🪷 Mahābhārata · Bhīṣma-Parva · Chapter 84
The Book of Bhīṣma · Parva 6 · 43 unique Sanskrit addresses · pinned Critical Edition-derived witness
The Devanāgarī Yathārtha · 43 Shlokas
MBh 6.84.1
संजय उवाच
भीष्मं तु समरे क्रुद्धं प्रतपन्तं समन्ततः
न शेकुः पाण्डवा द्रष्टुं तपन्तमिव भास्करम्
MBh 6.84.2
ततः सर्वाणि सैन्यानि धर्मपुत्रस्य शासनात्
अभ्यद्रवन्त गाङ्गेयं मर्दयन्तं शितैः शरैः
MBh 6.84.3
स तु भीष्मो रणश्लाघी सोमकान्सहसृञ्जयान्
पाञ्चालांश्च महेष्वासान्पातयामास सायकैः
MBh 6.84.4
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह
भीष्ममेवाभ्ययुस्तूर्णं त्यक्त्वा मृत्युकृतं भयम्
MBh 6.84.5
स तेषां रथिनां वीरो भीष्मः शांतनवो युधि
चिच्छेद सहसा राजन्बाहूनथ शिरांसि च
MBh 6.84.6
विरथान्रथिनश्चक्रे पिता देवव्रतस्तव
पतितान्युत्तमाङ्गानि हयेभ्यो हयसादिनाम्
MBh 6.84.7
निर्मनुष्यांश्च मातङ्गाञ्शयानान्पर्वतोपमान्
अपश्याम महाराज भीष्मास्त्रेण प्रमोहितान्
MBh 6.84.8
न तत्रासीत्पुमान्कश्चित्पाण्डवानां विशां पते
अन्यत्र रथिनां श्रेष्ठाद्भीमसेनान्महाबलात्
MBh 6.84.9
स हि भीष्मं समासाद्य ताडयामास संयुगे
ततो निष्टानको घोरो भीष्मभीमसमागमे
MBh 6.84.10
बभूव सर्वसैन्यानां घोररूपो भयानकः
तथैव पाण्डवा हृष्टाः सिंहनादमथानदन्
MBh 6.84.11
ततो दुर्योधनो राजा सोदर्यैः परिवारितः
भीष्मं जुगोप समरे वर्तमाने जनक्षये
MBh 6.84.12
भीमस्तु सारथिं हत्वा भीष्मस्य रथिनां वरः
विद्रुताश्वे रथे तस्मिन्द्रवमाणे समन्ततः
सुनाभस्य शरेणाशु शिरश्चिच्छेद चारिहा
MBh 6.84.13
क्षुरप्रेण सुतीक्ष्णेन स हतो न्यपतद्भुवि
हते तस्मिन्महाराज तव पुत्रे महारथे
नामृष्यन्त रणे शूराः सोदर्याः सप्त संयुगे
MBh 6.84.14
आदित्यकेतुर्बह्वाशी कुण्डधारो महोदरः
अपराजितः पण्डितको विशालाक्षः सुदुर्जयः
MBh 6.84.15
पाण्डवं चित्रसंनाहा विचित्रकवचध्वजाः
अभ्यद्रवन्त संग्रामे योद्धुकामारिमर्दनाः
MBh 6.84.16
महोदरस्तु समरे भीमं विव्याध पत्रिभिः
नवभिर्वज्रसंकाशैर्नमुचिं वृत्रहा यथा
MBh 6.84.17
आदित्यकेतुः सप्तत्या बह्वाशी चापि पञ्चभिः
नवत्या कुण्डधारस्तु विशालाक्षश्च सप्तभिः
MBh 6.84.18
अपराजितो महाराज पराजिष्णुर्महारथः
शरैर्बहुभिरानर्छद्भीमसेनं महाबलम्
MBh 6.84.19
रणे पण्डितकश्चैनं त्रिभिर्बाणैः समर्दयत्
स तन्न ममृषे भीमः शत्रुभिर्वधमाहवे
MBh 6.84.20
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः
शिरश्चिच्छेद समरे शरेण नतपर्वणा
MBh 6.84.21
अपराजितस्य सुनसं तव पुत्रस्य संयुगे
पराजितस्य भीमेन निपपात शिरो महीम्
MBh 6.84.22
अथापरेण भल्लेन कुण्डधारं महारथम्
प्राहिणोन्मृत्युलोकाय सर्वलोकस्य पश्यतः
MBh 6.84.23
ततः पुनरमेयात्मा प्रसंधाय शिलीमुखम्
प्रेषयामास समरे पण्डितं प्रति भारत
MBh 6.84.24
स शरः पण्डितं हत्वा विवेश धरणीतलम्
यथा नरं निहत्याशु भुजगः कालचोदितः
MBh 6.84.25
विशालाक्षशिरश्छित्त्वा पातयामास भूतले
त्रिभिः शरैरदीनात्मा स्मरन्क्लेशं पुरातनम्
MBh 6.84.26
महोदरं महेष्वासं नाराचेन स्तनान्तरे
विव्याध समरे राजन्स हतो न्यपतद्भुवि
MBh 6.84.27
आदित्यकेतोः केतुं च छित्त्वा बाणेन संयुगे
भल्लेन भृशतीक्ष्णेन शिरश्चिच्छेद चारिहा
MBh 6.84.28
बह्वाशिनं ततो भीमः शरेण नतपर्वणा
प्रेषयामास संक्रुद्धो यमस्य सदनं प्रति
MBh 6.84.29
प्रदुद्रुवुस्ततस्तेऽन्ये पुत्रास्तव विशां पते
मन्यमाना हि तत्सत्यं सभायां तस्य भाषितम्
MBh 6.84.30
ततो दुर्योधनो राजा भ्रातृव्यसनकर्शितः
अब्रवीत्तावकान्योधान्भीमोऽयं युधि वध्यताम्
MBh 6.84.31
एवमेते महेष्वासाः पुत्रास्तव विशां पते
भ्रातॄन्संदृश्य निहतान्प्रास्मरंस्ते हि तद्वचः
MBh 6.84.32
यदुक्तवान्महाप्राज्ञः क्षत्ता हितमनामयम्
तदिदं समनुप्राप्तं वचनं दिव्यदर्शिनः
MBh 6.84.33
लोभमोहसमाविष्टः पुत्रप्रीत्या जनाधिप
न बुध्यसे पुरा यत्तत्तथ्यमुक्तं वचो महत्
MBh 6.84.34
तथैव हि वधार्थाय पुत्राणां पाण्डवो बली
नूनं जातो महाबाहुर्यथा हन्ति स्म कौरवान्
MBh 6.84.35
ततो दुर्योधनो राजा भीष्ममासाद्य मारिष
दुःखेन महताविष्टो विललापातिकर्शितः
MBh 6.84.36
निहता भ्रातरः शूरा भीमसेनेन मे युधि
यतमानास्तथान्येऽपि हन्यन्ते सर्वसैनिकाः
MBh 6.84.37
भवांश्च मध्यस्थतया नित्यमस्मानुपेक्षते
सोऽहं कापथमारूढः पश्य दैवमिदं मम
MBh 6.84.38
एतच्छ्रुत्वा वचः क्रूरं पिता देवव्रतस्तव
दुर्योधनमिदं वाक्यमब्रवीत्साश्रुलोचनम्
MBh 6.84.39
उक्तमेतन्मया पूर्वं द्रोणेन विदुरेण च
गान्धार्या च यशस्विन्या तत्त्वं तात न बुद्धवान्
MBh 6.84.40
समयश्च मया पूर्वं कृतो वः शत्रुकर्शन
नाहं युधि विमोक्तव्यो नाप्याचार्यः कथंचन
MBh 6.84.41
यं यं हि धार्तराष्ट्राणां भीमो द्रक्ष्यति संयुगे
हनिष्यति रणे तं तं सत्यमेतद्ब्रवीमि ते
MBh 6.84.42
स त्वं राजन्स्थिरो भूत्वा दृढां कृत्वा रणे मतिम्
योधयस्व रणे पार्थान्स्वर्गं कृत्वा परायणम्
MBh 6.84.43
न शक्याः पाण्डवा जेतुं सेन्द्रैरपि सुरासुरैः
तस्माद्युद्धे मतिं कृत्वा स्थिरां युध्यस्व भारत
🪷 The Honest Framing
This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.
Navigation
- ← Bhīṣma-Parva chapter-index (117 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Bhīṣma-Parva Ch 83
- Next chapter · Bhīṣma-Parva Ch 85 →
Sources and Connected Readings
Continue from these 43 source-pinned Devanāgarī addresses to Bhīṣma-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.
MBh 6.84local chapter route · Bhīṣma-ParvaBhīṣma-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesMBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
🪷 जय व्यास भगवान् 🪷