॢप्ता हयास्तावन्त एव हि स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः
MBh 6.86.53
ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः अचिराद्गमयामासुः प्रेतलोकं परस्परम्
MBh 6.86.54
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ
MBh 6.86.55
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः
MBh 6.86.56
समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम्
MBh 6.86.57
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत् इरावन्तमभिक्रुद्धं मोहयन्निव मायया
MBh 6.86.58
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम् विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः
MBh 6.86.59
तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः संबभूव महाराज समवाप च यौवनम्
MBh 6.86.60
माया हि सहजा तेषां वयो रूपं च कामजम् एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत
MBh 6.86.61
इरावानपि संक्रुद्धो राक्षसं तं महाबलम् परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः
MBh 6.86.62
स तेन बलिना वीरश्छिद्यमान इव द्रुमः राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत्
MBh 6.86.63
परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे
MBh 6.86.64
आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्
MBh 6.86.65
तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे
MBh 6.86.66
तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्
MBh 6.86.67
स नागैर्बहुशो राजन्सर्वतः संवृतो रणे दधार सुमहद्रूपमनन्त इव भोगवान् ततो बहुविधैर्नागैश्छादयामास राक्षसम्
MBh 6.86.68
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः सौपर्णं रूपमास्थाय भक्षयामास पन्नगान्
MBh 6.86.69
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके विमोहितमिरावन्तमसिना राक्षसोऽवधीत्
MBh 6.86.70
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् इरावतः शिरो रक्षः पातयामास भूतले
MBh 6.86.71
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः
MBh 6.86.72
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः महान्व्यतिकरो घोरः सेनयोः समपद्यत
MBh 6.86.73
हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः
MBh 6.86.74
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे रथिभिर्निहता राजंस्तव तेषां च संकुले
MBh 6.86.75
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम् जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः
MBh 6.86.76
तथैव तावका राजन्सृञ्जयाश्च महाबलाः जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम्
MBh 6.86.77
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः बाहुभिः समयुध्यन्त समवेताः परस्परम्
MBh 6.86.78
तथा मर्मातिगैर्भीष्मो निजघान महारथान् कम्पयन्समरे सेनां पाण्डवानां महाबलः
MBh 6.86.79
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा
MBh 6.86.80
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्
MBh 6.86.81
तथैव भीमसेनस्य पार्षतस्य च भारत रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः
MBh 6.86.82
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान्
MBh 6.86.83
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः
MBh 6.86.84
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्
MBh 6.86.85
आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः
MBh 6.86.86
न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 86 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 6.86local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷